भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्माण्ड पुराण · अध्याय 1.19

1.19.1

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपादे जम्बूद्वीपवर्णनं नामाष्टादशो ऽध्यायः
सूत उवाच
प्लक्षद्वीपं प्रवक्ष्यामि यथावदिह संग्रहात् ।
शृणुतेमं यथातत्त्वं ब्रुवतो मे द्विजोत्तमाः

1.19.2

जंबूद्वीपस्य विस्ताराद्द्विगुणास्तस्य विस्तरः ।
विस्तराद्द्विगुणश्चास्य परिणाहः समन्ततः

1.19.3

तेनावृतः समुद्रो वै द्वीपेन लवणोदकः ।
तत्र पुण्या जनपदाश्चिरान्न म्रियते जनः

1.19.4

कृत एव च दुर्भिक्षं जराव्याधिभयं कुतः ।
तत्रापि पर्वताः पुण्याः सप्तैव मणिभूषणाः

1.19.5

रत्नाकरास्तथा नद्यस्तासां नामानि च बुवे ।
ब्लक्षद्वीपादिषु त्वेषु सप्त सप्त तु पञ्चसु

1.19.6

ऋज्वायताः प्रतिदिशं निविष्टा वर्षपर्वताः ।
प्लक्षद्वीपे तु वक्ष्यामि सप्तद्वीपान् महा बलान्

1.19.7

गोमेदको ऽत्र प्रथमः पर्वतो मेघसन्निभः ।
ख्यायते यस्य नाम्ना तु वर्षं गोमेदसंज्ञितम्

1.19.8

द्वितीयः पर्वतश्चन्द्रः सर्वौंष धिसमन्वितः ।
अश्विभ्याममृतस्यार्थमोषध्यो यत्र संभृताः

1.19.9

तृतीयो नारदो नाम दुर्गशैलो महोच्चयः ।
तत्राचले समुत्पन्नौ पूर्वं नारदपर्वतौ

1.19.10

चतुर्थस्तत्र वै शैलो दुदुंभिर्न्नाम नामतः ।
छन्दमृत्युः पुरा तस्मिन्दुन्दुभिः सादितः सुरैः

1.19.11

रज्जुदोलोरुकामं यः शाल्मलिश्चासुरान्तकृत् ।
पञ्चमः सोमको नाम देवैर्यत्रामृतं पुरा

1.19.12

संभृतं चाहृतं चैव मातुरर्थे गरुत्मता ।
षष्टस्तु सुमना नाम सप्तमर्षभ उच्यते

1.19.13

हिरण्यक्षो वराहेण तस्मिञ्छैले निषूदितः ।
वैभ्राजः सप्तमस्तत्र भ्राजिष्णुः स्फाटिको महान्

1.19.14

अर्चिर्भिर्भ्राजते यस्माद्वैभ्राजस्तेन संस्मृतः ।
तेषां वर्षाणि वक्ष्यामि नामतस्तु यथाक्रमम्

1.19.15

गोमेदं प्रथमं वर्षं नाम्नाशान्तभयं स्मृतम् ।
चन्द्रस्य शिशिरं नाम नारदस्य सुखोदयम्

1.19.16

आनन्दं दुन्दुभेर्वर्षं सोमकस्यशिवं स्मृतम् ।
क्षेमकं वृषभस्यापि वैभ्राजस्य ध्रुवं तथा

1.19.17

एतेषु देवगन्धर्वाः सिद्धाश्च सह चारणैः ।
विहरन्ति रमन्ते च दृश्यमानाश्च तैः सह

1.19.18

तेषां नद्यस्तु सप्तैव प्रतिवर्षं समुद्रगाः ।
नामतस्ताः प्रवक्ष्यामि सप्तगङ्गास्तपोधनाः

1.19.19

अनुतप्तासुखी चैव विपाशा त्रिदिवा क्रमुः ।
अमृता सुकृता चैव सप्तैताः सरितां वराः

1.19.20

अभिगच्छन्ति ता नद्यस्ताभ्यश्चान्याः सहस्रशः ।
बहूदका ह्योघवत्यो यतो वर्षति वासवः

1.19.21

ताः पिबन्ति सदा हृष्टा नदीजनपदास्तु ते ।
शुभाः शान्तभयाश्चैव प्रमुदं शैशिराः शिवाः

1.19.22

आनन्दाश्च सुखाश्चैव क्षेमकाश्च ध्रुवैः सह ।
वर्णाश्रमाचारयुता प्रजास्तेष्ववधिष्ठिताः

1.19.23

सर्वे त्वरोगाः सुबलाः प्रजाश्चामयव र्जिताः ।
अवसर्पिणी न तेष्वस्ति तथैवोत्सर्पिणी न च

1.19.24

न तत्रास्ति युगावस्था चतुर्युगकृता क्वचित् ।
त्रेतायुगसमः कालः सर्वदा तत्र वर्त्तते

1.19.25

प्लक्षद्वीपादिषु ज्ञेयः पञ्चस्वेतेषु सर्वशः ।
देशस्यानुविधानेन कालस्यानुविधाः स्मृताः

1.19.26

पञ्चवर्षसहस्राणि तेषु जीवन्ति मानवाः ।
सुरूपाश्च सुवेषाश्च ह्यरोगा बलिनस्तथा

1.19.27

सुखमायुर्बलं रुपमारोग्यं धर्म एव च ।
प्लक्षद्वीपादिषु ज्ञेयः शाकद्वीपान्तिकेषु वै

1.19.28

प्रक्षद्वीपः पृथुः श्रीमान्सर्वतो धनधान्यवान् ।
दिव्यौषधिफलोपेतः सर्वौंषधिवनस्पतिः

1.19.29

आवृतः पशुभिः सर्वैर्ग्राम्यारण्यैः सहस्रशः ।
जंबूवृक्षेम संख्यातस्तस्य मध्ये द्विजोत्तमाः

1.19.30

प्लक्षो नाम महावृक्षस्तस्य नाम्ना स उच्यते ।
स तत्र पूज्यते स्थाने मध्ये जनपदस्य ह

1.19.31

स चापीक्षुरसोदेन प्रक्षद्वीपः समावृतः ।
प्लक्षद्वीपसमेनैव वैपुल्यद्विस्तरेण तु

1.19.32

इत्येवं संनिवेशो वः प्लक्षद्वीपस्य कीर्तितः ।
आनुपूर्व्यात्समासेन शाल्मलं तु निबोधत

1.19.33

ततस्तृतीयं वक्ष्यामि शाल्मलं द्वीपसुत्तमम् ।
शाल्मलेन समुद्रस्तु द्वीपेनेक्षुरसोदकः

1.19.34

प्लक्षद्वीपस्य विस्ताराद्द्विगुणेन समावृतः ।
तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः

1.19.35

रत्नाकरास्तथा नद्यस्तेषां वर्षेषु सप्तसु ।
प्रथमः सूर्यसंकाशः कुमुदो नाम पर्वतः

1.19.36

सर्वधातुमयैः शृङ्गैः शिलाजालसमाकुलैः ।
द्वितीयः पर्वतश्चात्र ह्युत्तमो नाम विश्रुतः

1.19.37

हरितालमयैः शृङ्गैर्दिवमावृत्य तिष्ठति ।
तृतियः पर्वतस्तत्र बलाहक इति श्रुतः

1.19.38

जात्यञ्जनमयैः शृङ्गैर्दिवमावृत्य तिष्ठति ।
चतुर्थः पर्वतो द्रोणो यत्र सा वै सहोषधिः

1.19.39

विशल्यकरणी चैव मृतसञ्जीविनी तथा ।
कङ्कस्तु पञ्चमस्तत्र पर्वतः सुमहोदयः

1.19.40

नित्यपुष्पफलोपेतो वृक्षवीरुत्समावृतः ।
षष्ठस्तु पर्वतस्तत्र महिषो मेघसन्निभः

1.19.41

यस्मिन्सो ऽग्निर्निवसति महिषो नाम वारिजः ।
सप्तमः पर्वतस्तत्र ककुद्मान्नाम भाष्यते

1.19.42

तत्र रत्नान्यनेकानि स्वयं रक्षति वासवः ।
प्रजापतिमुपादाय प्रजाभ्यो विधिवत्स्वयम्

1.19.43

इत्येते पर्वताः सप्त शाल्मले मणिभूषणाः ।
तेषां वर्षाणि वक्ष्यामि सर्पैव तु शुभानि वै

1.19.44

कुमुदस्य स्मृतं श्वेतमुत्तमस्य च लोहितम् ।
बलाहकस्य जीमूतं द्रोणस्य हरितं स्मृतम्

1.19.45

कङ्कस्य वैद्युतं नाम महिषस्य च मानसम् ।
ककुदः सुप्रदं नाम सप्तैतानि तु सप्तधा

1.19.46

वर्षाणि पर्वताश्चैव नदीस्तेषु निबोधत ।
ज्योतिः शान्तिस्तथा तुष्टा चन्द्रा शुक्रा विमोचनी

1.19.47

निवृत्तिः सप्तमी तासां प्रतिवर्षं तु ताः स्मृताः ।
तासां समीपगाश्चान्याः शतशो ऽथ सहस्रशः

1.19.48

न संख्यां परिसंख्यातुं शक्नुयात्को ऽपि मानवः ।
इत्येष संनिवेशो वः शाल्मलस्य प्रकीर्त्तितः

1.19.49

प्लक्षवृक्षेण संख्यातस्तस्य मध्ये महा द्रुमः ।
शाल्मलिर्विपुलस्कन्धस्तस्य नाम्ना स उच्यते

1.19.50

शाल्मलस्तु समुद्रेण सुरोदेन समावृतः ।
विस्तराच्छाल्मलस्वैव समे न तु समन्ततः

1.19.51

उत्तरेषु तु धर्मज्ञाद्वीपेषु शृणुत प्रजाः ।
यथाश्रुतं यथान्यायं ब्रुवतो मे निबोधत

1.19.52

कुशद्वीपं प्रवक्ष्यामि चतुर्थं तु समासतः ।
सुरोदकः परिवृतः कुशद्वीपेन सर्वतः

1.19.53

शाल्मलस्य तु विस्ताराद्द्विगुणेन समन्ततः ।
सप्तैव च गिरींस्तत्र वर्ण्यमानान्निबोधत

1.19.54

कुशद्वीपे तु विज्ञेयः पर्वतो विद्रुमश्च यः ।
द्वीपस्य प्रथमस्तस्य द्वितीयो हेमपर्वतः

1.19.55

तृतीयो द्युतिमान्नाम जीमूतसदृशो गिरिः ।
चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः

1.19.56

षष्ठो हरिगिरिर्नाम सप्तमो मन्दरः स्मृतः ।
मन्दा इति ह्यपा नाम मन्दरो दारणादयम्

1.19.57

तेषामन्तरविषकंभो द्विगुणः प्रविभागतः ।
उद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम्

1.19.58

तृतीयं वै रथाकारं चतुर्थं लवणं समृतम् ।
पञ्चमं धृतिमद्वर्षं षष्ठं वर्षं प्रभाकरम्

1.19.59

सप्तमं कपिलं नाम सर्वे ते वर्ष भावकाः ।
एतेषु देवगन्धर्वाः प्रजास्तु जगदीश्वराः

1.19.60

विहरन्ति रमन्ते च हृष्यमाणास्तु सर्वशः ।
न तेषु दस्यवः संति म्लेच्छ जातय एव च

1.19.61

गौरप्रायो जनः सर्वः क्रमाच्च म्रियते तथा ।
तत्रापि नद्यः सप्तैव धूतपापाशिवा तथा

1.19.62

पवित्रा संततिश्चैव विद्युद्दंभा मही तथा ।
अन्यास्ताभ्यो ऽपरिज्ञाताः शतशो ऽथ सहस्रशः

1.19.63

अभिगच्छन्ति ताः सर्वा यतो वर्षति वासवः ।
घृतोदेन कुशद्वीपो बाह्यतः परिवारितः

1.19.64

विज्ञेयः स तु विस्तारात्कुशद्वीपसमेन तु ।
इत्येष सन्निवेशो वः कुशद्वीपस्य कीर्त्तितः

1.19.65

क्रैञ्चद्वीपस्य विस्तारं वक्ष्याम्यहमतः परम् ।
कुशद्वीपस्य विस्ताराद्द्विगुणः स तु वै स्मृतः

1.19.66

घृतोदकसमुद्रो वै क्रैञ्च द्वीपेन संयुतः ।
तस्मिन्द्वीपे नगश्रेष्ठः क्रैञ्चस्तु प्रथमो गिरिः

1.19.67

क्रैञ्चात्परो वामनको वामनादन्धकारकः ।
अन्धकारात्परश्चापि दिवावृन्नाम पर्वतः

1.19.68

दिवावृतः परश्चापि द्विविदो गिरिसत्तमः ।
द्विविदात्परतश्चापि पुण्डरीको महागिरिः

1.19.69

पुण्डरीकात्परश्चापि प्रोच्यते दुन्दुभिस्वनः ।
एते रत्नमयाः सप्त क्रैञ्चद्वीपस्य पर्वताः

1.19.70

बहुपुष्पफलोपेतनानावृक्षलतावृताः ।
परस्परेण द्विगुणा विस्तृता हर्षवर्द्धनाः

1.19.71

वर्षाणि तत्र वक्ष्यामि नामतस्तान्निबोधत ।
क्रैञ्चस्य कुशलो देशो वामनस्य मनोनुगः

1.19.72

मनोनुगात्परश्चोष्णस्तृतीयं वर्षमुच्यते ।
उष्णात्परः पीवरकः पीवरादन्धकारकः

1.19.73

अन्धकारात्परश्चापि मुनिदेशः स्मृतो बुधैः ।
मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः

1.19.74

सिद्धचारणसंकीर्णो गौरप्रयो जनः स्मतः ।
तत्रापि नद्यः सप्तैव प्रतिवर्ष स्मृताः शुभाः

1.19.75

गौरी कुमुद्वती चैव संध्या रात्रिर्मनोजवा ।
ख्यातिश्च पुण्डरीका च गङ्गाः सप्तविधाः स्मृताः

1.19.76

तासां सहस्रशश्चान्या नद्यो यास्तु समीपगाः ।
अभिगच्छन्ति ताः सर्वा विपुलाः सुबहूदकाः

1.19.77

क्रैञ्चद्वीपः समुद्रेण दधिमण्डौदकेन तु ।
आवृतः सर्वतः श्रीमान्क्रैञ्चद्वीपसमेन तु

1.19.78

प्लक्षद्वीपादयो ह्येते समासेन प्रकीर्त्तिताः ।
तेषां निसर्गोद्वीपानामानुपूर्व्येण सर्वशः

1.19.79

न शक्यो विस्तराद्वक्तुं दिव्यवर्षशतैरपि ।
निसर्गो यः प्रजानां तु संहारो यश्च तासु वै

1.19.80

शाकद्वीपं प्रवक्ष्यामि यथावदिह निश्चयात् ।
शृणुध्वं तु यथातथ्यं ब्रुवतो मे यथार्थवत्

1.19.81

क्रैञ्चद्वीपस्य विस्ताराद्द्विगुणास्तस्य विस्तरः ।
परिवार्य समुद्रं स दधिमण्डोदकं स्थितः

1.19.82

तत्र पुण्या जनपदाश्चिरात्तु म्रियते जनः ।
कुत एव च दुर्भिक्षं जराव्याधिभयं कुतः

1.19.83

तत्रापि पर्वताः शभ्राः सप्तैव मणिभूषणाः ।
रत्नाकरास्तथा नद्यस्तेषां नामानि मे शृणु

1.19.84

देवर्षिगन्धर्वयुतः प्रथमो मेरुरुच्यते ।
प्रागायतः स सौवर्णो ह्युदयो नाम पर्वतः

1.19.85

वृष्ट्यर्थं जलदास्तत्र प्रभंवति च यान्ति च ।
तस्यापरेण सुमहाञ्जलधारो महागिरिः

1.19.86

यतो नित्यमुपादत्ते वासवः परमं जलम् ।
ततो वर्षं प्रभवति वर्षाकाले प्रजास्विह

1.19.87

तस्योत्तरे रैवतको यत्र नित्यं प्रतिष्ठितम् ।
रेवती दिवि नक्षत्रं पितामहकृतो विधिः

1.19.88

तस्यापरेण सुमहान् श्यामो नाम महागिरिः ।
तस्माच्छ्यामत्वमापन्नाः प्रजाः पूर्वमिमाः किल

1.19.89

तस्यापरेण सुमहान्नाजतो ऽस्तगिरिः स्मृतः ।
तस्यापरे चांबिकेयो दुर्गशैलो महागिरिः

1.19.90

अंबिकेयात्परो रम्यः सर्वौंषधिसमन्वितः ।
केसरी केसरयुतो यतो वायुः प्रजापतिः

1.19.91

उदयात्प्रथमं वर्षं महात्तज्जलदं स्मृतम् ।
द्वितीयं जलधारस्य सुकुमारमिति स्मृतम्

1.19.92

रैवतस्य तु कौमारं श्यामस्य च मणीवकम् ।
अस्तस्यापि शुभं वर्षं विज्ञेयं कुसुमोत्तरम्

1.19.93

अम्बिकेयस्य मोदाकं केसरस्य महाद्रुमम् ।
द्वीपस्य परिमाणं तु ह्रस्वदीर्घत्वमेव च

1.19.94

क्रैञ्चद्वीपेन विख्यातं तस्य केतुर्महाद्रुमः ।
शाको नाम महोत्सेधस्तस्य पूज्या महानुगाः

1.19.95

तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः ।
नद्यश्चापि महापुण्या गङ्गाः सप्तविधास्तथा

1.19.96

सुकुमारी कुमारी च नलिनी वेणुका च या ।
इक्षुश्च वेणुका चैव गभस्तिः सप्तमी तथा

1.19.97

नद्यश्चान्याः पुण्यजलाः शीततोयवहाः शुभाः ।
सहस्रशः समाख्याता यतो वर्षति वासवः

1.19.98

न तासां नामधेयानि परिमाणं तथैव च ।
शक्यं वै परिसंख्यातुं पुण्यास्ताः सरिदुत्तमाः

1.19.99

ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते ।
शांशपायनविस्तीर्णो द्वीपो ऽसौ चक्रसंस्थितः

1.19.100

नदीजलैः प्रतिच्छन्नः पर्वतैश्चाभ्रसन्निभैः ।
सर्वधातुविचित्रैश्च मणिविद्रुमभूषितैः

1.19.101

नगरैश्चैव विविधैः स्फीतैर्जनपदैरपि ।
वृक्षैः पुष्पफलोपेतैः समन्ताद्धनधान्यवान्

1.19.102

क्षीरोदेन समुद्रेण सर्वतः परिवारितः ।
शाकद्वीपस्य विस्तारात्समेन तु समंन्ततः

1.19.103

तस्मिञ्जनपदाः पुण्याः पर्वताः सरितः शुभाः ।
वर्णाश्रमसमाकीर्णा देशास्ते सप्त वै स्मृताः

1.19.104

न संकरश्च तेष्वस्ति वर्णाश्रमकृतः क्वचित् ।
धर्मस्य चाव्यभीचारादेकान्तसुखिताः प्रजाः

1.19.105

न तेषु लोभो माया वा हीर्षासूयाकृतः कुतः ।
विपर्ययो न तेष्वस्ति कालात्स्वाभाविकं परम्

1.19.106

करावाप्तिर्न तेष्वस्ति न दण्डो न च दण्ड्यकाः ।
स्वधर्मेणैव धर्म ज्ञास्ते रक्षन्ति परस्परम्

1.19.107

एतावदेव शक्यं वै तस्मिन्द्वीपे प्रभाषितुम् ।
एतावदेव श्रोतव्यं शाकद्वीपनिवासिनाम्

1.19.108

पुष्करं सप्तमं द्वीपं प्रवक्ष्यामि निबोधत ।
पुष्करेण तु द्वीपेन वृतः क्षीरोदको बहिः

1.19.109

शाकद्वीपस्य विस्ताराद्द्विगुणेन संमततः ।
पुष्करे पर्वतः श्रीमानेक एव महाशिलः

1.19.110

चित्रैर्मणिमयैः शृङ्गैः शिलाजालैः समुच्छ्रितः ।
द्वीपस्य तस्य पूर्वर्द्धे चित्रसानुः स्थितो महान्

1.19.111

स मण्डलसहस्राणि विस्तीर्णः पञ्चविंशतिः ।
उर्द्धं चैव चतुस्त्रिंशत्सहस्राणि महीतलात्

1.19.112

द्वीपर्धस्य परिक्षिप्तः पर्वतो मानसोत्तरः ।
स्थितो वेलासमीपे तु नवचन्द्र इवोदितः

1.19.113

योजनानां सहस्राणि ऊर्ध्वं पञ्चाशदुच्छ्रितः ।
तावदेव च विस्तीर्णः सर्वतः परिमण्डलः

1.19.114

स एव द्वीपपश्चार्द्धे मानसः पृथिवीधरः ।
एक एव महासारः सन्निवेशो द्विधा कृतः

1.19.115

स्वादूदकेनोदधिना सर्वतः परिवारितः ।
पुष्करद्वीपविस्ताराद्विस्तीर्णो ऽसौ समन्ततः

1.19.116

तस्मिन्द्वीपे स्मृतौ द्वौ तु पुण्यौ जनपदौ शुभौ ।
अभितो मानसस्याथ पर्वतस्य तु मण्डले

1.19.117

महावीतं तु यद्वर्ष बाह्यतो मानसस्य तत् ।
त्स्यैवाभ्यन्तरेणापि धातकीखण्डमुच्यते

1.19.118

दशवर्षसहस्राणि तत्र जीवति मानवाः ।
अरोगाः सुखबाहुल्या मानसीं सिद्धिमास्थिताः

1.19.119

मससायुश्च रूपं च तस्मिन्वर्षद्वये स्मृतम् ।
अधमोत्तमा न तेष्वस्ति तुल्यास्ते रूपशीलतः

1.19.120

न तत्र दस्युर्दमको नेर्ष्यासूया भयं तथा ।
निग्रहो न च दण्डो ऽस्ति न लोभो न परिग्रहः

1.19.121

सत्यानृतं न तत्रास्ति धर्माधर्मौं तथैव च ।
वर्णाश्रमौ वा वार्ता वा पाशुपाल्यं वणिक्पथः

1.19.122

त्रयी विद्या दण्डनीतिः शुश्रूषा शिल्पमेव च ।
वर्षद्वये सर्वमेतत्पुष्करस्य न विद्यते

1.19.123

न तत्र वर्षं नद्यो वा शीतोष्णं वापि विद्यते ।
उद्भिदान्युदकान्यत्र गिरिप्रस्रवणानि च

1.19.124

उत्तराणां कुरूणां च तुल्यकालो जनस्तथा ।
सर्वर्त्तुसुसुखस्तत्र जराक्रमविवर्जितः

1.19.125

इत्येष धातकीखण्डे महा वीते तथैव च ।
आनुपूर्व्याद्विधिः कृत्स्नः पुष्करस्य प्रकीर्त्तितः

1.19.126

स्वादूदकेनोदधिना पुष्करः परिवारितः ।
विस्तारान्मण्डलाच्चैव पुष्करस्य समेन तु

1.19.127

एवं द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः ।
द्वीपस्यानन्तरो यस्तु सामुद्रस्तत्समस्तु सः

1.19.128

एवं द्वीपसमुद्राणां वृद्धिर्ज्ञेया परस्परात् ।
अपां चैव समुद्रेकात्सामुद्र इति संज्ञितः

1.19.129

विशन्तिर्निवसंत्यस्मिन्प्रजा यस्माच्चतुर्विधाः ।
तस्माद्वर्षमिति प्रोक्तं प्रजानां सुखदं यतः

1.19.130

ऋष इत्येष रमणे वृषशक्तिप्रबन्धने ।
रतिप्रबधनात्मिद्धं वर्षं तत्तेषु तेन वै

1.19.131

शुक्लपक्षे चन्द्रवृद्ध्या समुद्रः पूर्यते सदा ।
प्रक्षीयमाणे बहुले क्षीयते ऽस्तमिते खगे

1.19.132

आपूर्यमाणो ह्युदधिः स्वत एवाभिपूर्यते ।
तथोपक्षीयमाणे ऽपि स्वात्मन्येवावकृष्यते

1.19.133

उखास्थमग्निसंयोगादुद्रिक्तं दृश्यते यथा ।
महोदधिगतं तोयं स्वत उद्रिच्यते तथा

1.19.134

अन्यूनानतिरिक्तांश्च वर्न्द्वत्यापो ह्रसंति च ।
उदयास्तमये त्विन्दौ पक्षयोः शुक्लकृष्णयोः

1.19.135

क्षयवृद्धत्वमुदधेः सोमवृद्धिक्षयात्पुनः ।
दशोत्तराणि पञ्चैव ह्यङ्गुलानि शतानि च

1.19.136

अपां वृद्धिः क्षयो दृष्टः सामुद्रीणां तु पर्वसु ।
द्विराप्कत्वात्स्मृता द्वीपाः सर्वतश्चोदकावृताः

1.19.137

उदकस्यायनं यस्मात्तस्मादुदधिरुच्यते ।
अपर्वाणस्तु गिरयः पर्वभिः पर्वताः स्मृताः

1.19.138

प्लक्षद्वीपे तु गोमेदः पर्वतस्तेन चौच्यते ।
शाल्मलिः शाल्मले द्वीपे पूज्यते सुमहाव्रतैः

1.19.139

कुशद्वीपे कुशस्तंबस्तस्यनाम्ना स उच्यते ।
क्रैञ्चद्वीपे गिरिः कैञ्चो मध्ये जनपदस्य ह

1.19.140

शाकद्वीपे द्रुमः शाकस्तस्य नाम्ना स उच्यते ।
न्यग्रोधः पुष्करद्वीपे तत्रत्यैः स नमस्कृतः

1.19.141

महादेवः पूज्यते तु ब्रह्मा त्रिभुवनेश्वरः ।
तस्मिन्नि वसति ब्रह्मा साध्यैः सार्द्धं प्रजापतिः

1.19.142

उपासंते तत्र देवास्त्रयस्त्रिंशन्महर्षिभिः ।
स तत्र पूज्यते चैव देवेर्देवोतमोतमः

1.19.143

जंबूद्वीपात्प्रवर्त्तन्ते रत्नानि विविधानि च ।
द्वीपेषु तेषु सर्वेषु प्रजानां क्रमतस्तु वै

1.19.144

सर्वशो ब्रह्मवर्येण सत्येन च दमेन च ।
आरोग्ययुःप्रमाणाभ्यां प्रमाणं द्विगुणं ततः

1.19.145

एतस्मिन्पुष्करद्वीपे यदुक्तं वर्षकद्वयम् ।
गोपायति प्रजास्तत्र स्वयंभूर्जड पण्डिताः

1.19.146

ईश्वरो दण्डसुद्यम्य ब्रह्मा त्रिभुवनेश्वरः ।
स विष्णोः सचिवो देवः स पिता स पितामहः

1.19.147

भोजनं चाप्रयत्नेन तत्र स्वयमुपस्थितम् ।
षड्रसं सुमहावीर्यं भुञ्जते तु प्रजाः सदा

1.19.148

परेण पुष्करस्यार्द्धे आवृत्यावस्थितो महान् ।
स्वादूदकः समुद्रस्तु समन्तात्परिवेष्ट्य तम्

1.19.149

परेण तस्य महती दृश्यते लोकसंस्थितिः ।
काञ्चनी द्विगुणा भूमिः सर्वाह्येकशिलोपमा

1.19.150

तस्यापरेण शैलश्च पर्यासात्पस्मिण्डलः ।
प्रकाशश्चाप्रकाशश्च लोकालोकः स उच्यते

1.19.151

आलोकस्तस्य चार्वक्तु निरालोकस्ततः परम् ।
योजनानां सहस्राणि दश तस्योच्छ्रयः समृतः

1.19.152

तावांश्च विस्तरस्तस्य पृथिव्यां कामगश्च सः ।
आलोको लोकवृत्तिस्थो निरालोको ह्यलौकिकः

1.19.153

लोकार्द्धे संमिता लोका निरालोकास्तु बाह्यतः ।
लोकविस्तारमात्रं तु ह्यलोकः सर्वतो बहिः

1.19.154

परिच्छिन्नः समन्ताच्च उदकेनावृतस्तु सः ।
आलोकात्परतश्चापि ह्यण्डमा वृत्य तिष्ठति

1.19.155

अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी ।
भूर्लोको ऽथ भुवर्ल्लोकः स्वर्लोको ऽथ महस्तथा

1.19.156

जनस्तपस्तथा सत्यमेतावांल्लोकसंग्रहः ।
एतावानेव विज्ञेयो लोकान्तश्चैव यः परः

1.19.157

कुंभस्थायी भवेद्यादृवप्रतीच्यां दिशि चन्द्रमाः ।
आदितः शुक्लपक्षस्य वपुश्चाण्डस्य तद्विधम्

1.19.158

अण्डानामीदृशानां तु कोट्यो ज्ञेयाः सहस्रशः ।
तिर्यगूर्ध्वमधो वापि कारणस्याव्ययात्मनः

1.19.159

धरणैः प्राकृतैस्तत्तदावृतं प्रति सप्तभिः ।
दशाधिक्येन चान्योन्यं धारयन्ति परस्परम्

1.19.160

परस्परावृताः सर्वे उत्पन्नाश्च परस्परम् ।
अण्डस्यास्य समन्तात्तु सन्निविष्टो घनोदधिः

1.19.161

समन्तात्तु वनोदेन धार्यमाणः स तिष्टति ।
बाह्यतो घनतो यस्य तिर्यगूर्द्ध्वं तु मण्डलम्

1.19.162

धार्यमाणं समन्तात्तु तिष्ठते यत्तु तेजसा ।
अयोगुडनिभो वाह्नः समन्ता न्मण्डलाकृतिः

1.19.163

समन्ताद्धनवातेन धार्यमाणः स तिष्ठति ।
घनवातं तथाकाशो दधानः खलु तिष्ठति

1.19.164

भूतादिश्च तथा काशं भूतादिश्चाप्यसौ महान् ।
महाश्च सो ऽप्यनन्तेन ह्यव्यक्तेन तु धार्यते

1.19.165

अनन्तमपरिव्यक्तं दशधा सूक्ष्ममेव च ।
अनन्तम कृतात्मानमनादिनिधनं च यत्

1.19.166

अनित्यं परतो ऽघोरमनालंबमनामयम् ।
नैकयोजनसाहस्रं विप्रकृष्टमनावृतम्

1.19.167

तम एव निरालोकममर्य्यादमदैशिकम् ।
देवानामप्यविदितं व्यवहारविवर्जितम्

1.19.168

तमसोंते च विश्यातमाकाशान्ते ह्यभास्वरम् ।
मर्यादायामनन्तस्य देवस्यायतनं महत्

1.19.169

त्रिदशानामगम्यं ततस्थानं दिव्यमिति श्रुतिः ।
महतो देवदेवस्य मर्यादा या व्यवस्थिताः

1.19.170

चन्द्रादित्यावधस्तात्तु ये लोकाः प्रथिता बुधैः ।
ते लोका इत्यभिहिता जगतस्च न संशयः

1.19.171

रसातलतलाः सप्तसप्तैवोर्द्ध्वतलाश्च ये ।
सप्तस्कन्धस्तथा वायोः सब्रह्मसदना द्विजाः

1.19.172

आपातालाद्दिवं यावदत्र पञ्चविधा गतिः ।
प्रमाणमेतज्जगत एष संसारसागरः

1.19.173

अनाद्यन्तां व्रजन्त्येव नैकजातिसमुद्भवाः ।
विचित्रा जगतः सा वै प्रकृतिर्ब्रह्मणः स्थिता

1.19.174

यच्चैह दैविकं वाथ निसर्गं बहुविस्तरः ।
अतीन्द्रियेर्महाभागैः सिद्धैरपि न लक्षितः

1.19.175

पृथिव्यंब्वग्निवायूनां नभसस्तमसस्तथा ।
मानसस्य तु देहस्य अनन्तस्य द्विजोत्तमाः

1.19.176

क्षयो वा परिणामो वा अन्तो वापि न विद्यते ।
अनन्त एष सर्वत्र एवं ज्ञानेषु पठ्यते

1.19.177

तस्य चोक्तं मया पूर्व तस्मिन्नामानुकीर्तने ।
यः पद्मनाभनाम्ना तु तत्कार्त्स्न्येन च कीर्त्तितः

1.19.178

स एव सर्वत्र गतः सर्वस्थानेषु पूज्यते ।
भूमौ रसातले चैव आकाशे पवने ऽनले

1.19.179

अर्णवेषु च सर्वेषु दिवि चैव न संशयः ।
तथा तमसि विज्ञेय एष एव महाद्युतिः

1.19.180

अनेकधा विभक्ताङ्गो महायोगी जनार्दनः ।
सर्वलोकेषु लोकेश इज्यते बहुधा प्रभुः

1.19.181

एवं परस्परोत्पन्न धार्यन्ते च परस्परम् ।
आधाराधेयभावेन विकारास्ते ऽविकारिणः

1.19.182

पृथ्व्यादयो विकारास्ते परिच्छिन्नाः परस्परम् ।
परस्परधिकाश्चैव प्रविष्टास्ते परस्परम्

1.19.183

यस्मात्सृषटास्तु ते ऽन्योन्यं तस्मात्स्थैर्यमुपागताः ।
प्रागासन्नविशेषास्तु विशेषो ऽन्यविशेषणात्

1.19.184

पृथिव्याद्यास्तु वाद्यन्तापरिच्छिन्नास्त्रयस्तु ते ।
गुणोपचयसारेण परिच्छेदो विशेषतः

1.19.185

शेषाणां तु परिच्छेदः सौक्ष्म्यान्नेह विभाव्यते ।
भूतेभ्यः परतस्तेभ्यो व्यालोका सा धरा स्मृता

1.19.186

भूतान्यालोक आकाशे परिच्छिन्नानि सर्वशः ।
पात्रे महति पात्राणि यथैवान्तर्गतानि तु

1.19.187

भवन्त्यन्योन्यहीनानि परस्परसमाश्रयात् ।
तथा ह्यालोक आकाशे भेदास्त्वन्तर्गता मताः

1.19.188

कृत्त्नान्येतानि चत्वारि ह्यन्योन्यस्याधिकानि तु ।
यावदेतानि भूतानि तावदुत्पत्तिरुच्यते

1.19.189

तन्तुनामिव संतारो भूतेष्वन्तर्गतो मतः ।
प्रत्या ख्याय तु भूतानि कार्योत्पर्त्तिन विद्यते

1.19.190

तस्मात्परिमिता भेदाः स्मृताः कार्य्यात्मकास्तु ते ।
कारणात्मकास्तथैक स्युर्भेदा ये महदादयः

1.19.191

इत्येष संनिवेशो वै मया प्रोक्तो विभागशः ।
सप्तद्वीपसमुद्राड्यो याथातथ्यन वै द्विजाः

1.19.192

विस्तरान्मण्डलाश्चैव प्रसंख्यानेन चैव हि ।
वैश्वरूप्रधानस्य परिणामैकदेशिकः

1.19.193

अधिष्ठितं भगवता यस्य सर्वमिदं जगत् ।
एवंभूतगणाः सप्त सन्निविष्टाः परस्परम्

1.19.194

एतावान्संनिवेशस्तु मया शक्यः प्रभाषितुम् ।
एतावदेव श्रोतव्यं संनिवेशे तु पार्थेवे

1.19.195

सप्त प्रकृतयस्त्वेता धारयन्ति परस्परम् ।
तास्त्वहं परिमाणेन नं संख्यातुमिहोत्सहे

1.19.196

असंख्याताः प्रकृतयस्तिर्य्यगूर्द्ध्वमधस्तथा ।
तारकासंनिवेशश्च यावद्दिव्यानुमण्डलम्

1.19.197

पर्य्या यसन्निवेशस्तु भूमेस्तदनु मण्डलः ।
अत ऊर्ध्वं प्रवक्ष्यामि कृथिव्या वै विचक्षणाः

मूल पाठ: Brahmāṇḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc