भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्माण्ड पुराण · अध्याय 1.22

1.22.1

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपादे आदित्यव्यूहकीर्त्तनं नामैकविंशतितमो ऽध्यायः
सूत उवाच
स्वायंभूवनिसर्गे तु व्याख्यातान्यन्तराणि च ।
भविष्याणि च सर्वाणि तेषां वक्ष्याम्यनुक्रमम्

1.22.2

एतच्छ्रुतवा तु मुनयः पप्रच्छू रोमहर्षणम् ।
सूर्याचन्द्रमसोश्चारं ग्रहाणां चैव सर्वशः

1.22.3

ऋषय ऋचुः ।
भ्रमन्ति कथमेतानि ज्योतीषि दिवमण्डलम् ।
अव्यूहेन च सर्वाणि तथैवासंकरेण वा

1.22.4

कश्चिद्भामयते तानि भ्रमन्ते यदि वा स्वयम् ।
एतद्वेदितुमिच्छामस्तन्नो निगद सत्तम

1.22.5

सूत उवाच
भूतसंमोहनं ह्येतद्वदतो मे निबोधत ।
प्रत्यक्षमपि दृश्यं च संमोहयति यत्प्रजाः

1.22.6

यो ऽयं चतुर्द्दिशं पुच्छे शैशुमारे व्यवस्थितः ।
उत्तानपादपुत्रो ऽसौ मेढीभूतो ध्रुवो दिवि

1.22.7

स वै भ्रामयते नित्यं चन्द्रादित्यौ ग्रहैः सह ।
भ्रमन्तमनुगच्छन्ति नक्षत्राणि च चक्रवत्

1.22.8

ध्रुवस्य मनसा चासौ सर्वते ज्योतिषां गणः ।
सूर्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह

1.22.9

वातानीकमयैर्बन्धैर्ध्रुवे बद्धानि तानि वै ।
तेषां योगश्च भेदश्च कालश्चारस्तथैव च

1.22.10

अस्तोदयौ तथोत्पाता अयने दक्षणोत्तरे ।
विषुवद्ग्रहवर्णाश्च द्रुवात्सर्वं प्रवर्त्तते

1.22.11

वर्षा घर्मो हिमं रात्रिः संध्या चैव दिनं तथा ।
शुभाशुभं प्रजानां च ध्रुवात्सर्वं प्रवर्त्तते

1.22.12

ध्रुवेणाधिष्टितश्चैव सूर्यो ऽपो गृह्य वर्षति ।
तदेष दीप्त किरणः स कालग्निर्दिवाकरः

1.22.13

परिवर्त्तक्रमाद्विप्रा भाभिरालोकयन् दिशः ।
सूर्यः किरमजालेन वायुयुक्तेन सर्वशः

1.22.14

जगतो जलमादत्ते कृत्स्नस्य द्विजसत्तमाः ।
आदित्यपीतं सकलं सोमः संक्रमते जलम्

1.22.15

नाडीभिर्वायुयुक्ताभिर्लोकधारा प्रवर्त्तते ।
यत्सोमात्स्रवते ह्यंबु तदन्नेष्वेव तिष्ठति

1.22.16

मेघा वायुविघातेन विसृजन्ति जलं भूवि ।
एवमुत्क्षिप्यते चैव पतते चासकृज्जलम्

1.22.17

न नाश उदकस्यास्ति तदेव परिवर्त्तते ।
संधारणार्थं लोकानां मायैषा विश्वनिर्मिता

1.22.18

अन्या मायया व्याप्तं त्रैलोक्यं सचराचरम् ।
विश्वेशो लोककृद्देवः सहस्राक्षः प्रजापतिः

1.22.19

धाता कृत्स्नस्य लोकस्य प्रभविष्णुर्दिवाकरः ।
सार्वलोकिकमंभो यत्तत्सोमान्नभसश्व्युतम्

1.22.20

सोमाधारं जगत्सर्वमेतत्तथ्यं प्रकीर्तितम् ।
सूर्यादुष्णं निस्रवते सोमाच्छीतं प्रवर्त्तते

1.22.21

शीतोष्णवीर्यौं द्वावेतौ युक्त्या धारयतो जगत् ।
सोमाधारा नदी गङ्गा पवित्रा विमलोदका

1.22.22

भद्रसोमपुरोगाश्च महानद्यो द्विजोत्तमाः ।
सर्वभूतशरीरेषु ह्यापो ह्यनुसृताश्च याः

1.22.23

तेषु संदह्यमानेषु जङ्गमस्थावरेषु च ।
धूमभूतास्तु ता ह्यापो निष्कामन्तीह सर्वशः

1.22.24

तेन चाभ्राणि जायन्ते स्थानमभ्रमयं स्मृतम् ।
तेजोर्ऽकः सर्वभूतेभ्य आदत्ते रश्मिभिर्जलम्

1.22.25

समुद्राद्वायुसंयोगाद्वहन्त्यापो गभस्तयः ।
संजीवनं च सस्यानामंभस्तदमृतोपमम्

1.22.26

ततस्त्वृतुवशात्काले परिवत्य दिवाकरः ।
यच्छत्यापो हि मेघेभ्यः घुक्लाशुक्लैर्गभस्तिभिः

1.22.27

अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः ।
सर्वभूतहितार्थाय वायुमिश्राः समन्ततः

1.22.28

ततो वर्षति षण्मासान्सर्वभूतविवृद्धये ।
वायव्यं स्तनितं चैव वैद्युतं चाग्निसंभवम्

1.22.29

मेहनाच्च मिहेधातोमघत्वं व्यजयन्ति हि ।
न भ्रश्यन्ति यतश्चापस्तदभं कवयो विदुः

1.22.30

मेघानां पुनरुत्पत्तिश्त्रिविधा योनिरुच्यते ।
आग्नेया ब्रह्मजाश्चैव पक्षजाश्च पृथग्विधाः

1.22.31

त्रिधा मेघाः समाख्यातास्तेषां वक्ष्यामि संभवम् ।
आग्नेया स्तूष्णजाः प्रोक्तास्तेषां धूमप्रवर्त्तनम्

1.22.32

शीतदुर्दिनवाता ये स्वगुणास्ते व्यवस्थिताः ।
महिषाश्च वाराहाश्च मत्तमातङ्गरूपिणः

1.22.33

भूत्वा धरणिमभ्येत्य रमन्ते विचरन्ति च ।
जीमूता नाम ते मेघा ह्येतेभ्यो जीवसंभवः

1.22.34

विद्युद्गुणविहीनाश्च जलधारा विलंबिनः ।
मूकमेघा महाकाया आवहस्य वशानुगाः

1.22.35

क्रोशमात्राच्च वर्षन्ति क्रोशार्द्धादपि वा पुनः ।
पर्वताग्र नितंबेषु वर्षति च रसंति च

1.22.36

बलाकागर्भदाश्चैव बलाकागर्भधारिणः ।
ब्रह्मजा नाम ते मेघा ब्रह्मनिश्वाससंभवाः

1.22.37

ते हि विद्युद्गुणोपेतास्तनयित्नुप्रियस्वनाः ।
तेषां शश्र्वत्प्रणादेन भूमिः स्वाङ्गरूहोद्भवा

1.22.38

राज्ञी राज्याभिषिक्तेव पुनर्यौंवनमश्नुते ।
तेष्वियं प्रावृडासक्ता भूतानां जीवितोद्भवा

1.22.39

द्वितीयं प्रवहं वायुं मेघास्ते तु समाश्रिताः ।
एतं योजनमात्राच्च साध्यर्द्धा निष्कृतादपि

1.22.40

वृष्टिर्गर्भस्त्रिधा तेषां धारासारः प्रकीर्त्तितः ।
पुष्करावर्त्तका नाम ते मेघाः पक्षसंभवाः

1.22.41

शक्रेण पक्षच्छिन्ना ये पर्वतानां महौजसाम् ।
कामागानां प्रवृद्धानां भूतानां शिवमिच्छता

1.22.42

पुष्करा नाम ते मेघा बृंहन्तस्तोयमत्सराः ।
पुष्करावर्त्तकास्तेन कारणेनेह शब्दिताः

1.22.43

नानारूपधराश्चैव महाघोरस्वनाश्च ते ।
कल्पान्तवृष्टेः स्रष्टारः संवर्ताग्ने र्नियामकाः

1.22.44

वर्षन्त्येते युगान्तेषु तृतीयास्ते प्रकीर्त्तिताः ।
अनेकरूपसंस्थानाः पूरयन्तो महीतलम्

1.22.45

वायुं पुरा वहन्तः स्युराश्रिताः कल्पसाधकाः ।
यान्यण्डस्य तु भिन्नस्य प्राकृतस्याभवंस्तदा

1.22.46

यस्मिन्ब्रह्मा समुत्पन्नश्चतुर्वक्त्रः स्वयंप्रभुः ।
तान्येवाण्डकपालानि सर्वे मेघाः प्रकीर्त्तिताः

1.22.47

तेषामाप्यायनं धूमः सर्वेषामविशेषतः ।
तेषां श्रेष्ठस्तु पर्जन्यश्चत्वारश्चैव दिग्गजाः

1.22.48

गजानां पर्वतानां च मेघानां भोगिभिः सह ।
कुलमेकं पृथग्भूतं योनिरेका जलं स्मृतम्

1.22.49

पर्जन्यो दिग्गजा श्चैव हेमन्ते शीतसंभवाः ।
तुषारवृष्टिं वर्षन्ति शिष्टः सस्यप्रवृद्धये

1.22.50

षष्ठः परिवहो नाम तेषां वायुरपाश्रयः ।
यो ऽसौ बिबर्त्ति भगवान्गङ्गामाकाशगोचराम्

1.22.51

दिव्यामृतजला पुण्यां त्रिधास्वातिपथे स्थिताम् ।
तस्या निष्यन्दतोयानि दिग्गजाः पृथुभिः करैः

1.22.52

शीकरं संप्रमुञ्चन्ति नीहार इति स स्मृतः ।
दक्षिणेन गिरिर्यो ऽसौ हेमकूट इति स्मृतः

1.22.53

उदग्घिमवतः शैल उत्तरप्रायदक्षिणे ।
पुण्ड्रं नाम समाख्यातं नगरं तत्र विस्तृतम्

1.22.54

तस्मिन्निपतितं वर्षं तत्तुषारसमुद्भवम् ।
ततस्तदा वहो वायुर्हेमवन्तं समुद्वहन्

1.22.55

आनयत्यात्मयोगेन सिंचमानो महागिरिम् ।
हिमवन्तमतिक्रम्य वृष्टिशेषं ततः परम्

1.22.56

इहाभ्येति ततः पश्चादपरान्तविवृद्धये ।
वर्षद्वयं समाख्यातं सस्यद्वयविवृद्धये

1.22.57

मेघाश्चाप्यायनं चैव सर्वमेतत्प्रकीर्त्तितम् ।
सूर्य एव तु वृष्टीनां स्रष्टा समुपदिश्यते

1.22.58

सूर्यमूला च वै वृष्टिर्जलं सूर्यात्प्रवर्तते ।
ध्रुवेणाधिष्ठितः सूर्यस्तस्यां वृष्टौ प्रवर्त्तते

1.22.59

ध्रुवेणाधिष्टितो वायुर्वृष्टिं संहरते पुनः ।
ग्रहो निःसृत्य सूर्यात्तु कृत्स्ने नक्षत्रमण्डले

1.22.60

चरित्वान्ते विशत्यर्कं ध्रुवेण समाधिष्ठितम् ।
ततः सूर्यरथस्याथ सन्निवेशं निबोधत

1.22.61

संस्थितेनैकचक्रेण पञ्चारेण त्रिनाभिना ।
हिरण्मयेन भगवांस्तथैव हरिदर्वणा

1.22.62

अष्टापदनिबद्धेन षट्प्रकारैकनेमिना ।
चक्रेण भास्वता सूर्यः स्यन्दनेन प्रसर्पति

1.22.63

दशयोजनसाहस्रो विस्तारायामतः स्मृतः ।
द्विगुणो ऽस्य रथोपस्थादीषादण्डः प्रमाणतः

1.22.64

स तस्य ब्रह्मणा सृष्टो रथो ह्यर्थवशेन तु ।
असंगः काञ्चनो दिव्यो युक्तः पवनगैर्हयैः

1.22.65

छन्दोभिर्वाजिरूपैस्तु यतश्चक्रं ततः स्थितैः ।
वारुणस्यन्दनस्येह लक्षणैः सदृशस्तु सः

1.22.66

तेनासौ सर्वते व्योम्नि भास्वता तु दिवाकरः ।
अथैतानि तु सूर्यस्य प्रत्यङ्गानि रथस्य ह

1.22.67

संवत्सरस्यावयवैः कल्पि तस्य यथाक्रमम् ।
अहस्तु नाभिः सौरस्य एकचक्रस्य वै स्मृतः

1.22.68

अराः पञ्चार्त्तवांस्तस्य नेमिः षडृतवः स्मृतः ।
रथनीडः स्मृतो ह्येष चायने कूबरावुभौ

1.22.69

मुहूर्त्ता बन्धुरास्तस्य रम्याश्चास्य कलाः स्मृताः ।
तस्य काष्ठा स्मृता घोणा अक्षदण्डः क्षणस्तु वै

1.22.70

निमेषश्चानुकर्षो ऽस्य हीषा चास्य लवाःस्मृताः ।
रात्रिर्वरूथो धर्मो ऽस्य ध्वज ऊर्द्ध्व समुच्छ्रितः

1.22.71

युगाक्षकोडी ते तस्य अर्थकामावुभौ स्मृतौ ।
सप्ताश्वरूपाश्छन्दासि वहन्तो वामतो धुरम्

1.22.72

गायत्री चैव त्रिष्टुप्य ह्यनुष्टुब्जगती तथा ।
पङ्क्तिश्च बृहती चैव ह्युष्णिक्चैव तु सप्तमी

1.22.73

चक्रमक्षे निबद्धं तु ध्रुवे चाक्षः समर्पितः ।
सहचक्रो भ्रमत्यक्षः सहक्षो भ्रमते ध्रुवः

1.22.74

अक्षेण सह चक्रेशो भ्रमते ऽसौ ध्रुवेरितः ।
एवमर्थवशात्तस्य सन्निवेशो रथस्य तु

1.22.75

तथा संयोगभावेन संसिद्धो भासुरो रथः ।
तेनासौ तरणिर्देवो भास्वता सर्पते दिवि

1.22.76

युगाक्षकोटिसन्नद्धौ द्वौ रश्मी स्यन्दनस्य तु ।
ध्रुवे तौ भ्राम्यते रश्मी च चक्रयुगयोस्तु वै

1.22.77

भ्रमतो मण्डलान्यस्य खेचरस्य रथस्य तु ।
युगाक्षकोटी ते तस्य दक्षिणे स्यन्दनस्य हि

1.22.78

ध्रुवेण प्रगृहीते वै विचक्रम तुरक्षवत् ।
भ्रमन्तमनुगच्छेतां ध्रुवं रश्मी तु तावुभौ

1.22.79

युगाक्षकोटिस्तत्तस्य रश्मिभिः स्यन्दनस्य तु ।
कीलासक्ता यथा रज्जुर्भ्रंमते सर्वतो दिशम्

1.22.80

ह्रसतस्तस्य रश्मी तु मण्डलेषूत्तरायणे ।
वर्द्धते दक्षिणे चैव भ्रमतो मण्डलानि तु

1.22.81

युगाक्षकोटिसंबद्धौ रश्मी द्वौ स्यन्दनस्य तु ।
ध्रुवेण प्रगृहीतौ वै तौ रश्मी नयतो रविम्

1.22.82

आकृष्येते यदा तौ वै ध्रुवेण सम धिष्ठितौ ।
तदा सो ऽभ्यन्तरे सूर्यो भ्रमते मण्डलानि तु

1.22.83

अशीतिर्मण्डलशतं काष्ठयोरन्तरं स्मृतम् ।
ध्रुवेण मुच्यमानाभ्यां रश्मिभ्यां पुनरेव तु

1.22.84

तथैव बाह्यतः सूर्यो भ्रमते मण्डलानि तु ।
उद्वेषाटयन्स वेगेन मण्डलानि तु गच्छति

मूल पाठ: Brahmāṇḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc