ब्रह्माण्ड पुराण · अध्याय 1.24
इति श्रीब्रह्माण्डे महादृवायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपादे ध्रुवचर्याकीर्त्तनं नाम त्रयोविंशतितमो ऽध्यायः
सूत उवाच
एतच्छ्रुत्वा तु सुनयः पुनस्ते संशयान्विताः ।
पप्रच्छुरुत्तरं भूयस्तदा ते रोमहर्षणम्
यदेतदुक्तं भवतागृहाणीत्येव विस्तृतम् ।
कथं देवगृहाणि स्युः कथं ज्योतींषिवर्णय
एतत्सर्वं समाचक्ष्व ज्योतिषां चैव निर्णयम् ।
वायुरुवाच
श्रुत्वा तु वचनं तेषां तदा सूतः समाहितः
उवाच परमं वाक्यं तेषां संशयनिर्णयम् ।
अस्मिन्नर्थे माहाप्राज्ञैर्यदुक्तं ज्ञानबुद्धिभिः
एतद्वो ऽहं प्रवक्ष्यामि सूर्याचन्द्रमसोर्भवम् ।
यथा देवगृहाणीह सूर्यचन्द्रग्रहाः स्मृताः
ततः परं च त्रिविधस्याग्नेर्वक्ष्ये समुद्भवम् ।
दिव्यस्य भौतिकस्याग्नेरब्योनेः पार्थि वस्य तु
व्युष्टायां तु रजन्यां वै ब्रह्मणो ऽव्यक्तजन्मनः ।
अव्याकृतमिदं त्वासीन्नैशेन तमसावृतम्
सर्वभूतावशिष्टे ऽस्मिंल्लोके नष्टविशेषणे ।
स्वयंभूर्भगवांस्तत्र लोकतन्त्रार्थसाधकः
खद्योतवत्स व्यचरदाविर्भावचिकीर्षया ।
सो ऽग्निं दृष्ट्वाथ लोकादौ पृथिवीजलसंश्रितम्
संवृत्य तं प्रकाशार्थं त्रिधा व्यमजदीश्वरः ।
पवनो यस्तु लोके ऽस्मिन्पार्थिवः सो ऽग्निरुच्यते
यश्चासौ तपते सूर्ये शुचिरग्निस्तु स स्मृतः ।
वैद्युतो ऽब्जस्तु विज्ञेयस्तेषां वक्ष्ये ऽथ लक्षमम्
वैद्युतो जाठरः सौरो ह्यपां गर्भास्त्रयो ऽग्रयः ।
तस्मादपः पिबन्सूर्यो गोभिर्दीप्यत्यसौ दिवि
वैद्युतेन समाविष्टो वार्ष्यो नाद्भिः प्रशाम्यति ।
मानवा नां च कुक्षिस्थो नाद्भिः शास्यति पावकः
तस्मात्सौरो वैद्युतश्च जाठरश्चप्यनिन्धनः ।
किञ्चिदप्सु मतं तेजः किञ्चिद्दृष्टमबिं धनम्
काष्ठेन्धनस्तु निर्मथ्यः सो ऽद्भिः शाम्यति पावकः ।
अर्चिष्मान्पवमानो ऽग्निर्निष्प्रभो जाठरः स्मृतः
यश्चायं मण्डले शुक्लो निरूष्मा संप्रकाशकः ।
प्रभा सौरी तु पादेन ह्यस्तं याति देवाकरे
अग्निमाविशते रात्रौ तस्माद्दूरात्प्रकाशते ।
उद्यन्तं च पुनः सूर्यमौष्णमयमाग्नेयमाविशत्
पादेन पार्थिवस्याग्नेस्तस्मादग्निस्तपत्यसौ ।
प्राकाश्यं च तथौष्ण्यं च सौराग्नेये तु तेजसी
परस्परानुप्रवेशादाप्यायेते परस्परम् ।
उत्तरे चैव भूम्यर्द्धे तथा ह्यग्निश्च दक्षिणे
उत्तिष्ठति पुनः सूर्ये रात्रिराविशते ह्यपः ।
तस्मात्तप्ता भवन्त्यापो दिवारत्रिप्रवेशनात्
अस्तं याति पुन सूर्ये अहर्वै प्रविशत्यपः ।
तस्मान्नक्तं पुनः शुक्ला आपो ऽदृश्यन्त भास्वराः
एतेन क्रमयोगेन भूम्यर्द्धे दक्षिणोत्तरे ।
उदयास्तमने नित्यमहोरात्रं विशत्यपः
यश्चासौ तपते सूर्यः पिबन्नंभो गभस्तिभिः ।
पार्थिवाग्निविमिश्रो ऽसौ दिव्यः शुचिरिति स्मृतः
सहस्रपादसौ वह्निर्घृतकुंभनिभः शुचिः ।
आदत्ते स तु नाडीनां सहस्रेण समन्ततः
नादेयीश्चैव सामुद्रीः कौप्याश्चैव समन्ततः ।
स्थावरा जङ्गमाश्चैव याश्च कुल्यादिका अपः
तस्य रश्मिसहस्रं तु शीतवर्षोष्णनिःस्तवम् ।
तासां चतुःशता नाड्यो वर्षन्ते चित्र मूर्त्तयः
चन्दनाश्चैव साध्यश्च कूतनाकूतनास्तथा ।
अमृता नामतः सर्वा रश्मयो वृष्टिसर्जनाः
हिमोद्गताश्च ताभ्यो ऽन्या रश्मयस्त्रिशताः पुनः ।
दृश्या मेघाश्च याम्यश्च ह्रदिन्यो हिमसर्जनाः
चन्द्रास्ता नामतः प्रोक्ता मिताभास्तु गभस्तयः ।
शुक्लाश्च कुहकाश्चैव गावो विश्वभृतस्तथा
शुक्लास्ता नामतः सर्वस्त्रिशता धर्मसर्जनाः ।
समं विभज्य नाडीस्तु मनुष्टपितृदेवताः
मनुष्यानौषधेनेह स्वधया तु पितॄनपि ।
अमृतेन सुरान्सर्वांस्त्रींस्त्रिभिस्तर्पयत्यसौ
वसंते चैव ग्रीष्मे च शतैः स तपति त्रिभिः ।
वर्षास्वथो शरदि वै चतुर्भिश्च प्रवर्षति
हेमन्ते शिशिरे चैव हिम मुत्सृजते त्रिभिः ।
इन्द्रो धाता भगः पूषा मित्रो ऽथ वरुणोर्ऽयमा
अंशुर्विवस्वास्त्वष्टा च सविता विष्णुरेव च ।
माघमासे तु वरुणः पूषा चैव तु फलाल्गुने
चैत्रे मासि तु देतोंशुर्धाता वैशाखतापनः ।
ज्येष्ठमासे भवेदिन्द्रश्चाषाढे सविता रविः
विवस्वाञ्छ्रावणे मासि प्रोष्ठे मासे भागः स्मृतः ।
पर्जन्यो ऽश्वयुजे मासि त्वष्टा च कार्तिके रविः
मार्गशीर्षे भवेन्मित्रः पौषेविष्णुः सनातनः ।
पञ्चरश्मिसहस्राणि वरुणस्यार्ककर्मणि
षड्भिः सहस्रैः पूषा तु देवो ऽशुसप्तभिस्तथा ।
धाताष्टभिः सहस्रैस्तु नवभिस्तु शतक्रतुः
सविता दशभिर्याति यात्येकादशभिर्भगः ।
सप्तभिस्तपते सित्रस्त्वष्टा चैवाष्टभिस्तपेत्
अर्यमा दशाभिर्याति पर्जन्यो नवभिस्तपेत् ।
षड्भी रश्मिसहस्रैस्तु विषणुस्तपति मेदिनीम्
वसंते कपिलः सूर्यो ग्रीष्मेर्ऽकः कनकप्रभः ।
श्वेतवर्णस्तु वर्षासु पाण्डुः शरदि भास्करः
हेमन्ते ताम्रवर्णस्तु शैशिरे लोहितो रविः ।
इति वर्णाः समा ख्याताः सूर्यस्यर्तुसमुद्भवाः
औषधीषु बलं धत्ते स्वधया च पिदृष्वपि ।
सूर्यो ऽमरेष्वप्यमृतं त्रयं त्रिषु न यच्छति
एवं रश्मिसहस्रं तु सौरं लोकार्थसाधकम् ।
भिद्यते ऋतुमासाद्य जलशीतोष्णनिस्रवम्
इत्येतन्मण्डलं शुक्लं भास्वरं सूर्य संज्ञितम् ।
नक्षत्रग्रहसोमानां प्रतिष्ठा योनिरेव च
चन्द्रऋक्षग्रहाः सर्वे विज्ञेयाः सूर्यसंभवाः ।
नक्षत्राधिपतिः सोमो ग्रह राजो दिवाकरः
शेषाः पञ्च ग्रहा ज्ञेया ईश्वराः कामचारिणः ।
पठ्यते चाग्निरादित्य उदकं चन्द्रमाः स्मृतः
शेषाणा प्रकृतीः स्मयग्वर्ण्यमाना निबोधत ।
सुरसेनापतिः स्कन्दः पठ्यते ऽङ्गारको ग्रहः
नारायणं बुधं प्राहुर्वेदज्ञानविदो बुधाः ।
रुद्रो वैवस्वतः साक्षाद्यमो लोकप्रभुः स्वयम्
महाग्रहो द्विजश्रेष्ठो मन्दगामी शनैश्वरः ।
देवासुरगुरू द्वौ तु भानुमन्तौ महा ग्रहौ
प्रजापतिसुतावेतावुभौ शुक्रबृहस्पती ।
आदित्यमूलमखिलं त्रैलोक्यं नात्र संशयः
भवत्यस्माज्जगत्कृत्स्नं सदेवासुरमानुषम् ।
रुद्रोपेन्द्रेन्द्रचन्द्राणां विप्रेन्द्रास्त्रिदिवौकसाम्
द्युतिर्द्युतिमतां कृत्स्नं यत्तेजः सार्वलौकिकम् ।
सर्वात्मा सर्वलोकेशो महादेवः प्रजापतिः
सूर्य एव त्रिलोकस्य सूलं परमदैवतम् ।
ततः संजायते सर्वं तत्र चैव प्रलीयते
भावाभावौ हि लोकानामादित्यान्निःमृतौ पुरा ।
जगज्ज्ञेयो ग्रहो विप्रा दीप्तिमान्सुप्रभो रविः
अत्र गच्छन्ति निधनं जायन्ते च पुनः पुनः ।
क्षणा मुहूर्त्ता दिवसा निशाः पक्षाश्च कृत्स्नशः
मासाः संवत्सराश्चैव ऋतवो ऽथ युगानि च ।
तदादित्यादृते ह्येषा कालंसख्या न विद्यते
कालादृते न निगमो न दीक्षा नाह्निकक्रमः ।
ऋतूनामविभागाच्च पुष्पमूलफलं कुतः
कुतः सस्यविनिष्पत्तिस्तृणौषधिगणो ऽपि वा ।
अभावो व्यवहाराणां जन्तूनां दिवि चैह च
जगत्प्रतापनमृते भास्करं वारितस्करम् ।
स एष कालश्चाग्निश्च द्वादशात्मा प्रजापतिः
तपत्येष द्विजश्रेष्ठास्त्रैलोक्यं सचराचरम् ।
स एष तेचसां राशिस्तमो घ्रन्सार्वलौकिकम्
उत्तमं मार्गमास्थाय वायोर्भाभिरिदं जगत् ।
पार्श्वमूर्ध्वमधश्चैव तापयत्येष सर्वशः
यथा प्रभाकरो दीपोगृहमध्ये ऽवलंबितः ।
पार्श्वमूर्ध्वमधश्चैव तमो नाशयते समम्
तद्वत्सहस्रकिरणो ग्रहराजो जगत्पतिः ।
सूर्यो गोभिर्जगत्सर्वमादीपयति सर्वतः
रवे रश्मिसहस्रं यत्प्राङ्मया समुदात्दृतम् ।
तेषां श्रेष्ठाः पुनः सप्त रश्मयो ग्रहयो नयः
सुषुम्णो हरिकेशश्च विश्वकर्मा तथैव च ।
विश्वश्रवाः पुनश्चान्यः संपद्वसुरतः परः
अर्वावसुः पुनश्चान्यः स्वराडन्यः प्रकीर्त्तितः ।
सुषुम्णः सूर्यरश्मिस्तु क्षीण शशिनमेधयेत्
तिर्यगूर्ध्वप्रचारो ऽसौ सुषुम्णः परिकीर्त्तितः ।
हरि केशः पुरस्ताद्य ऋक्षयोनिः स कीत्यते
दक्षिणे विश्वकर्मा तु रश्मिन्वर्द्धयते वुधम् ।
विश्वश्रवास्तु यः पश्चच्छुक्रयोनिः स्मृतो बुधैः
संपद्वसुस्तु यो रश्मिः स योनिर्लोहितस्य तु ।
षष्ठस्त्वर्व्वावसू रश्मिर्योनिस्तु स बृहस्पतेः
शनैश्चरंपुन श्चापि रश्मिराप्यायते स्वराट् ।
एवं सूर्यप्रभावेण ग्रहनक्षत्रतारकाः
वर्त्न्ते दिवि ताः सर्वा विश्वं चैदं पुनर्जगत् ।
नक्षीयन्ते यतस्तानि तस्मान्नक्षत्रसंज्ञिताः
क्षेत्राण्येतानि वै पूर्वमापतन्ति गभस्तिभिः ।
तेषां क्षेत्राण्यथादत्ते सूर्यो नक्षत्रकारकाः
तीर्णानां सुकृतेनेह सुकृतान्ते ग्रहाश्रयात् ।
तारणात्तारका ह्येताः शुक्लत्वाच्चैव तारकाः
दिव्यानां पार्थिवानां च नैशानां चैव सर्वशः ।
आदानान्नित्यमादित्यस्तेजसा तपसामपि
स्वनं स्यन्दनार्थे चु धातुरेषु विभाव्यते ।
स्वनात्तेजसो ऽपां च तेनासौ सविता मतः
बह्वर्थश्चदिरित्येष ह्लादने धातुरुच्यते ।
शुक्लत्वे चामृतत्वे च शीतत्वे च विभाव्यते
सूर्याचन्द्रमसो र्दिव्ये मण्डले भास्वरे खगे ।
जलतेचौमये शुक्ले वृत्तकुंभनिभे शुभे
घनतोयात्मकं तत्र मण्डलं शशिनः स्मृतम् ।
घनतेजोमयं शुक्लं मण्डलं भास्करस्य तु
विशन्ति सर्वदेवास्तु स्थानान्येतानि सर्वशः ।
मन्वन्तरेषु सर्वेषु ऋक्षसूर्यग्रहाश्रयाः
तानि देवगृहाण्येव तदाख्यास्ते भवन्ति च ।
सौरं सूर्यो विशेत्स्थानं सौम्यं सोमस्तथैव च
शौक्रं शुक्रो विशेत्स्थानं षोड शार्चिः प्रभास्वरम् ।
जैवं बृहस्पतिश्चैव लौहितं चैव लोहितः
शनैश्चरो र्विशेत्स्थानं देवः शानैस्चरं तथा ।
बौधं बुधो ऽथ स्वर्भानुः स्वर्भानुस्थानमास्थितः
नक्षत्राणि च सर्वाणि नक्षत्राणि विशन्त्युत ।
गृहाण्येतानि सर्वाणि ज्योतींषि सुकृतात्म नाम्
कल्पादौ संप्रवृत्तानि निर्मितानि स्वयंभुवा ।
स्थानान्येतानि तिष्ठन्ति यावदात्रूतसंप्लवम्
मन्वन्तरेषु सर्वेषु देवस्थानानि तानि वै ।
अभिमानिनो ऽवतिष्ठन्ते देवस्थानानि वै पुनः
अतीतैस्तु सहातीता भाव्या भाव्यैः सुरैः सह ।
वर्त्तन्ते वर्त्तमानैश्च स्थानिभिस्तैः सुरैः सह ।
अस्मिन्मन्वन्तरे चैव ग्रहा वैतानिकाः स्मृताः
विवस्वानदितेः पुत्रः सूर्यो वैवस्वते ऽन्तरे ।
त्विषिनामा धर्मसुतः सोमो देवो वसुः स्मृतः
शुक्रो देवस्तु विज्ञेयो भार्गवो ऽसुरयाजकः ।
बृहत्तेजाः स्मृतो देवो देवाचार्यो ऽगि रस्सुतः
बुधो मनोहरश्चैव त्विषिपुत्रस्तु स स्मृतः ।
शनैश्चरो विरूपस्तु संज्ञापुत्रो विवस्वतः
अग्नेर्विकेश्यां जज्ञे तु युवासौ लोहिताधिपः ।
नक्षत्राण्यृक्षनामानो दाक्षायण्यस्तु ताः स्मृताः
स्वर्भानुः सिंहिकापुत्रो भूतसंतापनो ऽसुरः ।
सोमर्क्षग्रहसूर्येषु कीर्त्तिता ह्यभिमानिनः
स्थानान्येतानि चोक्तानि स्थानिनश्चाथ देवताः ।
शुक्लमग्निमयं स्थानं सहस्रांशोर्विवस्वतः
सहस्रांशोस्त्विषेः स्थानमम्मयं शुक्लमेव च ।
आप्यं श्यामं मनोज्ञस्य पञ्चरश्मेर्गृहं स्मृतम्
शुक्रस्याप्यम्मयं शुक्लं पद्मं षौडःशरश्मिषु ।
नवरश्मेस्तु भौमस्य लौहितं स्थानमम्मयम्
हरिदाप्यं बृहत्स्थानं द्वादशांशैर्बृहस्पतेः ।
अषृ रश्मिगृहं प्रोक्तं कृष्णं मन्दस्य चाम्मयम्
स्वर्भानोस्तामसं स्थानं भूतसंतापनालयम् ।
विज्ञेयास्तारकाः सर्वा अम्मयास्त्त्वे करश्मयः
आश्रयाः पुण्यकीर्तीनां सुशुक्लाश्चापि वर्णतः ।
घनतोयात्मिका ज्ञेयाः कल्पादावेव निर्मिताः
आदित्यरश्मिसंयोगात्संप्रकाशात्मिकाः स्मृताः ।
नवयोजनसाहस्रो विष्कंभः सवितुः स्मृतः
त्रिगुणास्तस्य विस्तारो मण्डलस्य प्रमाणतः ।
द्विगुणः सूर्यविस्ताराद्विस्तारः शशिनः स्मृतः
तुल्यस्तयोस्तु स्वर्भानुर्भूत्वाधस्तात्प्रसर्पति ।
उद्धृत्य पृथिवीछायां निर्मितो मण्डलाकृतिः
स्वर्भानोस्तु बृहत्स्थानं तृतीयं यत्तमोमयम् ।
आदित्यात्तच्च निष्क्रम्य सोमं गच्छति पर्वसु
आदित्यमेति सोमाच्च पुनः सौरेषु पर्वसु ।
स्वर्भासा नुदते यस्मात्तस्मात्स्वर्भानुरुच्यते
चन्द्रस्य षोडशो भागो भार्गवस्तु विधीयते ।
विष्कंभान्मण्डलाच्चैव योजनाग्रात्प्रमाणतः
भार्गवात्पादहीनस्तु विज्ञेयो वै बृहस्पतिः ।
बृहस्पतेः पाद हीनौ भौमसौरावुभौ स्मृतौ
विस्तारान्मण्डलाच्चैव पादहीनस्तयोर्बुधः ।
तारानक्षत्ररूपाणि वपुष्मन्ति च यानि वै
बुधेन समरूपाणि विस्तारान्मण्डलाच्च वै ।
प्रायशश्चन्द्रयोगीनि विद्यादृक्षाणि तत्त्ववित्
तारानक्षत्ररूपाणि हीनानि तु परस्परात् ।
शतानि पञ्च चत्वारि त्रीणि द्वे चैव योजने
पूर्वापरनिकृष्टानि तारकामण्डलानि च ।
योजनाद्यर्द्धमात्राणि तेभ्यो ह्रस्वं न विद्यते
उपरिष्टात्त्रयस्तेषां ग्रहा ये दूरसर्पिणः ।
सौरोङ्गिराश्च वक्रश्च ज्ञेया मन्दविचारिणः
तेभ्यो ऽध स्तात्तु चत्वारः पुनरेव महाग्रहाः ।
सूर्यसोमौ बुधश्चैव भार्गवश्चैव शीघ्रगाः
तावत्यस्तारकाकोट्यो यावदृक्षाणि सर्वशः ।
विधिना नियमाच्चैषामृक्षचर्या व्यवस्थिता
गतिस्तासु च सूर्यस्य नीचौच्चे त्वयनक्रमात् ।
उत्तरायणमार्गस्थो यदा पर्वसु चन्द्रमाः
उच्चत्वाद्दृश्यते शीघ्रं नीतिव्यक्तैर्गभस्तिभिः ।
तदा दक्षिणमार्गस्यो नीयां विथीमुपाश्रितः
भूमि लेखावृतः सूर्यः पूर्णामावास्ययोः सदा ।
न दृश्यते यथाकालं शीघ्रमस्तमुपैति च
तस्मादुत्तरमार्गस्थो ह्यमावस्यां निशाकरः ।
दृश्यते दक्षिणे मार्गे नियमाद्दृश्यते न च
ज्योतिषां गतियोगेन सूर्याचन्द्रमसावृतः ।
समानकालास्तमयौ विषुवत्सु समोदयौ
उत्तरासु च वीथीषु व्यन्तरास्तमनोदयौ ।
पूर्णामवास्ययोर्ज्ञोयौ ज्योतिश्चक्रानुवर्तिनौ
दक्षिणायनमार्गस्थो यदा चरति रश्मिवान् ।
तदा सर्वग्रहाणां च सूर्यो ऽधस्तात्प्रसर्पति
विस्तीर्ण मण्डलं कृत्वा तस्योर्द्ध्व चरते शशी ।
नक्षत्रमण्डलं कृत्स्नं सोमादूर्द्ध्व प्रसर्पति
नक्षत्रेभ्यो बुधश्चोर्द्ध्र बुधादूर्द्ध्वं तु भार्गवः ।
वक्रस्तु भार्गवादूर्द्ध्व वक्रादूर्द्ध्वं बृहस्पतिः
तस्माच्छनैश्चरश्चोर्द्ध्वं तस्मात्सप्तर्षिमण्डलम् ।
ऋषीणां चापि सप्तानां ध्रुव ऊर्द्ध्वं व्यवस्थितः
द्विगुणेषु सहस्रेषु योजनानां शतेषु च ।
ताराग्रहान्तराणि स्युरुपरिष्टाद्यथाक्रमम्
ग्रहाश्च चन्द्रसूर्यौं च दिवि दिव्येन तेज सा ।
नित्यमृक्षेषु युज्यन्ते गच्छन्तो नियताः क्रमात्
ग्रहनक्षत्रसूर्यास्तु नीचोच्चमृजवस्तथा ।
समागमे च भेदे च पश्यन्ति युगपत्प्रजाः
परस्परस्थिता ह्येते युज्यन्ते च परस्परम् ।
असंकरेण विज्ञेयस्तेषां योगस्तु वै बुधैः
इत्येवं सन्निवेशो वै वृथिव्या ज्यौतिषस्य च ।
द्विपानामुदधीनां च पर्वतानां त्थैव च
वर्षाणां च नदीनां च ये च तेषु वसंति वै ।
एतेष्वेव ग्रहाः सर्वे नक्षत्रेषु समुत्थिताः
विवस्वानदितेः पुत्रः सूर्यो वै चाक्षुषेंऽतरे ।
विशाखासु समुत्पन्नो ग्रहाणां प्रथमो ग्रहः
त्विषिमान् धर्मपुत्रस्तु सोमो देवो वसोस्सुतः ।
शीतरश्मिः समुत्पन्नः कृत्तिकासु निशाकरः
षोडशार्चिर्भृगोः पुत्रः शुक्रः सूर्यादनन्तरम् ।
ताराग्रहाणां प्रवरस्तिष्यऋक्षे समुत्थितः
ग्रहश्चाङ्गिरसः पुत्रो द्वादशार्चिर्बृहस्पतिः ।
फाल्गुनीषु समुत्पन्नः पूर्वासु च जगद्गुरुः
नवार्चिर्लोहिताङ्गश्च प्रजापतिसुतो ग्रहः ।
आषाढास्विह पूर्वासु समुत्पन्न इति श्रुतिः
रेवतीष्वेव सप्तार्चिस्तथा सौरिः शनैश्चरः ।
सौम्यो बुधो धनिष्ठासु पञ्चार्चिरुदितो ग्रहः
तमोमयो मृत्युसुतः प्रजाक्षयकरः शिखी ।
आर्श्लेषासु समुत्पन्नः सर्वहारी महाग्रहः
तथा स्वनामधेयेषु दाक्षायण्यः समुछ्रिताः ।
तमोवीर्यमयो राहुः प्रकृत्या कृष्णमण्डलः
भरणीषु समुत्पन्नो ग्रहश्चन्द्रार्कमर्द्दनः ।
एते तारा ग्रहाश्चापि बोद्धव्या भार्गवादयः
जन्मनक्षत्रपीडासु यान्ति वैगुण्यतां यतः ।
स्पृश्यन्ते तेन दोषेण ततस्तद्ग्रहभक्तितः
सर्वग्रहाणामेतेषामादिरादित्य उच्यते ।
ताराग्रहाणां शुक्रस्तु केतूनामपि धूमवान्
ध्रुवः कीलो ग्रहाणां तु विभक्तानां चतुर्द्दिशम् ।
नक्षत्राणां श्रविष्ठा स्यादयनानां तथोत्तरम्
वर्षाणां चापि पञ्चानामाद्यः संवत्सरः स्मृतः ।
ऋतूनां शिशिरश्चापि मासानां माघ एव च
पक्षाणां शुक्लपक्षश्च तिथीनां प्रतिपत्तथा ।
अहोरात्रविभागानामहश्चापि प्रकीर्तितम्
मुहूर्त्तानां तथैवादिर्मुहूर्त्तो रुद्रदैवतः ।
क्षणश्चापि निमेषादिः कालः कालविदां वराः
श्रवणान्तं धनिष्ठादि युगं स्यात्पञ्चवार्षिकम् ।
भानोर्गतिविशेषेण चक्रवत्परिवर्त्तते
दिवाकरः स्मृतस्तस्मात्कालस्तद्विद्भिरीश्वरः ।
चतुर्विधानां भूतानां प्रवर्त्तकनिवर्त्तकः
तस्यापि भगवान्रुद्रः साक्षाद्देवः प्रवर्त्तकः ।
इत्येष ज्योतिषामेव संनिवेशोर्ऽथनिश्चयात्
लोकसंव्यवहारार्थ मीश्वरेण विनिर्मितः ।
उत्तराश्रवणेनासौ संक्षिप्तश्च ध्रुवे तथा
सर्वतस्तेषु विस्तीर्णो वृत्ताकार इव स्थितः ।
बुद्धिबूर्वं भागवता कल्पदौ संप्रवर्त्तितः
साश्रयः सो ऽभिमानी च सर्वस्य ज्योतिषात्मकः ।
वैश्वरूपप्रधानस्य परिणामो ऽयमद्भुतः
नैतच्छक्यं प्रसंख्यातुं याथातथ्येन केनचित् ।
गतागतं मनुष्येण ज्योतिषां सांसचक्षुषा
आगमादनुमा नाच्च प्रत्यक्षदुपपत्तितः ।
परिक्ष्य निपुणं बुद्ध्या श्रद्धातव्यं विपश्चिता
चक्षुः शास्त्रं जलं लेख्यं गणितं बुद्धिवित्तमाः ।
पञ्चैते हेतवो विप्रा ज्योतिर्गणविवेचने
मूल पाठ: Brahmāṇḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0