भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्माण्ड पुराण · अध्याय 1.21

1.21.1

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे
द्वितीये ऽनुषङ्गपादे ऽधोलोकवर्णनं नाम विंशतितमो ऽध्यायः
सूत उवाच
सूर्या चन्द्रमसावेतौ भ्रमतो यावदेव तु ।
प्रकाशैस्तु प्रभाभिस्तौ मण्डलाभ्यां समुच्छ्रितौ

1.21.2

सप्तानां तु समुद्राणां द्वीपानां सतु विस्तरः ।
विस्तरार्द्धे पृथिव्यास्तु भवेदन्यत्र बाह्यतः

1.21.3

पर्यासपरिमाणं तु चन्द्रादित्यौ प्रकाशतः ।
पर्यास्तात्पारिमाण्येन भूमेस्तुल्यं दिवं स्मृतम्

1.21.4

अवति त्रीनिमांल्लोकान् यस्मात्सूर्यः परिभ्रमन् ।
अविधातुः प्रकाशाख्यो ह्यवनात्स रविः स्मृतः

1.21.5

अतः परं प्रवक्ष्यामि प्रमाणं चन्द्रसूर्ययोः ।
महित्तत्त्वान्महीशब्दो ऽह्यस्मिन्वर्षे निपाद्यते

1.21.6

अस्य भारतवर्षस्य विष्कंभात्तुल्यविस्तृतम् ।
मण्डलं भास्करस्याथ योजनानि निबोधत

1.21.7

नवयोजनसाहस्रो विस्तारो भास्करस्य तु ।
विस्तारात्र्रिगुणश्चास्य परिणाहस्तु मण्डले

1.21.8

विष्कंभमण्डलाच्चैव भास्कराद्द्विगुणः शशी ।
अथ पृथिव्या वक्ष्यामि प्रमाणं योजनैः सह

1.21.9

सप्तद्वीपसमुद्राया विस्तारो मण्डलं च यत् ।
इत्येतदिह संख्यातं पुराणे परिमाणतः

1.21.10

तद्वक्ष्यामि समाख्याय सांप्रतैरभिमानिभिः ।
अभिमानिनोव्यतीता ये तुल्यास्ते सांप्रतैस्त्विह

1.21.11

देवा ये वै व्यतीतास्तु रूपैर्नामभिरेव च ।
तस्मात्तु सांप्रतैर्देवैर्वक्ष्यामि वसुधातलम्

1.21.12

दिवास्तु सन्निवेशं वै सांप्रतैरेव कृत्स्नशः ।
शतार्द्धकोटिविस्तारा पृथिवी कृत्स्नशः स्मृता

1.21.13

तस्या ऊर्द्ध्वप्रमाणेन मेरोर्यावत्तु संस्थितिः ।
पृथिव्या ह्यर्द्धविस्तारो योजनाग्रात्प्रकीर्त्तितः

1.21.14

मेरोर्मध्यात्प्रतिदिशं कोटिरेका तु सा स्मृता ।
तथा शातसहस्राणामेकोन नवतिः पुनः

1.21.15

पञ्चाशत्तु सहस्राणि पृथिव्यर्द्धस्य मण्डलम् ।
गणितं योजनाग्रात्तु कोट्यस्त्वेकादश स्मृताः

1.21.16

तथा शतसहस्राणि सप्तत्रिंशाधिकानि तु ।
इत्येतदिह संश्यातं पृथिव्यन्तस्य मण्डलम्

1.21.17

तारकासंनिवेशास्य दिवि याव च्च मण्डलम् ।
पर्याससन्निवेशश्च भूमेर्यावत्तु मण्डलम्

1.21.18

पर्यासपरिमाणेन भूमेस्तुल्यं दिवः स्मृतम् ।
सप्तानामपि द्वीपानामेत त्स्थानं प्रकीर्तितम्

1.21.19

पर्यायपरिमाणेन मण्डलानुगतेन च ।
उपर्युपरि लोकानां छत्रवत्परिमण्डलम्

1.21.20

संस्थितिर्विहिता सर्वा येषु तिष्ठन्ति जन्तवः ।
एतदण्डकपालस्य प्रमाणं परिकीर्त्तितम्

1.21.21

अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी ।
भूर्लोकश्च भुवर्ल्लोकस्तृतीयस्सृरिति स्स्वतः

1.21.22

महर्ल्लोको जनश्चैव तपः सत्यं च सप्तमम् ।
एते सप्त कृता लोकाश्छत्राकारा व्यवस्थिताः

1.21.23

स्वकैरावरणैः सूक्ष्मैर्धार्यमाणाः पृथक्पृथक् ।
दशभागाधिकाभिश्च ताभिः प्रकृतिभिर्बहिः

1.21.24

पूर्यमाणा विशेषैश्च समुत्पन्नैः परस्परात् ।
अस्याण्डस्य समन्ताच्च सन्निविष्टो घनोदधिः

1.21.25

पृथिव्या मण्डलं कृत्स्नं घनतोयेन धार्यते ।
घनोदधिः परेणाथ धार्य्यते घनतेजसा

1.21.26

बाह्यतो घनतेजस्च तिर्य्यगूर्द्ध्वं तु मण्डलम् ।
संमताद्धनवातेन धार्यमाणं प्रतिष्ठितम्

1.21.27

घनवातं तथाकाशमाकाशं च महात्मना ।
भूतादिना वृतं सर्वं भूतादिर्महता वृतः

1.21.28

वृतो महाननन्तेन प्रधानेनाव्य यात्मना ।
पुराणि लोकपालानां प्रवक्ष्यामि यथाक्रमम्

1.21.29

ज्योतिर्गुणप्रचारस्य प्रमाणपरिसिद्धये ।
मेरोः प्राच्यां दिशि तथा मानसस्यैव मूर्द्धनि

1.21.30

वस्वौकसारा माहेन्द्री पुरी हेमपरिष्कृता ।
दक्षिणेन पुनर्मेरोर्मानसस्यैव मूर्द्धनि

1.21.31

वैवस्वतो निव सति यमः संयमने पुरे ।
प्रतीच्यां तु पुनर्मेरोर्मानसस्यैव मूर्द्धनि

1.21.32

सुखा नाम पुरी रम्या वरुणस्यापि धीमतः ।
वरुणो यादसां नाथस्सुखाख्ये वसते पुरे

1.21.33

दिश्युत्तरस्यां मेरोस्तु मानसस्यैव मूर्द्धनि ।
तुल्या महेन्द्रपुर्य्यास्तु सोमस्यापि विभावरी

1.21.34

मानसोत्तरवृष्टे तु लोकपालाश्चतुर्दिशम् ।
स्थिता धर्मव्यवस्थार्थ लोकमंरक्षणाय च

1.21.35

लोकपालोपरिष्टात्तु सर्वतो दक्षिणायने ।
काष्ठागतस्य सूर्यस्य गतिया तां निबोधत

1.21.36

दक्षिणो ऽपक्रमे सूर्य्यः क्षिप्तेषुरिव सर्पति ।
ज्योतिषां चक्रमादाय सततं परिगच्छति

1.21.37

मध्यगश्चामरावत्यां यदा भवति भास्करः ।
वैवस्वते संयमते उदयस्तत्र दृश्यते

1.21.38

सुखायामर्द्धरात्रं स्याद्विभायामस्तमेति च ।
वैवस्वते संयमने मध्यगः स्याद्रविर्यदा ।
सुखायामथ वारुण्यामुत्तिष्ठन्स तु दृश्यते

1.21.39

विभाया मर्द्धरात्रं स्यान्माहेन्द्यामस्तमेति च ।
यदा दक्षिणपुर्वेषामपराह्णो विधीयते

1.21.40

दक्षिणापरदेश्यानां पूर्वह्णः परिकी र्त्तितः ।
तेषामपररात्रश्च ये जना उत्तराः परे

1.21.41

देशा उत्तरपूर्वा ये पूवरात्रस्तु तान्प्रति ।
एवमेवोत्तरेष्वर् के भुवनेषु विराजते

1.21.42

सुखायासथ वारुण्यां मध्याह्ने चार्यमा यदा ।
विभायां सोमपुर्यां वा उत्तिष्ठति विभावसुः

1.21.43

रात्र्यर्द्ध चामरावत्यामस्तमेति यमस्य च ।
सोमपुर्या विभायां तु मध्याह्ने स्याद्दिवाकरः

1.21.44

महेद्रस्यामरावत्यां सूर्य उत्तिष्ठते तदा ।
अर्द्धरात्रं संयमने वारुण्यामस्तमेति च

1.21.45

स शीघ्रमेव पर्येति भास्करो ऽलातच त्रवत् ।
भ्रमन्वै भ्रममार्णानि ऋक्षाणि चरते रविः

1.21.46

एवं चतुर्षु पार्श्वेषु दक्षिणां तेन सर्पति ।
उदयास्तमने चासावृत्ति ष्ठति पुनः पुनः

1.21.47

पूवाह्णे चापराह्णे च द्वौ द्वौ देवालयौ तु सः ।
तपत्यर्कश्च मध्याह्ने तैरेव च स्वरश्मिभिः

1.21.48

उदितो वर्द्धमानाभिरामध्याह्नं तपन्रविः ।
अतः परं ह्रसंतीभिर्गोभिरस्तं निगच्छति

1.21.49

उदयास्तमयाभ्यां च स्मृते पूर्वापरे दिशौ ।
यावत्पुरस्तात्तपति तापत्पृष्ठे ऽथ पार्श्वयोः

1.21.50

यत्रोद्यन्दृश्यते सूर्यस्तेषां स उदयः समृतः ।
प्रणाशं गच्छते यत्र तेषामस्तः स उच्यते

1.21.51

सर्वेषामुत्तरे मेरुलोङ्कालोकश्च दक्षिणे ।
विदूरभावादर्कस्य भूमिलेखावृतस्य च

1.21.52

लीयन्ते रश्मयो यस्मात्तेन रात्रौ न दृश्यते ।
ग्रहनक्षत्रसोमानां दर्शनं भास्करस्य च

1.21.53

उच्ध्रयस्य प्रमाणेन ज्ञेयमस्तमथोदयम् ।
शुक्लच्छायो ऽग्निरा पश्च कृष्णच्छाया च मेदिनी

1.21.54

विदूरभावादर्कस्य ह्युद्यते ऽपि विरशिमता ।
रक्तभावो विरश्मत्वाद्रक्तत्वाच्जाप्यनुष्णता

1.21.55

लेखायामास्थितः सूर्यो यत्र यत्र च दृश्यते ।
ऊर्द्ध्व शातसहस्र तु योजनानां स दृश्यते

1.21.56

प्रभा हि सौरी पादेन ह्यस्तं गच्छति भास्करे ।
अग्निमाविशते राद्रौ तस्माद्दूरात्प्रकाशते

1.21.57

उदिते हि पुनः सूर्ये ह्यौष्ण्यमाग्नेयमाविशेत् ।
संयुक्तो वह्निना सूर्यस्तपते तु ततो दिवा

1.21.58

प्राकाश्यं च तथौष्ण्यं च सौराग्नेये च तेजसी ।
परस्परानुप्रवेशाद्दीप्येते तु दिवानिशम्

1.21.59

उत्तरे चैव भूम्यर्द्धे तथा तस्मिंश्च दक्षिणे ।
उत्तिष्ठति तथा सूर्ये रात्रिराविशतत्वपः

1.21.60

तस्माच्छीता भक्त्यांपो दिवारात्रिप्रवेशनात् ।
अस्तं याति पुनः सूर्ये दिनमाविशते त्वषः

1.21.61

तस्मादुष्णा भवत्यापो नक्तमह्नः प्रवेशनात् ।
एतेन क्रमयोगेन भूम्यर्द्धे दक्षिणोत्तरे

1.21.62

उदयास्तमनेर्ऽकस्य अहोरात्रं विशत्यपः ।
देनं सूर्यप्रकाशाख्यं तामसी रात्रिरूच्यते

1.21.63

तस्माद्व्यवस्थिता रात्रिः सूर्यापेक्षमहः स्मृतम् ।
एवं पुष्करमध्येन यदा सर्पति भास्करः

1.21.64

अंशांशकं तु मेदिन्यां मुहूर्त्तेनैव गच्छति ।
योजनाग्रान्मुहूर्त्तस्य इह संख्यां निबोधत

1.21.65

पूर्णे शतसहस्राणामेकत्रिंशाधिकं स्मृतम् ।
पञ्चाशत्तु तथान्यानि सहस्राण्यधिकानि च

1.21.66

मौहूर्त्ति की गतिर्ह्येषा सूर्यस्य तु विधीयते ।
एतेन गतियोगेन यदा काष्ठां तु दक्षिणाम्

1.21.67

पर्यागच्छेत्पतङ्गो ऽसौ मध्ये काष्ठान्तमेव हि ।
मध्येन पुष्करस्याथ भ्रमते दक्षिणायने

1.21.68

मानसोत्तरशैले तु अन्तरे विषुवं च तत् ।
सर्पते दक्षिणायां तु काष्ठायां वै निबोधत

1.21.69

नवकोट्यः प्रसंख्याता योजनैः परिमण्डलम् ।
तथा शतसहस्राणि चत्वारिंशच्च पञ्च च

1.21.70

अहोरात्रात्पतङ्गस्य गतिरेषा विधीयते ।
दक्षिणाद्विनिवृत्तो ऽसौ विषुवस्थो यदा रविः

1.21.71

क्षीरोदस्य समुद्रस्योत्तरतश्चाद्रितश्चरन् ।
मण्डलं विषुवत्तस्य योजनैस्तन्निबोधत

1.21.72

तिस्रः कोट्यस्तु संख्याता विषुवस्यापि मण्डलम् ।
तथा शतसहस्राणामशीत्येकाधिका पुनः

1.21.73

श्रवणे चोत्तरषाढे चित्रभानुर्यदा भवेत् ।
शाकद्वीपस्य षष्ठस्य उत्तरातो दिशश्चरन्

1.21.74

उतरायाः प्रमाणं च काष्ठाया मण्डलस्य च ।
योजनाग्रात्प्रसंख्याता कोटिरेका तु स द्विजाः

1.21.75

अशीतिर्नियुतानीह योजनानां तथैव च ।
अष्टपञ्चाशतं चव योजनान्यधिकानि तु

1.21.76

नागवीथ्युत्तरावीथी ह्यज वीथी च दक्षिणा ।
मूलं चैव तथाषाढे त्वजवीथ्युदयास्त्रयः

1.21.77

अश्विनी कृत्तिका याम्यं नागवीथ्युदयास्त्रयः ।
काष्ठयोरन्तरं यच्च तद्वक्ष्येयजनैः पुनः

1.21.78

एतच्छतसहस्राणामष्टाभिश्चोत्तरं शतम् ।
त्रयः शताधिकाश्चन्ये त्रयस्त्रिंशच्च योजनैः

1.21.79

काष्ठयोरन्तरं ह्येतद्योजनाग्रात्प्रकीर्तितम् ।
काष्ठयोर्लेखयोश्चैव ह्यन्तरं दक्षिणोत्तरे

1.21.80

तेन्ववक्ष्ये प्रसंख्याय चोजनैस्तन्निबोधत ।
एकैकमन्तरं तस्य वियुतान्येकसप्ततिः

1.21.81

सहस्राण्यतिरिक्ताश्च ततो ऽन्या पञ्चसप्ततिः ।
लेखयोः काष्ठयोश्चैव बाह्याभ्यन्तरयोः स्मृतम्

1.21.82

अभ्यन्तरं तु पर्येति मण्डलान्युत्तरायणे ।
बाह्यतो दक्षिणे चैव सततं तु यथाक्रमम्

1.21.83

मण्डलानां शतं पूर्मं त्र्यशीत्यधिकमुत्तरम् ।
चरते दक्षिणे चापि तावदेव विभावसुः

1.21.84

प्रमाणं मण्डलस्याथ योजनाग्रं निबोधत ।
योजनानां सहस्राणि सप्तादश समासतः

1.21.85

शते द्वे पुनरप्यन्ये योजनामां प्रकीर्त्तिते ।
एकविंशतिभिश्चैव योजनैरधिकैर्हि ते

1.21.86

एतत्प्रमाणमाख्यातं योजनैर्मण्डलस्य च ।
विष्कंभो मण्डलस्याथ तिर्यक् स तु विधीयते

1.21.87

प्रत्यहं चरते तानि सूर्या वै मण्डलक्रमात् ।
कुलालचक्रपर्यन्तो यथा शीघ्रं निवर्त्तते

1.21.88

दक्षिणप्रक्रमे सूर्यस्तथा शीघ्रं प्रवर्त्तते ।
तस्मात्प्रकृष्टां भूमिं तु कालेनाल्पेन गच्छति

1.21.89

सूर्यो द्वादशभिः शैर्घ्यान्मुहूर्तैर्दक्षिणायने ।
त्रयोदशार्द्धमृक्षाणामह्ना तु चरते रविः

1.21.90

मुहूर्तै स्तावदृक्षाणि नक्तमष्टादशैश्चरन् ।
कुलालचक्रमध्ये तु यथा मन्दं प्रसर्पति

1.21.91

तथोदगयने सूर्यः सर्पते मन्दविक्रमः ।
तस्मा द्दीर्घेन कालेन भूमिं स्वल्पानि गच्छति

1.21.92

अष्टादश मुहूर्त तु उत्तरायणपश्चिमम् ।
अहो भवति तच्चापि चरते मन्दविक्रमः

1.21.93

त्रयोदशार्द्धं माद्येन त्वृक्षाणां चरते रविः ।
मुहूर्तैस्तावदृक्षाणि नक्तं द्वादशभिश्चरन्

1.21.94

ततो मन्दतरं नाभ्यां चक्रं भ्रमति वै यथा ।
मृत्पिण्ड इव मध्यस्थो ध्रुवो भ्रमति वै तथा

1.21.95

त्रिंशन्मुहूर्तानेवाहुरहोरात्रं ध्रुवो भ्रमन् ।
उभयोः काष्ठयोर्मध्ये भ्रमते मण्डलानि तु

1.21.96

कुलालचक्रनाभिश्च यथा तत्रैव वर्त्तते ।
ध्रुवस्तथा हि विज्ञेयस्तत्रैव परीवर्त्तते

1.21.97

उभयोः काष्ठयोर्मध्ये भ्रमते मण्डलानि सः ।
दिवानक्तं च सूर्यस्य मन्दा शीघ्रा च वै गातिः

1.21.98

उत्तरप्रक्रमे चापि दिवा मन्दा गतिस्तथा ।
तथैव च पुनर्नक्तं शीघ्रा सूर्यस्य वै गातिः

1.21.99

दक्षिणप्रक्रमेणैव दिवा शीघ्रं विधीयते ।
गतिः सूर्यस्य नक्तं च मन्दा चैव गतिस्तथा

1.21.100

एवं गतिविशेषेण विभजन् रात्र्यहानि तु ।
तजापि संचरन्मार्गं समेन विषमेण च

1.21.101

लोकालोकस्थिता ह्येते लोकपालाश्चतुर्दिशम् ।
अगस्त्यश्चरते तेषामुपरिष्टाज्जवेन तु

1.21.102

भुञ्जन्नसापहोरा त्रमेवं गतिविशेषणम् ।
दक्षिणे नागवीथ्यास्तु लोकालोकस्य चोत्तरे

1.21.103

लोकसन्तानको ह्येष वैश्वानरपथाद्वहिः ।
पृष्टे यावत्प्रभा सौरी पुरस्तात्संप्रकाशते

1.21.104

पार्श्वतः पृष्ठतश्चैव लोकालोकस्य वर्त्तते ।
योजनानां सहस्राणि दशकं तुच्छ्रितो गिरिः

1.21.105

प्रकाशश्चाप्रकाशश्च सर्वतः परिमण्डलः ।
नक्षत्रचन्द्रसूर्यश्च ग्रहैस्तारागणैः सह

1.21.106

अभ्यन्तरं प्रकाशन्ते लोकालोकस्य वै गिरेः ।
एतावानेव लोकस्तु निरालोकस्ततः परम्

1.21.107

लोकेनालोकवानेष निरालोकस्त्वलोकतः ।
लोकालोकं तु संधत्ते यस्मात्सुर्यपरिग्रहम्

1.21.108

तस्मात्सन्ध्येति तामाहुरुषाव्युष्ट्योर्यदन्तरम् ।
उषा रात्रिः स्मृता विप्रैर्व्युष्टिश्चापि त्वहः स्मृतम्

1.21.109

सूर्याग्निग्रसमानानां संध्याकाले हि रक्षसाम् ।
प्रजापतिनियोगेन शापस्त्वेषां दुरात्मनाम्

1.21.110

अक्षयत्वं तु देहस्य प्रापिताम्रणं तथा ।
तिस्रः कोट्यस्तु विख्याता मन्देहा नाम राक्षसाः

1.21.111

प्रार्थयन्ति सहस्रांशुभुदयन्तं दिनेदिने ।
तापयन्तं दुरात्मानः सूर्यमिच्छन्ति खादितुम्

1.21.112

अथ सूर्यस्य तेषां च युद्धमासीत्सुदारुणम् ।
ततो ब्रह्मा च देवाश्च ब्राह्ममाश्चैव सत्तमाः

1.21.113

संध्यां तु समुपासीनाः प्रक्षिपन्ति जलं सदा ।
ओङ्कारब्रह्मसंयुक्तं गायत्र्या चाभिमन्त्रितम्

1.21.114

स्फूर्जज्ज्योतिश्च चण्डांशुस्तथा दीप्यति भास्करः ।
ततः पुनर्महातेजा महाबलपराक्रमः

1.21.115

योजनानां सहस्राणि ऊर्द्ध्वमुत्तिष्ठते शतम् ।
प्रयाति भगवानाशु ब्राह्मणैरभिरक्षितः ।
वालखिल्यैश्च मुनिभिर्धृतार्चिः समरीचिभिः

1.21.116

काष्ठा निमेषा दश पञ्च चैव त्रिंशच्च काष्ठा गणयेत्कलां तु ।
त्रिंशत्कलाश्चापि भवेन्मुहूर्त्तस्तैस्त्रिंशता रात्र्यहनी समेते

1.21.117

ह्रासवृद्धी त्वहर्भागैर्दिवसानां यथाक्रमात्

1.21.118

संध्या मुहूर्त्तमात्रा तु ह्रासवृद्धिस्तु सा स्मृता ।
लेखाप्रभृत्यथादित्ये त्रिमुहूर्त्तगते तु वै

1.21.119

प्रातस्ततः स्मृतः कालो भागश्चाह्नः स पञ्चमः ।
तस्मात्प्रातस्तनात्कालात्र्रिमुहूर्त्तस्तु संगवः

1.21.120

मध्याह्नस्त्रिमुहूर्त्तस्तु तस्मात्कालश्च संगवात् ।
तस्मान्मध्यन्दिनात्कालादपराह्ण इति स्मृतः

1.21.121

त्रय एव मुहूर्त्तास्तु कालागः स्मृतो बुधैः ।
अपराह्णे व्यतीते तु कालः सायाह्न उच्यते

1.21.122

दशपञ्च मुहूर्ताह्नो मुहूर्त्तास्त्रय एव च ।
दशपञ्चमुहूर्त्त वै ह्यहर्वैषुवतं स्मृतम्

1.21.123

वर्द्धन्ते च ह्रसंते च ह्ययने दक्षिणोत्तरे ।
अहस्तु ग्रसते रात्रिं रात्रिश्च ग्रसते त्वहः

1.21.124

शरद्वसंतयोर्मध्यं विषुवत्परिभाव्यते ।
अहोरात्रे कलाश्चैव समं सोमः समश्नुते

1.21.125

तथा पञ्चदशाहानि पक्ष इत्यभिधीयते ।
द्वौच पक्षौभवेन्मासो द्वौमासावर्कजावृतुः

1.21.126

ऋतुत्रितयमयने द्वे हि वर्षं तु सौरकम् ।
निमेषा विद्युतश्चैव काष्टास्ता दश पञ्च च

1.21.127

कलास्तास्त्रिशतः काष्ठा मात्रा शीतिद्वयात्मिका ।
सप्तैका द्व्यधिका त्रिशन्मात्रा षटत्रिंशदुत्तरा

1.21.128

द्विषाष्टिना त्रयोविंशन्मात्रायाश्च कला भवेत् ।
चत्वारि शत्सहस्राणि शतान्यष्टौ च विद्युतः

1.21.129

सप्ततिश्चैव तत्रापि नवतिं विद्धि निश्चये ।
चत्वार्येव शतान्याहुर्विद्युते द्वे च संयुते

1.21.130

वरांशो ह्येष विज्ञेयो नाडिका चात्र कारणम् ।
संवत्सरादयः पञ्च चतुर्मानविकल्पिताः

1.21.131

निश्चयः सर्वकालस्य युगमित्यभिधीयते ।
संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः

1.21.132

इडावत्सरस्तृतीयस्तु चतुर्थश्चानुवत्सरः ।
पञ्चमोवत्सरस्तेषां कालस्तु युगसंहितः

1.21.133

त्रिंशच्छतं भवेत्पूर्णं पर्वणां तु रवेर्युगे ।
शतान्यष्टादश त्रिंशदुदयाद्भास्करस्य च

1.21.134

ऋतवस्त्रिंशतः सौरादयनानि दशैव तु ।
पञ्च च त्रिशतं चापि षष्टिवर्षं च भास्करम्

1.21.135

त्रिशदेव त्वहोरात्रास्तैस्तु मासस्तु भास्करः ।
एकषष्टि त्वहोरात्रमृतुरेको विभाव्यते

1.21.136

अह्नां तु त्र्यधिकाशीतिः शतं चाप्यधिकं भवेत् ।
मानं तच्चित्रभानोस्तु विज्ञेयमयनस्य ह

1.21.137

सौरं सौम्यं तु विज्ञेयं नाक्षत्रं सावनं तथा ।
मानान्येतानि चत्वारि यैःपुराणे हि निश्चयः

1.21.138

यः श्वेतस्योत्तरश्चैव शृङ्गवान्नाम पर्व्वतः ।
त्रीणितस्य तु शृङ्गाणि स्पृशन्तीव नभस्तलम्

1.21.139

तैश्चापि शृङ्गैस्सनगः शृङ्गवा निति कथ्यते ।
एकश्च मार्गविष्कंभविस्तारश्चास्य कीर्तितः

1.21.140

तस्य वै पूर्वतः शृङ्गं मध्यमं तद्धिरण्मयम् ।
दक्षिणं राजतं चैव शृङ्गं तु स्फटिकप्रभम्

1.21.141

सर्वरत्नमयं चैव शृङ्गमुत्तरमुत्तमम् ।
एवं कूटैस्त्रिभिः शैलः शृङ्गवानिति विश्रुतः

1.21.142

यत्तद्वै पूर्वतः शृङ्गं तदर्कः प्रतिपद्यते ।
शरद्वसंतयोर्मध्ये मध्यमां गतिमास्थितः

1.21.143

अतस्तुल्यमहोरात्रं करोति तिमिरा पहः ।
हरिताश्च हया दिव्यास्तस्य युक्ता महारथे ।
अनुलिप्ता इवाभान्ति पद्मरक्तैर्गभस्तिभिः

1.21.144

मेषति च तुलान्ते च भास्करोदयतः स्मृताः ।
मुहूर्त्ता दश पञ्चैव अहो रात्रिश्च तावती

1.21.145

कृत्तिकानां यदा सूर्यः प्रथमां शगतो भवेत् ।
विशाखानां तदा ज्ञेयश्चतुर्थांश निशाकरः

1.21.146

विशाखानां यदा सूर्यश्चरतेंशं तृतीयकम् ।
तदा चन्द्रं विजानीयात्कृत्तिकाशिरसि स्थितम्

1.21.147

विषुवं तं विजानीयादेवमाहुर्महर्षयः

1.21.148

सूर्येण विषुवं विद्या त्कालं सोमेन लक्षयेत् ।
समा रात्रिरहश्चैव यदा तद्विषुवं भवेत्

1.21.149

तदा दानानि देयानि पितृभ्यो विषुवेषु च ।
ब्राह्मणेभ्यो विशेषेण मुखमेतत्तु दैवतम्

1.21.150

ऊनमासाधिमासौ च कला काष्ठा मुहूर्त्तकाः ।
पौर्णमासी तथा ज्ञेया अमावास्या तथैव च ।
सिनीवाली कुहूश्चैव राका चानुमतिस्तथा

1.21.151

तपस्तपस्यौ मदुमाधवौ च शुक्रःशुचिश्चायनमुत्तरं स्यात् ।
नभोनभस्याविषऊर्जसंज्ञौ सहःसहस्याविति दक्षिणं स्यात्

1.21.152

आर्तवाश्च ततो ज्ञेया पञ्चाब्दा ब्रह्मणाः सुताः

1.21.153

तस्माच्च ऋतवो ज्ञेया ऋतुभ्यो ह्यार्त्तवाः स्मृताः ।
तस्मादृतुमुखी ज्ञेया अमावास्यास्य पर्वणः

1.21.154

तस्मात्तु विषुवं ज्ञेयं पितृदेवहितं सदा ।
पर्व ज्ञात्वा न मुह्येत पित्र्ये दैवे च मानवः

1.21.155

तस्मात्स्मृतं प्रचानां वै विषुवत्सर्वगं सदा ।
आलोकात्तु स्मृतो लोको लोकालोकः स उच्यते

1.21.156

लोकपालाः स्थितास्तत्र लोकालोकस्य मध्यतः ।
चत्वारस्ते महात्मानस्तिष्टन्त्याभूतसंप्लवात्

1.21.157

सुधामा चैव वैराजः कर्दमः शङ्खपास्तथा ।
हिरण्यरोमा पर्जन्यः केतुमान्राजसश्च यः

1.21.158

निर्द्वन्द्वा निरभीमाना निः सीमा निष्परिग्रहाः ।
लोकपालाः स्थिता ह्येते लोकालोके चतुर्दिशम्

1.21.159

उत्तरं यदपस्तस्य ह्यजवीथ्याश्च दक्षिणाम् ।
पितृयानः स वै पन्था वैश्वानरपथाद्वहिः

1.21.160

तत्रासते प्रजावन्तो मुनयो ये ऽग्निहोत्रिणः ।
लोकस्य संतानकराः पितृयानपथे स्थिताः

1.21.161

भूतारंभकृतं कर्म आशिषो ऋत्विगुद्यताः ।
प्रारभन्ते लोककामास्तेषां पन्थाः स दक्षिणाः

1.21.162

चलितं ते पुनर्धर्मं स्थापयन्ति युगेयुगे ।
संतप्तास्तपसा चैव मर्यादाभिः श्रुतेन च

1.21.163

जायमानास्तु पूर्वे वै पश्चिमानां गृहे ष्विह ।
पश्चिमाश्चैव पूर्वेषां जायन्ते निधनेष्वपि

1.21.164

एवमावर्त्तमानास्ते तिष्ठन्त्याभूतसंप्लवात् ।
अष्टाशीतिसहस्राणि ऋषीमाङ्गृहमेधिनाम्

1.21.165

सवितुर्दक्षिणं मार्गश्रिता ह्याचन्द्रतारकम् ।
क्रियावतां प्रसंख्यैषा ये श्मशानानि भेजिरे

1.21.166

लोकसंव्यवहाराश्च भूतारंभकृतेन च ।
इच्छाद्वेषप्रवृत्त्या च मैथुनोपगमेन वै

1.21.167

तथा कामकृतेनेह सेवनाद्विषयस्य च ।
एतैस्तैः कारणैः सिद्धा ये श्मशानानि भेजिरे

1.21.168

प्रचैषिणस्ते मुनयो द्वापरेष्विह जज्ञिरे ।
नागवीथ्युत्तरो यश्च सप्तर्षिगणदक्षिणः

1.21.169

उत्तरः सवितुः पन्था देवयानश्च स स्मृतः ।
यत्र ते वासिनः सिद्धा विमला ब्रह्मचारिणः

1.21.170

संततिं ते जुगुप्संते तस्मान्मृत्युस्तु तैर्जितः ।
अष्टाशीतिसहस्राणि ऋषीणामूर्द्ध्वरेतसाम्

1.21.171

उदक्पन्थानमत्यर्थं श्रिता ह्याश्रितसंप्लवात् ।
ते संप्रयोगाल्लोकस्य मैथुनस्य च वर्जनात्

1.21.172

इच्छाद्वेषनिवृत्त्या च भूतारंभविवर्जनात् ।
पुनश्चाकामसंयोगाच्छब्दादेर्देषदर् शनात्

1.21.173

इत्येतैः कारणैः सिद्धास्ते ऽमृतत्वं हि भेजिरे ।
आभूतसंप्लवस्थानाममृतत्वं विभाव्यते

1.21.174

त्रैलोक्यस्थिति कालाय पुनर्दाराभिगमिनाम् ।
ब्रूणहत्याश्वमेधाभ्यां पुण्यपापकृतो ऽपरे

1.21.175

आभूतसंप्लवान्ते तु क्षीयं ते ह्यूर्ध्वरेतसः ।
उर्द्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्र स वै स्मृतः

1.21.176

एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भास्वरम् ।
यत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम् ।
धर्मध्रुवाद्यास्तिष्ठन्ति यत्र ते लोकसाधकाः

मूल पाठ: Brahmāṇḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc