ब्रह्माण्ड पुराण · अध्याय 1.23
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपादे देवग्रहानुकीर्तनं नाम द्वाविंशतितमो ऽध्यायः
सूत उवाच
सरथो ऽधिष्ठितो देवैरादित्यैर्मुनिभिस्तथा ।
गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः
एते वसंति वै सूर्ये द्वौ द्वौ मासौ क्रमेण तु ।
धातार्ऽयमा पुलस्त्यश्च पुलहश्च प्रजापतिः
एरावतो वासुकिश्च कंसो भीमश्च तावुभौ ।
रथकृच्च रथौजाश्च यक्षावेतावुदा त्दृतौ
तुंबुरुर्नारदश्चैव सुस्थला पुञ्जिकस्थला ।
रक्षो हेतिः प्रहेतिश्च यातुधानावुदाहृतौ
एते वसंति वै सूर्य्ये मधुमाधवयोः सदा ।
मित्रश्च वरुणश्चैव मुनिरत्रिरुदाहृतः
तथा वसिष्ठो विख्यातः सहजन्या च मेनका ।
राक्षसौ च समाख्यातौ पौरुषेयो वधस्तथा
हाहा हूहूश्च गन्धर्वौं यज्ञश्चापि रथस्वनः ।
रथचित्रस्तथैवान्यो नागसाक्षकसंज्ञेतः
रंभकश्च वसन्त्येते मासयोः शुचिशुक्रयोः ।
ततः सूर्ये पुनस्त्वन्या निवसंतीह देवताः
इद्रश्चैव विवस्वांश्च अङ्गिरा भृगुरेव च ।
एलापत्रस्तथा सर्पः शङ्खपालाश्च तावुभौ
विश्वावसूग्रसेनौ च श्वेतश्चैवारुणस्तथा ।
प्रम्लोचा इति विख्यातानुम्लोचेति च ते उभे
यातुधानस्तदा सर्पो व्याघ्रश्चव तु तावुभौ ।
नभोनभस्ययोरेष गाणो वसति भास्करे
शरद्यन्याः पुनः शुभ्रा वसंति मुनिदेवताः
पर्जन्यश्चैव पूषा च भारद्वाजः सगौतमः
परावसुश्च गन्धर्वस्तथैव सुरुचिश्च यः ।
विश्वाची च घृताची च उभे ते शुभलक्षणे
नाग एरावतश्चैव विश्रुतश्च धनञ्जयः ।
श्चेनजिच्च सुषेणश्च सेनीर्ग्राम णीश्च तौ
आपो वातश्च द्वावेतौ यातुधानावुदाहृतौ ।
वसंत्येते तु वै सूर्ये सदैवाश्विनकर्तिके
हैमन्तिकौ तु द्वौ मासौ वसंति च दिवाकरे ।
अंशो भगश्च द्वावैतौ कश्यपश्य क्रतुश्च ह
भुजङ्गश्च महापद्मः सर्वः कर्केटक स्तथा ।
चित्रसेनश्च गन्धर्व ऊर्णायुश्चैव तावुभौ
उर्वशी पूर्वचित्तिश्च तथैवाप्सरसा उभे ।
तार्क्षश्चारिष्टनेमिश्च सेनानीर् ग्रामणीश्च तौ
विद्युत्स्फूर्जः शतायुश्च यातुधानावुदात्दृतौ ।
सहे चैव सहस्ये च वसंत्येते दिवाकरे
ततः शैशिर योश्चापि मासयोर्निवसंति वै ।
त्वष्टा विष्णुर्जामदग्न्यो विश्वामित्रस्तथैव च
काद्रवेयौ तथा नागौ कंबलाश्वतरावुभौ ।
गन्धर्वो धृतराष्ट्रश्च सूर्यवर्चास्तथैव च
तिलोत्तमा तथा रंभा ब्रह्मापेतश्च राक्षसः ।
यज्ञापेतम्तथैवान्यो विश्यातो राक्षसो त्तमः
ऋतजित्सत्यजिच्चैव गन्धर्वौं समुदाहृतौ ।
तपस्तपस्ययोः सूर्ये वसंति मुनिसत्तमाः
पितृदेवमनुष्यादीन्स सदाप्याययन्प्रभुः ।
परिवर्त्तत्यहोरात्रकारणं सविता द्विजाः
एते देवा वसंत्यर्के द्वौ द्वौ मासौ क्रमेण तु ।
स्थानाभिमानिनो ह्येते गाणा द्वादशसप्तकाः
सुर्यस्याप्याययन्त्येते तेजसा तेज उत्तममा ।
ग्रथितैः स्वैर्वचोभिश्च स्तुवन्ति ह्यृषयो रविम्
गन्धर्वाप्सरसश्चैव गीतनृत्यैरुपासते ।
ग्रामणीयक्षभूतानि कुर्वते ऽभीषुसंग्रहम्
सर्पा वहन्ति वै सूर्यं यातुधानास्तु यान्ति च ।
वालखिल्या नंयत्यस्तं परिवार्योदयाद्रविम्
एतेषामेव देवानां यथावीर्यं यथातपः ।
यथाधर्मं यथायोगं यथासत्यं यथाबलम्
तपत्यसौ तश्रा सूर्य एषामिन्द्रस्तु तेजसा ।
इत्येते निवसंतीह द्वौ द्वौ मासौ दिवाकरे
ऋषयो देवगन्धर्वाः पन्नगाप्सरसां गणाः ।
ग्रामण्यश्च तथा यक्षा यातुधानाश्च मुख्यशः
एते तपन्ति वर्षन्ति भान्ति वान्ति सृजन्ति च ।
भूतानां चशुभं कर्म व्यपोहन्ति प्रकीर्त्तिताः
मानवानां शुभं ह्येते हरन्ते दुरितात्मनाम् ।
दुरितं सुप्रचाराणां व्यपोहन्ति क्वचि त्क्वचित्
एते सहैव सूर्येण भ्रमन्ति दिवासानुगाः ।
वर्षन्तश्च तपन्तश्च ह्लादयन्तश्च वै प्रजाः
गोपायन्ति च भूतानि सर्वाणीहामनुक्षयात् ।
स्थानाभिमानिनामेतत्स्थानं मन्वन्तरेषु वै
अतीतानागतानां च वर्त्तन्ते सांप्रतं च ये ।
एवं वसंति वै सूर्ये सप्तकास्ते चतुर्दश ।
चतुर्दशसु सर्वेषु गणा मन्वन्तरेष्विह
ग्रीष्मे च वर्षासु च मुञ्चमानो घर्मं हिमं वर्ष दिनं निशां च ।
गच्छत्यसावृतुवशात्परिवृत्तरश्मिर्देवान् पितॄ#ंश्च मनुजांश्च हि तर्पयन्वै
प्रीणाति देवानमृतेन सूर्यः सोमं सुषुम्णेन च वर्द्धयित्वा ।
शुक्ले तु पूर्णं दिवसक्रमेण तं कृष्णपक्षे विबुधाः पिबन्ति
पीतं च सोमं हि कलावशिष्टं कृष्णक्षये रश्मिभिरक्षरन्तम् ।
सुधामृतं तत्पितरः पिबन्ति देवाश्च सौम्याश्च तथैव काव्याः
सूर्येण गोभिश्च समुज्झिताभिरद्भिः पुनश्चैव समुद्धृताभिः ।
वृष्ट्याभिवृद्धाभिरथौषधीभिर्मर्त्याः क्षुधं त्वन्नपानैर्जयन्ति
तृप्तिश्च शुक्ले सुधया सुराणां पक्षे च कृष्णे सुधया पितणाम् ।
अन्नेन शश्वच्च दधाति मर्त्यान्सुर्यस्तपंस्तान्सुबिभर्त्ति गोभिः
ह्रियन्हरिस्तैर्हरिभिस्तुरङ्गमैर्हरत्यथापः किरणैर्हरिद्भिः ।
विसर्गकाले विसृजंश्च ताः पुनर्बिभर्त्ति शश्वत्सविता चराचरम्
हरिर्हरिद्भिर्ह्रि यते तुरङ्गमैः पिबत्यथापो हरिभिः सहस्रधा ।
ततः प्रमुञ्चत्यपि तास्त्वसौ हरिः समूह्यमानो हरिभिस्तुरङ्गमैः
इत्येष एकचक्रेण सूर्यस्तूर्णरथेन तु ।
भद्रैस्तैरक्रमैरश्वैः स्पन्दने वैदिकक्षयः
अहोरात्राद्रथेनासावेकचक्रेण वै भ्रमन् ।
सप्तद्वीपसमुद्रान्तां सप्तभिः सप्तभिर्हयैः
छन्दोभिरश्वरूपैस्तैर्यतश्चक्रं ततः स्थितैः ।
कामरूपैः सकृद्युक्तैर्वामतस्तैर्मनोजवैः
हरितैख्ययैः पिङ्गैरीश्वरैर्ब्रह्मवादिभिः ।
त्र्यशीतिमण्डलशतं भ्रमन्त्यब्देन ते हयाः
बाह्यमाभ्यन्तरं चैव मण्डलं दिवसक्रमात् ।
कल्पादौ संप्र युक्तास्ते वहन्त्याभूतसंप्लवात्
आवृत्ता वालखिल्यैस्ते भ्रमन्ते रात्र्यहानि तु ।
वचोभिरग्र्यैर्ग्रथितैः स्तूयमानो महर्षिभिः
सेव्यते गीतनृत्यैश्च गन्धर्वैश्चाप्सरोगणैः ।
पतङ्गैः पतगैरश्वैर्भ्रममाणो दिवस्पतिः
रथास्त्रचक्रःसोमस्य कुदाभास्तस्य वाजिनः ।
वामदक्षिणतो युक्ता दश तेन चरन्त्यसौ
वीथ्याश्रयाणि ऋक्षाणि ध्रुवाधारेण वेगिताः ।
ह्रासवृद्धी तथैवास्य रश्मीनां सूर्यवत्स्मृते
त्रिचक्रोभयतो ऽश्वश्च विज्ञेयः शशिनो रथः ।
अपां गर्णात्समुत्पन्नो रथः साश्वः ससारथिः
शतारैश्च त्रिभिश्चक्रैर्युक्तः शुक्लैर्हयोत्तमैः ।
दशभिस्तु कृशैर्दिव्यैरसंगैस्तैर्मनोजवैः
सकृद्युक्ते रथे तास्मिन्वहन्ते चायुगक्षयात् ।
संगृहीतरथे तस्मिञ्श्वेतश्चक्षुःश्रवाश्च वै
अश्वास्तमेकवर्णस्ते वहन्ते शङ्खवर्चसः ।
यजुश्चण्डमनाश्चैव वृषो वाजी नरो हयः
अश्वो गविष्णुर्विख्यातो हंसो व्योमो मृगस्तथा ।
इत्येते नामभिः सर्वे दश चन्द्रमसो हयाः
एते चन्द्रमसं देवं वहन्ति सह दीक्षया ।
देवैः परिवृतः सोमः पितृभिश्चैव गच्छति
सोमस्य शुक्लपक्षादौ भास्करे परतः स्थिरे ।
आपूर्यते परस्यान्ते सततं दिवसक्रमात्
देवैः पीततनुं सोममाप्याययति नित्यदा ।
क्षीणं पञ्चदशाहं तु रश्मिनैकेन भास्करः
आपूरयन्सुषुम्णेन भागं भागमहःक्रमात् ।
सुषुम्णाप्यायमानस्य शुक्ला वर्द्धन्ति वै कलाः
तस्माद्ध्रसंति वै कृष्णे शुक्ले स्वाप्याययन्ति तम् ।
इत्येवं सूर्यवीर्येण चन्द्रश्चाप्यायितस्ततः
पौर्णमास्यां स दृश्येत शुक्लः संपूर्णमण्डलः ।
एवमाप्यायितः सोमः शुक्ल पक्षे दिनक्रमात्
ततो द्वितीयाप्रभृति बहुलस्य चतुर्द्दशीम् ।
अपां सारमयस्येन्दो रसमात्रात्मकस्य तु
पिबत्यंबुमयं देवा हृष्टाः सौम्यं स्वधामृतम् ।
संभृतं त्वर्द्धमासेन ह्यमृतं सूर्यतेजसा
भक्षार्थममृतं सोमः पौर्णमास्यामुपासते ।
एकां रात्रिं सुरैः सर्वैः पितृभिः सर्षिभिः सह
सोमस्य कृष्णपक्षादौ भास्कराभिमुखस्य तु ।
प्रक्षीयन्ते पिदृदेवैः पीयमानाः कलाः क्रमात्
त्रयश्च त्रिंशतश्चैव त्रयस्त्रिंशत्तथैव च ।
त्रयश्च त्रिसहस्राश्च देवाः सोमं पिबन्ति वै
इत्येतैः पीयमानस्य कृष्णा वर्द्धति वै कलाः ।
क्षीयन्ति तस्माच्छुक्लाश्च कृष्णा आप्याययन्ति च
एवं दिनक्रमात्पीते विबुधैस्तु निशाकरे ।
पीत्वार्द्ध मासं गच्छन्ति चामावास्यां सुरोत्तमाः
पितरश्चोपतिष्ठन्ति ह्यमावास्यां निशाकरम् ।
ततः पञ्चदशेकाले किञ्चिच्छिष्टे कलात्मके
अपराह्णे पितृगणा जघन्यं पयुपासते ।
पिबन्ति द्विलवं कालं शिष्टास्तस्य कलास्तु याः
निःसृतं तदमावास्यां गभस्तिभ्यः स्वधामृतम् ।
तां स्वधां मासतृप्त्यै च पीत्वा गच्छन्ति ते ऽमृतम्
सूर्यस्तस्मिन्सुषुम्णे यस्तापितस्तेन चन्द्रमाः ।
कृष्णपक्षे सुरैस्तद्वत्पीयते वै सुधामयः
सौम्या बर्हिषदश्चैव अग्निष्वात्ताश्च ते त्रिधा ।
काव्यश्चैव तु ये प्रोक्ताः पितरः सर्व एव ते
संवत्सरास्तु वै काव्याः पञ्चाब्दा ये द्विचैः स्मृताः ।
सौम्यास्तु ऋतुवो ज्ञेया मासा बर्हिषदः स्मृताः
अग्निष्वात्तार्त्तवाश्चैव पितृसर्गा हि वै द्विजाः ।
पितृभिः पीयमानस्य पञ्चदश्यां कला तु वै
यावत्प्रक्षीयते तस्य भागः पञ्चदशस्तु यः ।
अमावास्यां तदा तस्य तत आपूर्यते परः
वृद्धक्षयौ वै पक्षादौ षोडश्यां शशिनः स्मृता ।
एवं सूर्यनिमित्तैष क्षयोवृद्धिर्निशाकरे
ताराग्रहाणां वक्ष्यामि स्वर्भानोश्च रथान्पुनः ।
तेयतेजोमयः शुभ्रः सोमपुत्रस्य वै रथः
सोपासंगप ताकस्तु सध्वजो मेघनिस्वनः ।
भार्गवस्य रथः श्रीमांस्तेजसा सूर्यसन्निभः
पृथिवीसंभवैर्युक्तो नानावर्णैर्हयोत्तमैः ।
श्वेतः पिशङ्गः सारङ्गो नीलः पीतो विलोहितः
कृष्णश्च हरितश्चैव पृषतः पृश्रिरेव च ।
दशभिस्तैर्महाभागैरकृशैर्वातरंहसैः
अष्टाश्वः काञ्चनः श्रीमान्भौमस्यापि रथोत्तमः ।
असंगैर्लोहितैरश्वैः सर्वगैरग्निसंभवैः
प्रसर्पति कुमारो वै ऋजुवक्रानुव क्रगैः ।
ततश्चाङ्गिरसो विद्वान्देवाचार्यो बृहस्पतिः
गौरैरश्वैः काञ्चनेन स्यन्दनेन प्रसर्पति ।
अब्जैस्तु वाजिभिर्दिव्यैरष्टभिर्वातरंहसैः
नक्षत्रे ऽब्दं स तिष्ठन्वै संवेधास्तेन गच्छति ।
ततः शनैश्चरो ऽप्यश्वैः सबलैर्व्योमसंभवैः
कार्ष्णायसं समारुह्य स्यन्दनं याति वै शनैः ।
स्वर्भानोश्च तथैवाश्वाः कृष्णा ह्यष्टौ मनोजवाः
रथं तमोमयं तस्य सकृद्युक्ता वहं त्युत ।
आदित्यान्निःसृतो राहुः सोमं गच्छति पर्वसु
आदित्यमेति सोमश्च पुनः सौरेषु पर्वसु ।
अथ केतुरथस्याश्वा अष्टौ वै वातरंहसः
पलालधूमवर्णाभा सबला रासभारुणाः ।
एते वाहा ग्रहाणां च ह्युपाख्याता रथैः सह
सर्वे ध्रुवनिब द्धास्ते प्रवृद्धा वातरश्मिभिः ।
तपन्ते ब्राम्यमाणास्तु यथायोगं भ्रमन्ति वै
वायव्याभिरदृश्याभिः प्रवृद्धा वातरश्मिभिः ।
परिभ्रमन्ति तद्ब्रद्धांश्चन्द्रसुर्यग्रहा दिवि
भ्रमन्तमनुगछन्ति ध्रुवं ते ज्योतिषां गणाः ।
यथा नह्युदके नौस्तु सलिलेन सहो ह्यते
तथा देवालया ह्येते ऊह्यन्ते वातरश्मिभिः ।
सर्प्पमाणा न दृश्यन्ते व्योम्नि देवगणास्तु ते
यावत्यश्चैव ताराश्च तावन्तो वातरश्मयः ।
सर्वा ध्रुवे निबद्धाश्च भ्रमन्त्यो भ्रामयन्ति ताः
तैलपीडा यथा चक्रं भ्रमन्तो भ्रामयन्ति ह ।
तथा भ्रमन्ति ज्योतींषि वातबद्धानि सर्वशः
अलातचक्रवद्यान्ति वातचक्रेरितानि तु ।
यतो ज्योतींषि वहते प्रवहस्तेन स स्मृतः
एवं ध्रुवनिबद्धो ऽसौ सर्पते ज्योतिषां गणः ।
सैष तारामयो ज्ञेयः शिशुमारो ध्रुवो दिवि
यदह्ना कुरुते पापं दृष्ट्वा तन्निशिमुञ्चते ।
यावत्यश्चैव तारास्ताः शिशुमाराश्रिता दिवि
तावन्त्येव तु वर्षाणि जीवताभ्यधिकानि तु ।
साकारः शिशुमारश्च विज्ञेयः प्रविभागशः
औत्तानपादस्तस्याथ विज्ञेयो ह्यत्तरो हनुः ।
यज्ञः परस्तु विज्ञेयो धर्मो मर्द्धानमाश्रितः
हृदि नारायणः साध्यो ह्यश्विनौ पूर्वपादयोः ।
वरुणश्चार्यमा चैव पश्चिमे तस्य सक्थिनी
शिश्रं संवत्सरस्तस्य मित्रो ऽपानं समाश्रितः ।
पुच्छे ऽग्निश्च महेन्द्रश्च मारीचः कश्यपो ध्रुवः
तारकाः शिशुमारस्य नास्तं याति चतुष्टयम् ।
नक्षत्रचन्द्रमूर्याश्च ग्रहास्तारागणैः सह
उन्मुखा विमुखाः सर्वे वक्रीभूताः श्रिता दिवि ।
ध्रुवेणाधिष्ठिताश्चैव ध्रुवमेव प्रदक्षिणम्
परियान्तीश्वरश्रेष्ठं मेढीभूतं द्रुवं दिवि ।
अग्नीन्द्रकश्यपानां तु चरमो ऽसौ ध्रुवः स्मृतः
एक एव भ्रमत्येष मेरुपर्वतमूर्द्धनि ।
ज्योतिषां चक्रमेतद्धि गदा कर्षन्नवाङ्मुखः ।
मेरुमालोकयत्येष पर्यन्ते हि प्रदक्षिणम्
मूल पाठ: Brahmāṇḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0