ब्रह्माण्ड पुराण · अध्याय 1.25
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपादे ज्योतिषां सन्निवेशंनं नाम चतुर्विंशतितमो ऽध्यायः
सूत उवाच
एतदुक्वा महाबुद्धिर्वायुर्ल्लोकहिते रतः ।
ज्जाप जप्यं भगवान्मध्यं प्राप्ते दिवाकरे
ऋषयश्चापि ते सर्वे ये तत्रासन्समागताः ।
ते सर्वे नियतात्मानस्तस्थुः प्राञ्जलयस्तथा
य इज्यो नियमस्यान्ते प्राणिनां जीवनः प्रभुः ।
नीलकण्ठ नमस्ते ऽस्तु इत्युवाच सदागतिः
श्रुत्वा तु भावितात्मानो मुनयः शंसितव्रताः ।
वालखिल्येति विख्याताः पतङ्गसहचारिणः
अष्टाशीतिसहस्रामि ऋषीणामूर्ध्वरेतसाम् ।
ते स्म पृच्छन्ति वायु च वायुपर्णांबु भोजनाः
नीलकण्ठेति यत्प्रोक्तं त्वया पवनसत्तम ।
एतद्गुह्यं पवित्राणां पुष्णं पुण्यविदां वरः
तद्वयं श्रोतुमिच्छाम स्तन्नो निगद सत्तम ।
तत्सर्व श्रोतुमिच्छामस्त्वत्प्रसादात्प्रभञ्जन
नीलता येन कण्ठस्य कारणेनांविकापतेः ।
श्रोतुमिच्छामहे देव तव वक्त्राद्विशेषतः
यावद्वाचः प्रवर्त्तन्ते सर्वास्ताः प्रेरितस्त्वया ।
वर्णस्थानगते वायो वाग्विधिः संप्रवर्त्तते
ज्ञान पूर्वमथोत्साहस्त्वत्तो वायो प्रवर्त्तते ।
त्वयि निष्पूयमाने तु शेषा वर्णप्रवृत्तयः
यत्र वाचो निवर्त्तन्ते देहवर्णाश्च दुर्लभाः ।
त्वत्तो हि वर्णसद्भावः सर्वगस्त्वं सदानिल
नान्यः सर्वगतो देवस्त्वदृते ऽस्ति समीरण ।
एष वै जीवलोकस्ते प्रत्यक्षः सर्वतो ऽनिल
वेत्थ वाचस्पतिं देवं मनोनायकमीश्वरम् ।
ब्रूहि तत्कण्ठदेशे तु किं कृत्वा रूपविक्रिया
वचः श्रुत्वा ततस्तेषां मुनीनां भावितात्मनाम ।
प्रत्युवाच महातेजा वायुर्ल्लोकनमस्कृतः
पुरा कृतयुगे विप्रो वेदनिर्णयतत्परः ।
वसिष्ठो नाम धर्मात्मा मानसो वै प्रजापतिः
पप्रच्छ कार्त्तिकेयं वै मयूरवरवाहनम् ।
महिषासुरनारीणां नयनाञ्जनतस्करम्
महासेनं महात्मनं मेघस्तनितनिस्वनम् ।
उमामनः प्रहर्षाणां बारकच्छद्मरूपिणम्
क्रैञ्चजीवितहर्तारं गौरीहृदयनन्दनम् ।
यदेतद्दृश्यते वर्य शुभ्रं शुभ्राञ्जनोपमम्
तत्किमर्थं समुत्पन्नं कण्ठे कण्ठेकुन्देन्दुसप्रभे ।
एतद्दीप्तांय दान्ताय भक्ताय ब्रूहि पृच्छते
कथां मङ्गलसंयुक्तां पवित्रां पापनाशिनीम् ।
मत्प्रियार्थंमहाभाग वक्तुमर्हस्यशेषतः
श्रुत्वा वाक्यं ततस्तस्य वसिष्ठस्य महात्मनः ।
प्रत्युवाच महातेजा देवारिबलसूदनः
शृणुष्व वदतां श्रेष्टकथ्यमानं वचो मम ।
उमोत्संगोपविष्टेन यथापूर्वं मया श्रुतम्
पार्वत्या सह संवादः शर्वस्य च महात्मनः ।
तमहं संप्रवक्ष्यामि त्वत्प्रियार्थं महामुने
कैलासशिखरे रम्ये नानाधातुविचित्रिते ।
तरुणादित्यसंकाशे तप्तचामीकरप्रभे
वज्रस्फटिकसोपाने चित्रपादशिलातले ।
जांबूनदमये दिव्ये नानाधातु विचित्रिते
नानाद्रुमलताकीर्णे नानापुष्पफलोपगे ।
हंसकारण्डवाकीर्णे चक्रवाकोपशोभिते
षट्पदोद्गीतबहुले धारासंपातनादिते ।
मत्तक्रैञ्चमयूराणां नादैर्विक्रुष्टकन्दरे
अप्सरोगणसंकीर्णे किन्नरैरुपशोभिते ।
जीवं जीवकजातीनां विरावैरुपकूजिते
कोकिलारावबहुले सिद्धचारणसेविते ।
सौरभेयनिनादाढ्यं मेघस्तनितनिस्वने
विनायकभयोद्विग्नकुं जरैर्मुक्तकन्दरैः ।
वीणावादित्रनिर्घेषैः श्रोत्रेन्द्रियमनोरमैः
दोलालंबितसंघाते वनितासंघसेविते ।
ध्वजालंबितदोलानां घण्टानां निनदाकुले
वल्लकीवेणुबहुले त्रिंशद्बर्हिणसंकुले ।
मुखमर्द्दलवादित्रैर्वलितास्फोटितैस्तथा
क्रीडावेगविवादानां निर्घोषैः पूर्णकन्दरे ।
हंसैः परावतैश्चैव बकराजैः सुखस्थिते
देहबन्धैर्विचित्रैश्चप्रक्रीडितगणेश्वरे ।
सिंहव्याघ्रमुखैर्घोरवाशितैश्चण्डवेगितैः
मृगमषमुखैश्चान्यैर्गजवाजिमुखैस्तथा ।
बिडालवदनैश्चोग्रैः क्रोष्टुकाकारसूर्त्तिभिः
ह्रस्वैर्दीर्घैश्च सुकृशैर्लंबोदरमहीदरैः ।
ह्रस्वजङ्घैः प्रलेबोष्ठैस्तालजङ्घैस्तथापरैः
गोकर्णैरेककर्णैश्च महाकर्णैरकर्णकैः ।
बहुपादैर्महापादैरेकपादैरपादकैः
बहुनेत्रैर्महानेत्रैरेकनेत्रैरनेत्रकैः ।
एकदंष्ट्रैर्महादंष्ट्रैर्बहुदंष्ट्रैरदंष्ट्रकैः
एकशीर्षैर्महाशीर्षबहुशीर्षैरशीर्षकैः ।
एकजिह्वैर्महाजिह्वैर्बहुजिह्वैरजिह्वकैः ।
एवंरूपैर्महायोगैभूतर्भूतपतिर्वृतः
विशुद्धमुक्तामणिरत्नभूषिते शिलातले स्वर्णमये सुरम्यके ।
सुखोपविष्टं मदनागनाशनं प्रोवाच वाक्यं गिरिराजपुत्री
भगवन्भूतभव्येश गोवृषाङ्कितशासन ।
तव कण्ठे महादेव भ्राजतेंबुदसन्निभम्
नात्युल्बणं शुभंशुभ्रे नीलाबुजचयोपमम् ।
किमिदं दीप्यते देव कण्ठे कामाङ्गनाशन
को हेतुः कारणं किं वा कण्ठे नीलस्त्त्वमीश्वर ।
एतत्सर्वं यथान्यायं बूहि कौतूहलं हि मे
श्रुत्वा वाक्यं ततस्तस्याः पार्वत्याः पावतीप्रियः ।
कथां मङ्गलसंयुक्तां कथयामास शङ्करः
महेश्वर उवाच
मथ्यमाने ऽमृते पूर्वं क्षीरोदे सुरदानवैः ।
अग्रे समुत्थितं घोरं विषङ्कालानलप्रभम्
तं दृष्ट्वा सुरसंघस्च दैत्याश्चैव वरानने ।
विषण्णवदनाः सर्वे गतास्ते ब्रह्मणो ऽन्तकम्
दृष्ट्वा सुरगणान्भीतान्ब्रह्मोवाच महाद्युतिः ।
किमर्थं वै महाभागा भीता उद्विग्नचेतनाः
मया त्रिगुणमैश्वर्यं भवतां संप्रकल्पितम् ।
तेन व्यावर्त्तितैश्वर्या यूयं भो सुरसत्तमाः
त्रलोक्यस्येश्वरा यूयं सर्वे वै विगतज्वराः ।
प्रजासर्गे न सो ऽस्तीह यश्चाज्ञां मे ऽतिवर्तयेत्
विमानचारिण सर्वे सर्वे स्वच्छन्दगामिनः ।
आध्यात्मिके चाधिभूते अधिदैवे च नित्यशः
प्रजाः कर्मविपाकेन शक्ता यूयं प्रवर्त्तितुम् ।
तत्किमर्थं भयोद्विग्ना मृगाः सिंहार्दिता इव
किं दुःशं को ऽनुसंतापः कुतो वा भयमागतम् ।
एतत्सर्वं यथान्यायं शीघ्रमाख्या तुमर्हथ
श्रुत्वा वाक्यं ततस्तस्य ब्रह्मणः परमात्मनः ।
ऊचुस्ते ऋषिभिः सार्द्धं सुरदैत्येन्द्रदानवाः
सुरासुरैर्मथ्यमाने पजोराशौ पितमाह ।
भुजङ्गभृङ्गसंकाशं नीलजीमूतसन्निभम्
प्रादुर्भूतं विषं घोरं संवर्ताग्निसमप्रभम् ।
कालमृत्युरिवोद्भूतं युगान्तादित्यवर्चसम्
त्रैलोक्योत्सादसूर्याभं विस्फुरत्तत् समन्ततः ।
विषेणोत्तिष्ठमानेन कालानलसमत्विषा
निर्दग्धो रक्तगौराङ्गो कृतः कृष्णो जनार्द्दनः ।
तं दृष्ट्वा रक्तगौराङ्गं कृतं कृष्णं जनार्द्दनम्
ततः सर्वे वयं भीतास्त्वा मेव शरणं गताः ।
सुराणामसुराणां च श्रुत्वा वाक्यं भयावहम्
प्रत्युवाच महातेजा ब्रह्मा लोकपितामहः ।
शृण्वन्तु देवताः सर्वे ऋषयश्च तपोधनाः
यत्तदग्रे समुत्पन्नं मथ्यमाने महोदधौ ।
विषं कालानलप्रख्यं कालकूटमिति श्रुतम्
येन प्रोद्भूतमात्रेण न व्यराजन्त देवताः ।
तस्य विष्णुरहं वापि सर्वे वा सुरपुङ्गवाः
न शक्नुवन्ति वै सोढुं वेगमन्यत्र शङ्करात् ।
इत्युक्त्वा पद्मगर्भाभः पद्मायोनिरयोनिजः
ओङ्कारं समनुस्मृत्य ध्यायञ्जयोतिः समन्ततः ।
ततः स्तोतुं समारब्धो ब्रह्मा वेद विदां वरः
नमस्तुभ्यं विरूपाक्ष नमस्ते दिव्यचक्षुषे ।
नमः पिनाकहस्ताय वज्रहस्ताय वै नमः
नमस्त्रैलोक्य नाथाय भूतानां पतये नमः ।
नमः सुरारिहन्त्रे च सोमसूर्याग्निचक्षुषे
ब्रह्मणे चैव रुद्राय विष्णवे चैव ते नमः ।
सांख्याय चैव योगाय भूतग्रामाय वै नमः
मन्मथाङ्गविनाशाय कालपृष्ठाय वै नमः ।
सुरेतसे ऽथ रुद्राय देवदेवाय रंहसे
कपर्दिने करालाय शङ्कराय हराय च ।
कपालिने विरूपाय शिवाय वरदाय च
त्रिपुरघ्नमखघ्नाय मातॄणां पतये नमः ।
वृद्धाय चैव शुद्धाय मुक्तायैव बलाय च
लोकत्रयैकवीराय चन्द्राय वरुणाय च ।
अग्राय चैव चोग्राय विप्रायानेकचक्षुषे
रजसे चैव सत्त्वाय नमस्ते ऽव्यक्तयोनये ।
नित्याय चैवानित्याय नित्यानित्याय वै नमः
व्यक्ताय चैवाव्यक्ताय व्यक्ताव्यक्ताय वै नमः ।
चिन्त्याय चैवाचिन्त्याय चिन्त्याचिन्त्याय वै नमः
जगतामार्त्तिनाशाय प्रियनारायणाय च ।
उमाप्रियाय शर्वाय नन्दिवक्त्राङ्किताय च
पक्षमासाह्द्धमासाय ऋतुसंवत्सराय च ।
बहुरूपाय मुण्डाय दण्डिने च वरूथिने
नमः कपालहस्ताय दिग्वासाय शिखण्डिने ।
धन्विने रथिने चैव यमिने ब्रह्मचारिणे
ऋग्यजुः सामवेदाय पुरुषायेश्वराय च ।
इत्येव मादिचरितैः स्तोत्रैः स्तुत्य नमीऽस्तु ते ।
एवं स्तुत्वा ततो ब्रह्मा प्रणिपत्य वरानने
ज्ञात्वा तु भक्तिं मम देवतानां गङ्गाजला स्फालितमुक्तकेशः ।
सूक्ष्मो ऽसि योगातिशयादचिन्त्यो न हि प्रभो व्यक्तिमुफैषि रुद्रः
एवं भगवता पूर्वं ब्रह्मणा लोककर्तृणा ।
स्तुतो ऽहं विविधैः स्तोत्रैर्वेदवेदाङ्गसंभवैः
ततो ऽहं मुख्यया वाचा पितामहमथाब्रवम् ।
भूतभव्यभवन्नाथ लोकनाथ जगत्पते
किं कार्यं ते मया ब्रह्मन्कर्त्तव्यं वद सुव्रत ।
श्रुत्वा वाक्यं ततो ब्रह्मा प्रत्युवाचांबुजेक्षणः
भूतभव्यभवन्नाथ श्रूयतां कारणेश्वर ।
सुरासुरैर्मथ्यमाने पयोधौ पङ्कजेक्षण
भगवन्मेघसंकाशं नीलजीमूतसन्निभम् ।
प्रादुर्भूतं विषं घोरं संवर्त्ताग्निसमप्रभम्
तं दृष्ट्वा च वयं सर्वे भीताः संभ्रान्तचेतसः ।
तत्पिबस्व महादेव लोकानां हितकाम्यया
भवाञ्छक्तश्च भोक्ता वै भवान्देववरः प्रभो ।
त्वदृते ऽन्यो महादेव वेगं सोढुं न विद्यते
एवं तस्य वचः श्रुत्वा ब्रह्मणः परमेष्ठिनः ।
बाढ मित्येव तद्वाक्यं प्रतिगृह्य वरानने
ततो ऽहं पातुमारब्धो विषमन्तकसन्निभम् ।
पिबतो मे महाघोरं विषं सुरभयप्रदम्
कण्ठः समभवत्तूर्णं कृष्णो वै वरवर्णिनि ।
तं दृष्ट्वोत्पलपत्राभं कण्ठसक्तमिवोरगम्
तक्षकं नागराजानं लेलिहानमिवोत्थितम् ।
अथोवाच महातेजा ब्रह्मा लोकपितामहः
शोभसे त्वं महादेव कण्ठेनानेन सुव्रत ।
ततस्तस्य वचःश्रुत्वा मया गिरिवरात्मजे
कण्ठे धृतं विषं घोरं नीलकण्ठस्ततो ऽस्म्यहम् ।
पश्यतां सुरसंघानां दैत्यानां च वरानने ।
यक्षगन्धर्वभूतानां पिशाचोरगरक्षसाम्
तत्कालकूटं विषमुग्रवेगं कण्ठे धृतं पर्वतराजपुत्रि ।
निवेश्यमानं सुरदैत्यसंघो दृष्ट्वा परं विस्मयमाजगाम
ततः मुरगणाः सर्वे सदैत्योरगराक्षसाः ।
ऊचुः प्राञ्जलयो भूत्वा मत्तमातङ्गगामिनि
अहोबलं वीर्यपराक्रमस्ते त्वहो वपुर्योगबलं तवेश
अहो प्रभुत्वं तव देवदेव महाद्भुतं मन्मथदेहनाशन ।
त्वमेव विष्णुश्चतुराननस्त्वं त्वमेव मृत्युर्वरदस्त्वमेव
त्वमेव सूर्यो रजनीकरश्च व्यक्तिस्त्वमेवास्य चराचरस्य ।
त्वमेव वह्निः पवनस्त्वमेव त्वमेव भूमिः सलिलं त्वमेव
त्वमेव सर्वस्य चराचरस्य धाता विधाता प्रलयस्त्वमेव ।
इत्येव मुक्त्वा वचनं सुरेद्राः प्रगृह्य सोमं प्रणिपत्य मूर्ध्रा ।
गता विमानैरनिलोपवेगैर्महानगं मेरुमुपेत्य सर्वे
इत्येतत्परमं गुह्यं पुण्यात्पुण्यतमं महत्
नीलकण्ठ इति प्रोक्तं त्रिषु लोकेषु विश्रुतम् ।
स्वयंभुवा स्वयं प्रोक्ता कथा पापप्रणाशिनी
यस्तु धारयते नित्यं ब्रह्मोद्गीतामिमां शुभाम् ।
तस्याहं संप्रवक्ष्यामि फलं सुविपुलं महत्
विषं तस्य वरारोहे स्थावरं जङ्गमं तथा ।
गात्रं प्राप्य तु सुश्रोणि क्षप्रं तत्प्रतिहन्यते
शमायत्यशुभं घोरं दुःखप्नं चापकर्षति ।
स्त्रीषु वल्लभतां याति सभायां पार्थिवस्य च
विवादे जयमाप्नोति युद्धे विजयमेव च ।
गच्छति क्षेममध्वानं गृहेभ्यो नित्यसंपदा
शरीरस्येह वक्ष्यामि गतिं तस्य वरानने ।
हरिश्मश्रुर्नीलकण्ठः शशाङ्काङ्कितमूर्द्धजः
त्र्यक्षस्त्रिशूलपाणिश्च वृष चानः पिनाकधृक् ।
नन्दितुल्यबलः श्रीमान्नन्दितुल्यपराक्रमः
विचरत्यखिलांल्लोकाम्सप्तलोकान्ममाज्ञया ।
न हन्यते गति स्तस्य अनिलस्य यथांबरे
मम तुल्यबलो भूत्वा तिष्ठत्याभूतसंप्लवात् ।
मम भक्तया वरारोहे ये च शृम्वन्ति मानवाः
तेषां गतिं प्रवक्ष्यामि त्विह लोके परत्र च ।
ब्राह्मणो वेदमाप्नोति क्षत्रियो विन्दते महीम्
वैश्यस्तु लभते लाभं शूद्रः सुखमवाप्नुयात् ।
व्याधितो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्
गुर्विणी लभते पुत्रं कन्या विदति सत्पतिम् ।
नष्टं च लभते द्रव्यमिह लोके परत्र च
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् ।
तत्फलं लभते मर्त्यः श्रुत्वा दिव्या मिमां कथाम्
पादं वाथार्द्धपादं वार् श्लोकर्ं श्लोकार्द्धमेव वा ।
यस्तु धारयते नित्यं रुद्रलोकं स गच्छति
अथवा सर्वमेवेदं देवब्राह्मणसन्निधौ ।
यः पठेन्मानवो नित्यं मद्गतेनान्तरात्मना
श्रद्धधानः सदा भक्तो रूद्रलोकं स गच्छति ।
पठेच्च देवि भक्त्या च पाठयेच्च नरः सदा
अतः परतरं स्तोत्रं न भूतं न भविष्यति ।
नापि यक्षाः पिशाचा वा न भूता न विनायकाः ।
कुर्युर्विघ्नं गृहे तस्य यत्रायं तिष्ठति स्तवः
मया नु तुष्टेन तवांबुजेक्षणे स्तवस्य माहात्म्यम घौघनाशनम् ।
निवेदितं पुण्यफलादियुक्तं स्वयं च कीतं चतुराननेन
कथामिमां पुण्यफलादियुक्तां निवेद्य देव्यै शशिबद्धमूर्द्धजः ।
वृषस्य पृष्ठेन सहोमया प्रभुजगाम कैलासगुहां गुहप्रियः
श्रुतं मया पापहरं तदन्तिके निवेदितं ते ऽथ मया प्रजापतेः ।
अधीत्य सर्वं त्वखिलं सलक्षणं प्रयाति चादित्यपदं द्विजोत्तमः
मूल पाठ: Brahmāṇḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0