ब्रह्माण्ड पुराण · अध्याय 1.20
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपादे प्लक्षादिद्वीपवर्णनं नामैकोनविंशतितमो ऽध्यायः
सूत उवाच
अधःप्रमाणमूर्द्ध्व च वक्ष्यमाणं निबोधत ।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
अनन्ता धातवो ह्येतं व्यापकास्तु प्रकीर्त्तिताः ।
जननी सर्वभूतानां सर्वसत्त्वधरा धरा
नानाजनपदाकीर्णा नानाधिष्ठानपत्तना ।
नानानदनदीशैला नैकजातिसमाकुला
अनन्ता गीयते देवी पृथिवी बहुविस्तरा ।
नदीनदससुद्रस्थास्तन्था क्षुद्राश्रयस्थिताः
पर्वताकाशसंस्थाश्च अन्तर्भूमिगाताश्च याः ।
आपो ऽनन्ता हि विज्ञेयास्तथाग्निः सर्वलोकगः
अनन्तः पठ्यते चैव व्यापकः सर्वसंभवः ।
तथाकाशमनालेख्यं रम्यं नानाश्रयं स्मृतम्
अनन्तं पठ्यते चैव वायुश्चाकाशसम्भवः ।
आपः पृथिव्यामुदके पृथिव्युपरि संस्थिताः
आकाशश्चापरमथ पुनर्भूमिः पुनर्जलम् ।
एवं मतमनन्तस्य भौतिकस्य न विद्यते
परस्परैः सोपचिता भूमिश्चैव निबोधत ।
भूमिर्जलमथा काशमिति या या परंपरा
स्थितिरेषा तु विख्याता सप्तमे ऽस्मिन्नसातले ।
दशयोजनसाहस्रमेकं भौमं रसातलम्
साधुभिः परिसंख्यातमेकैकेनैव विस्तरम् ।
प्रथमं तत्वलं नाम सुतलं तु ततः परम्
ततस्तलातलं विद्यादतलं बहुविस्तरम् ।
ततोर्ऽवाक्च तलं नाम परतश्च रसातलम्
एतेषामप्यधोभागे पातालं सप्तमं स्मृतम् ।
कृष्णभौमश्च प्रथमो भूमिभागः प्रकीर्त्तितः
पाण्डुभूमिर्द्वितीयस्तु तृतीयो नीलमृत्तिकः ।
पीतभौमश्चतुर्थस्तु पञ्चमः शर्करामयः
षष्ठः शिलामयो ज्ञेयः सौवर्णः सप्तमः स्मृतः ।
प्रथमे ऽस्मिंस्तले ख्यातमसुरेद्रस्य मन्दिरम्
नमुचेरिन्द्रशत्रोश्च महानादस्य चालयम् ।
पुरं च शङ्कुकर्णस्य कबन्धस्य च मन्दिरम्
निष्कुलादस्य च पुरं प्रहृष्टजनसंकुलम् ।
राक्षसस्य च भीमस्य शूलदन्तस्य चालयम्
लोहिताक्षकलिङ्गानां नगरं श्वापदस्य च ।
धनञ्जयस्य च पुरं नागेन्द्रस्य महात्मनः
कालियस्य च नागस्य नगरं कौशिकस्य च ।
एवं पुरसहस्राणि नागदानवरक्षसाम्
तले ज्ञेयानि प्रथमे कृष्णभौमे न संशयः ।
द्वितीये सुतले विप्रा दैत्येन्द्रस्य च रक्षसः
महाजंभस्य तु तथा नगरं प्रथमस्य तु ।
इयग्रीवस्य कृष्णस्य निकुम्भस्य च मन्दिरम्
शङ्खख्यस्य च दैत्यस्य नगरं गोमुखस्य च ।
राक्षसस्य च नीलस्य मेघस्य कथनस्य च
आलयं कुकुपादस्य महोष्णीषस्य चालयम् ।
कंबलस्य च नागस्य पुरमश्वतरस्य च
कद्रूपुत्रस्य च पुरं तक्षकस्य महात्मनः ।
एवं पुरसहस्राणि नागदानवरक्षसाम्
द्वितीये ऽस्मिन् तले विप्राः पाण्डुभौमे न संशयः ।
तृतीये तु तले ख्यातं प्रह्लादस्य महात्मनः
अनुद्रादस्य च पुरं पुरमग्निमुखस्य च ।
तारकाश्यस्य च पुरं पुरं त्रिशिरसस्तथा
शिशुमारस्य च पुरं त्रिपुरस्य तथा पुरम् ।
पुरञ्जनस्य दैत्यस्य हृष्टपुष्टजनाकुलम्
च्यवनस्य तु विज्ञेयं राक्षसस्य च मन्दिरम् ।
राक्षसेंद्रस्य च पुरं कुम्भिलस्य खरस्य च
विराधस्य च क्रूरस्य पुरमुल्कासुखस्य च ।
हेमकस्य च नागस्य तथा पाण्डुरकस्य च
मणिनागस्य च पुरं कपिलस्य च मन्दिरम् ।
नेदकस्योरगपतोर्विशालाक्षस्य मन्दिरम्
एवं पुरसहस्राणि नागदानवरक्षसाम् ।
तृतीये ऽस्मिंस्तले विप्रा नीलभौमे न संशयः
चतुर्थे दैत्यसिंहस्य कालनेमेर्महात्मनः ।
गजकर्णस्य च पुरं नगरं कुञ्जरस्य च
राक्षसेंद्रस्य च पुरं सुमालेर्बहुविस्तरम् ।
मुञ्जस्य लोकनाथस्य वृकवक्त्रस्य चालयम्
बहुयोजनविस्तीर्णं बहुपक्षिसमाकुलम् ।
नगलं वैनतेयस्य चतुर्थे ऽस्मिन्नसातले
पञ्चमे शर्कराभौमे बहुयोजनविस्तरम् ।
विरोजनस्य नगरं दैत्यसिंहस्य धीमतः
वैद्युतस्याग्निजि ह्वस्य हिरण्याक्षस्य चालयम् ।
पुरं च विद्युज्जिह्वस्य राक्षसेन्द्रस्य धीमतः
सहामेघस्य च पुरं राक्षसेंद्रस्य मालिनः ।
किर्मीरस्य च नागस्य स्वस्तिकस्य जयस्य च
एवं पुरसहस्राणि नागदानवरक्षसाम् ।
पञ्चमे ऽस्मिंस्तले ज्ञेयं शर्करानिचये सदा
षष्ठे तले दैत्यपतेः केसरे नगरोत्तमम् ।
सुपर्वणः पुलोम्नश्च नगरं महिषस्य च
राक्षसेंद्रस्य च पुरं सुरोषस्य महात्मनः ।
तत्रास्ते सुरमापुत्रः शतशीर्षो मुदा युतः
महेन्द्रस्य सखा श्रीमान्वासुकिनाम नागराट् ।
एवं पुरसहस्राणि नागदानवरक्षसाम्
षष्ठे तले ऽस्मिन्विख्याते शिलाभौमे रसातले ।
सप्तमे तु तले ज्ञेयं पाताले सर्वपश्चिमे
पुरं बलेः प्रमुदितं नरना रीगणाकुलम् ।
असुराशीविषैः पूर्णं सुखितैर्देवशत्रुभिः
मुचुकुन्दस्य देत्यस्य तत्रैव नगरं महात् ।
अनेकैर्दितिपुत्राणां समुदीर्णैर्महापुरैः
तथैव नागनगरैर्द्युतिमद्भिः सहस्रशः ।
दैत्यानां दानवानां च समुदीर्णैर्महापुरैः
उदीर्णै राक्षसावासैरनेकैश्च समाकुलम् ।
पातालान्ते च विप्रेन्द्रा विस्तीण बहुयोजने
आस्ते रक्तारविन्दाक्षो महात्मा ह्यजरामरः ।
धौतशङ्खोदरवपुर्नील वासा महाबलः
विशालभोगो द्युतिमांश्चित्रमाल्यधरो बली ।
रुक्मशृङ्गावदातेन दीप्तास्येन विराजता
प्रभुर्मुख सहस्रेण शोभते चैककुण्डली ।
स जिह्वामालया दीप्तो लोलज्ज्वालानलार्चिषा
ज्वालामालापरिक्षिप्तः कैलास इव लक्ष्य ते ।
स तु नेत्रसहस्रेण द्विगुणेन विराजता
बालसूर्याभिताम्रेण शरीरस्निग्धपाण्डुना ।
तस्य कुन्देन्दुवर्णस्य नेत्रमाला विराजते
तरुणादित्यमालेव श्वेतपर्वतमूर्द्धनि ।
विकरालोच्छ्रिततनुर्लक्ष्यते शयनासने
विस्तीर्ण इव मेदिन्यां सहस्रशिखरो गिरिः ।
महानागैर्महाभोगैर्महाविज्ञैर्महात्मभिः
उपास्यते महातेजा महानागपतिः स्वयम् ।
स राजा सर्वनागानां शेषो ऽनन्तो महाद्युतिः
सा वैष्णवी व्यवहृतिर्मर्यादा या व्यवस्थिता ।
सप्तैवमेते कथिता व्यवहार्या रसातलाः
देवासुरम हानागराक्षसाध्युषिताः सदा ।
अतः परमनालोकमगम्यं सिद्धसाधुभिः
देवानामप्यविदितं व्यवहारविवक्षया ।
पृथ्व्यंबुव ङ्निवायूनां नभसश्च द्विजोत्तमाः
महत्त्वमृषिभिश्चैवं वर्ण्यते नात्र संशयः ।
अत ऊर्द्ध्वं प्रवक्ष्यामि सूर्याचन्द्रमसोर्गतिम्
मूल पाठ: Brahmāṇḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0