ब्रह्माण्ड पुराण · अध्याय 1.18
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपादे किंपुरुषादिवर्षवर्णनं नाम सप्तदशो ऽध्यायः
सूत उवाच
मध्ये हिमवतः पृष्ठे कैलासो नाम पर्वतः ।
तस्मिन्निवसति श्रीमान्कुबेरः सह राक्षसैः
अप्सरोनुचरो राजा मोदते ह्यलकाधिपः ।
कैलासपादात्संभूतं पुण्यं शीतजलं शुभम्
मदं नाम्ना कुमुद्वत्त्त्सरस्तूदधिसन्निभम् ।
तस्माद्दिव्यात्प्रभवति नदी मन्दाकिनी शुभा
दिव्यं च नन्दनवनं तस्यास्तीरे महद्वनम् ।
प्रागुत्तरेम कैलासाद्दिव्यं सर्वौंषधि गिरिम्
रत्नधातुमयं चित्रं सबलं पर्वतं प्रति ।
चन्द्रप्रभो नाम गिरिः सुशुभ्रो रत्नसन्निभः
तस्य पादे महाद्दिव्यं स्वच्छोदं नाम तत्सरः ।
तस्माद्दिव्यात्प्रभवति स्वच्छोदा नाम निम्नगा
तस्यास्तीरे महद्दिव्यं वनं चैत्ररथं शुभम् ।
तस्मिन् गिरौ निवसति मणिभद्रः सहानुगः
यक्षसेनापतिः क्रूरो गुह्यकैः परिवारितः ।
पुण्या मन्दाकिनी चैव नदी स्वच्छोदका च या
महीमण्डलमध्येन प्रविष्टे ते महोदधिम् ।
कैलासाद्दक्षिणे प्राच्यां शिवसत्त्वौषधिं गिरिम्
मनः शिलामयं दिव्यं चित्राङ्गं पर्वतं प्रति ।
लोहितो हेमशृङ्गश्च गिरिः सूर्यप्रभो महान्
तस्य पादे महद्दिव्यं लोहितं नाम तत्सरः ।
तस्मात्पुण्यः प्रभवति लौहित्यः स नदो महान्
देवारण्यं विशोकं च तस्य तीरे महद्वनम् ।
तस्मिन्गिरौ निवसति यक्षो मणिधरो वशी
सौम्यैः मुधार्मिकैश्चैव गुह्यके परिवारितः ।
कैलासाद्दक्षिणे पार्श्वे क्रूरसत्त्वौषधिर्गिरिः
वृत्रकायात्किलोत्पन्नमञ्जनं त्रिककुं प्रति ।
सर्वधातुमयस्तत्र सुमहान्वैद्युतो गिरिः
तस्य पादे कलः पुण्यं मानसं सिद्धसेवितम् ।
तस्मात्प्रभवेते पुण्या सरयूर्लोकविश्रुता
तस्यास्तीरे वन दिव्यं वैभ्राजं नाम विश्रुतम् ।
कुबेरा नुचरस्तत्र प्रहेतितनयो वशी
ब्रह्मपितो निवसति राक्षसो ऽनन्तविक्रमः ।
अतरिक्षचरैर्घोरैर्यातुधानशतैर्वृतः
अपरेण तु कैलासात्पुण्यसत्त्वौषधिर्गिरिः ।
अरुणः पर्वतश्रेष्ठो रुक्मधातुमयः शुभः
भवस्य दयितः श्रीमान्पर्वतो मेघसन्निभः ।
शातकैंभमयैः शुभ्रैः शिलाजालैः समावृतः
शातसंख्यैस्तापनीयैः शृङ्गैर्दिवमिवोल्लिखन् ।
मुञ्जवास्तु महादिव्यो दुर्गः शैलो हिमाचितः
तस्मिन्गिरौ निवसति गिरीशो धूम्रलोचनः ।
तस्या पादात्प्रभवति शैलोदं नाम तत्सरः
तस्मात्प्रभवते पुण्या शिलोदा नाम निम्रगा ।
सा चक्षुः सीतयोर्मध्ये प्रविष्टा लवणोदधिम्
तस्यास्तीरे वनं दिव्यं विश्रुतं सुरभीति वै ।
सव्योत्तरेण कैलासाच्छिवः सत्त्वौषधिर्गिरिः
गौरं नाम गिरिश्रेष्ठं हरितालमयं प्रति ।
हिरण्यशृङ्गः सुमहान् दिव्यो मणिमयो गिरिः
तस्या पादे महाद्दिव्यं शुभं काञ्चनवालुकम् ।
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः
गङ्गनिमित्तं राजर्षिरुवास बहुलाः समाः ।
दिवं यास्यन्ति ते बुर्वे गङ्गतोयपरिप्लुताः
मदीय इति निश्चित्य समाहितमनाः शिवे ।
तत्र त्रिपयगा देवी प्रथमं तु प्रतिष्ठिता ।
सोमपादात्प्रसूता सा सप्तधा प्रतिपद्यते
यूपा मणिमयास्तत्र वितताश्च हिरण्मयाः ।
तत्रेष्ट्वा तु गतः सिद्धिं शक्रः सर्वैः सुरैः सह
दिवि च्छायापथो यस्तु अनुनक्षत्रमण्डलः ।
दृश्यते भास्वरो रात्रौ देवी त्रिपथगा तु सा
अन्तरिक्षं दिवञ्चैव भावयन्ती सुरापगा ।
भवोत्तमाङ्गे पतिता संरूद्धा यौगमायया
तस्या ये बिन्दवः केचित् क्रुद्धायाः पतिता भुवि ।
कृतं तु तैर्बिदुसरस्ततो बिन्दुसरः स्मृतम्
ततो निरूद्धा सा देवी भवेन स्मयता किल ।
चिन्तयामास मनसा शङ्करक्षेपमं प्रति
भित्त्वा विशामि पातालं स्रोतसागृह्य शङ्करम् ।
ज्ञात्वा तम्या अभिप्रायं क्रूरं देव्याश्चिकीर्षितम्
तिरोभावयितुं बुद्धिरासीदङ्गेषु तां नदीम् ।
तस्यावलेपं ज्ञात्वा तु नद्याःक्रुद्धस्तुशङ्करः
न्यरुपाच्च शिरस्येनां वेगेन पततीं भुवि ।
एतस्मिन्नेव काले तु दृष्ट्वा राजानमग्रतः
धमनीसंततं क्षीणं क्षुधया व्याकुलेन्द्रियम् ।
अनेन तोषितश्चाहं नद्यर्थं पूर्वमेव तु
बुद्धास्य वरदानं च कोपं नियतवांस्तु सः ।
ब्रह्मणो वचनं श्रुत्वा धारय स्वर्णदीमिति
ततो विसर्जयामास संरुद्धां स्वेन तेजसा ।
नदीं भगीरथस्यार्थे तपसोग्रेण तोषितः
ततो विसृज्यमानायाः स्रोत स्तत्सप्तधा गतम् ।
तिस्रः प्ताचीमिमुखं प्रतीचीं तिस्र एव तु
नद्याः स्रोतस्तु गङ्गायाः प्रत्यपद्यत सप्तधा ।
नलिनी ह्लादिनी चैव पावनी चैव प्राच्यगाः
सीता चक्षुश्च सिन्धुश्च प्रतीचीन्दिशमास्थिताः ।
सप्तमी त्वन्वगात्तासां दक्षिणेन भगीरथम्
तस्माद्भागीरथी या सा प्रविष्टा लवणोदधिम् ।
सप्तैता भावयन्तीदं हिमाह्वं वर्षमेव तु
प्रसूताः सप्त नद्यस्ताः शुभा बिन्दु सरोद्भवाः ।
नानादेशान्प्लावयन्त्यो मलेच्छप्रायास्तु सर्वशः
उपगच्छन्ति ताः सर्वा यतो वर्षति वासवः ।
शिलीन्ध्रान्कुन्त लांश्चीनान्बर्बरान्यवनाध्रकान्
पुष्कराश्च कुलिन्दांश्च अचोंलद्विचराश्च ये ।
कृत्वा त्रिधा सिंहवन्तं सीतागात्पश्चिमोद धिम्
अथ चीनमरूंश्चैव तालांश्च मसमूलिकान् ।
भद्रास्तुषारांल्लाम्याकान्बाह्लवान्पारटान्खशान्
एताञ्जनपदां श्चक्षुः प्रावयन्ती गतोदधिम् ।
दरदांश्च सकाश्मीरान् गान्धरान् रौरसान् कुहान्
शिवशैलानिन्द्रपदान्वसतीश्च विसर्जमान् ।
सैन्धवान्रन्ध्रकरकाञ्छमठाभीररोहकान्
शुनासुखांश्चोर्द्धमरून्सिन्धुरेतान्निषेवते ।
गन्धर्वकिन्नरान्यक्षान्रक्षोविद्याधरोरगान्
कलापग्रामकांश्चैव पारदांस्तद्गणान् खशान् ।
किरातांश्चपुलिन्दांश्च कुरून् सभरतानपि
पञ्चालान्काशिमत्स्यां श्च मगधाङ्गांस्तथैव च ।
सुह्मोत्तरांश्च वङ्गांश्च ताम्रलिप्तांस्तथैव च
एताञ्जनपदान्मान्यान्गङ्गा भावयते शुभान् ।
ततः प्रतिहता विन्ध्यात्प्रविष्टा लवणोदधिम्
ततश्च ह्लादिनी पुण्य प्राचीमभिमुखा ययौ ।
प्रावयन्त्युपभागांश्च नैषधांश्च त्रिगर्त कान्
धीवरानृषिकांश्चैव तथा नीलमुखानपि ।
केकरानौष्टकर्णांश्च किरातानपि चैव हि
कालोदरान्विवर्णाश्च कुमारान्स्वर्णभूमिकान् ।
आमण्डलं समुद्रस्य तिरोभूतांश्च पूर्वतः
ततस्तु पावनी चापि प्राचीमेव दिशं ययौ ।
सुपथान्पावयं तीह त्विन्द्रद्युम्नसरोपि च
तथा खरपथांश्चैव वेत्रशङ्कुपथानपि ।
मध्यतोजानकिमथो कुथप्रावरणान्ययौ
इन्द्रद्वीप समुद्रं तु प्रविष्टां लवणोदधिम् ।
ततस्तु नलिनी प्रायात् प्राचीमाशां जवेन तु
तोमरान्भावयन्तीह हंसमार्गान्सहैहयान् ।
पूर्वन्देशांश्च सेवन्ती भित्त्वा सा बहुधागिरीन्
कर्णप्रावरणान्प्राप्य संगत्या श्वमुखानपि ।
सिकतापर्वतमरुं गत्वा विद्याधरान्ययौ
नगमण्डलमध्येन प्रविष्टा लवणोदधिम् ।
तासां नद्युपनद्यश्च शतशो ऽथ सहस्रशः
उपगच्छन्ति ताः सर्वा यतो वर्षति वासवः ।
वक्वौकसायास्तीरे तु वनं सुरभि विश्रुतम्
हिरण्यशृङ्गे वसति विद्वान्कौबेरको वशी ।
यज्ञोपेतश्च सुमहानमितौजाः सुविक्रमः
तत्रत्यैस्तैः परिवृतौ विद्वद्भिर्ब्रह्मराक्षसैः ।
कुबेरानुचरा ह्येते चत्वारस्तु समाः स्मृताः
एवमेव तु विज्ञेया ऋद्धिः पर्वतवासिनाम् ।
परस्परेण द्विगुणा धर्मतः कामतोर्ऽथतः
हेमकूटस्य पृष्ठे तु वर्चोवन्नामतः सरः ।
मनस्विनीप्रभवति तस्माज्ज्योतिष्मती च या
अवगाढे ह्युभयतः समुद्रौ पूर्वपश्चिमौ ।
सरो विष्णुपदं नाम निषधे पर्वतोत्तमे
तस्माद्द्वयं प्रभवति गान्धर्वी नाकुली च तैः ।
मेरोः पार्श्वात्प्रभवति ह्रदश्चन्द्रप्रभो महान्
तत्र जंबूनदी पुण्या यस्या जांबूनदं स्मृतम् ।
पयोदं तु सरो नीले सुशुभ्रं पुण्डरीकवत्
पुण्डरीका पयोदा य तस्मान्नद्यौ विनिर्गते ।
श्वेतात्प्रवर्त्तते पुण्यं सरयूर्मानसाद्ध्रुवम्
ज्योत्स्ना च मृगाकामा च तस्माद्द्वे संबभूवतुः ।
सरः कुरुषु विख्यातं पद्ममीनद्विजाकुलम्
रुद्रकान्तमिति ख्यातं निर्मितं तद्भवेन तु ।
अन्ये चाप्यत्र विख्याताः पद्मामीनद्विजाकुलाः
नाम्ना ह्रदा जया नाम द्वादशोदधिसन्निभाः ।
तेभ्यः शान्ता य माध्वी च द्वे नद्यौ संबभूवतुः
यानि किंपुरुषाद्यानि तेषु देवो न वर्षति ।
उद्भिदान्युदकान्यत्र प्रवहन्ति सरिद्वराः
ऋषभो दुन्दुभिश्चैव धूम्नश्च सुमहागिरिः ।
पूर्वायता महापर्वा निमग्ना लवणाभसि
चन्द्रः काकस्तथा द्रोणः सुमहान्तः शिलोच्चयाः ।
उदग्याता उदीच्यान्ता अवगाढा महोदधिम्
सोमकश्च वराहश्च नारदश्च महीधरः ।
प्रतीच्यामायतास्ते वै प्रविष्टा लवणोदधिम
चक्रो बलाहकश्चैव मैनाको यश्च पर्वतः ।
आयतास्ते महाशैलाः समुद्रं दक्षिणं प्रति
चक्रमैनाकयोर्मध्य विदिशं दक्षिणां प्रति ।
तत्र संवर्त्तको नाम सो ऽग्निः पिबति तज्जलम्
नाम्ना समुद्रवासस्तु और्वःस वडवामुखः ।
द्वादशैते प्रविष्टा हि पर्वता लवणोदधिम्
महेन्द्रभयवित्रस्ताः पक्षच्छे दभयात्पुरा ।
यदेतद्दृश्यते चन्द्रे श्वेते कृष्णशशाकृति
भारतस्य तु वर्षस्य भेदास्ते नव कीर्त्तिताः ।
इहोदितस्य दृश्यन्ते यथान्ये ऽन्यत्र चोदिते
उत्तरोत्तरमेतेषां वर्षमुद्दिश्यते गुणैः ।
आरोग्यायुः प्रमाणानां धर्मतः कामतोर्ऽथतः
समन्वितानि भूतानि पुण्यैरेतैस्तु भागशः ।
वसंति नानाजातीनि तेषु वर्षेषु तानि वै ।
इत्येषा धारयन्तीदं पृथ्वी विश्वं जगत्स्थितम्
मूल पाठ: Brahmāṇḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0