भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्माण्ड पुराण · अध्याय 1.17

1.17.1

इति श्रीब्रदृमहापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपादे
भारतवर्मतं नाम षोडशो ऽध्यायः
ऋषय ऊचुः
यच्च किंपुरुषं वर्षं हरिवर्षं तथैव च ।
आचक्ष्व नो यथातत्त्वं कीर्त्तितं भारतं त्वया

1.17.2

सूत उवाच
शुश्रूषा यत्र वो विप्रास्तच्छृणुध्वमतन्द्रिताः ।
प्लक्षखण्डः किंपुरुषे सुमहान्नन्दनोपमः

1.17.3

दशवर्षसहस्राणि स्थितिः किंपुरुषे स्मृता ।
सुवर्णवर्णाः पुरुषाः स्त्रियश्चाप्सरसो पमाः

1.17.4

अनामया अशोकाश्च नित्यं मुदितमानसाः ।
जायन्ते मानवास्तत्र निस्तप्तकनकप्रभाः

1.17.5

वर्षे किंपुरुषे पुण्ये वृक्षो मधुवहः शुभः ।
तस्य किंपुरुषाः सर्वे ऽपिबन् हि रसमुत्तमम्

1.17.6

ततः परं किंपुरुषो हरिवर्षः प्रचक्षते ।
महारजतसंकाशा जायन्ते तत्र मानवाः

1.17.7

देवलोकच्युताः सर्वे देवानूकाश्च सर्वेशः ।
हरिवर्षे नराः सर्वे पिबन्तीक्षुरसं शुफम्

1.17.8

एकादश सहस्राणि वर्षाणां तु निरामयाः ।
हरिवर्षे तु जीवन्ति सर्वे मुदितमानसाः

1.17.9

न जरा बाधते तत्र न म्रियन्ते च ते ऽचिरात् ।
मध्यमं यन्मया प्रोक्तं नाम्ना वर्षमिलावृतम्

1.17.10

न तत्र सूर्यस्तपति न तु जीर्यन्ति मानवाः ।
चन्द्रसूर्यै सनक्षत्रौ न प्रकाशाविला वृते

1.17.11

पद्मप्रभाः पद्बवर्णास्तथा पद्बनिभेक्षणाः ।
पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः

1.17.12

जंबूफलरसाहारा अनिष्यन्दाः सुगन्धिनः ।
मनस्विनो भुक्तभोगाः सत्कर्मफलभोगिनः

1.17.13

देवलोकच्यताश्चैव महारजतवाससः ।
त्रयोदशसहस्राणि वर्षाणां ते नरोत्तमाः

1.17.14

आयुः प्रमाणं जीवन्ति ये तु वर्ष इलावृते ।
मेरोः प्रतिदिशं यच्च नवसाहस्रविस्तृतम्

1.17.15

योजनानां सहस्राणि षट्त्रिंशत्तस्य विस्तरः ।
यतुरस्रं समन्ताच्च शरावाकारसंस्थितम्

1.17.16

मेरोः पश्चिमभागे तु नवसाहस्रसम्मिते ।
चतुस्त्रिंशत्सहस्राणि गन्धमादनपर्वतः

1.17.17

उदग्दक्षिणतश्चैव आनीलनिषधायतः ।
चत्वारिंशत्सहस्राणि परिवृद्धो महीतलात्

1.17.18

सहस्रमवगाढश्च तावदेव च विस्तृतः ।
पूर्वेण माल्यवाञ्छैलस्तत्प्रमाणः प्रकीर्त्तितः

1.17.19

दक्षिणेन तु नीलश्च निषधश्चोत्तरेण तु ।
तेषां मध्ये महामेरुः स्वैः प्रमाणैः प्रतिष्ठितः

1.17.20

सर्वेषामेव शैलानामवगाढो यथा भवेत् ।
विस्तरस्तत्प्रमाणः स्यादायामो नियुतं स्मृतः

1.17.21

वृत्तभावास्समुद्रस्य महीमण्डलभावतः ।
आयामाः परिहीयन्ते चतुरस्रसमाः स्मृताः

1.17.22

इलावृतं चतुष्कोणं भिन्दन्ती मध्यभागतः ।
प्रभिन्नाञ्जनसंकाशा जम्बूरसवती नदी

1.17.23

मेरोस्तु दक्षिणे पार्श्वे निषधस्योत्तरेण च ।
सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः

1.17.24

नित्यपुष्पफलोपेतः सिद्धचारणसेवितः ।
तस्य नाम्ना समा ख्यातो जम्बूद्वीपो वनस्पतेः

1.17.25

योजनानां सहस्रं च शतं चान्यन्महात्मनः ।
उत्सेधो वृक्षराजस्य दिवं स्पृशति सर्वतः

1.17.26

अरत्नीनां शतान्यष्टावेकषष्ट्यधिकानि तु ।
फलप्रमाणं संख्यातमृषिभिस्तत्त्वदर्शिभिः

1.17.27

पतमानानि तान्युर्व्यां कुर्वन्ति विपुलं स्वनम् ।
तस्या जम्ब्वाः फलरसो नदी भूत्वा प्रसर्प्पति

1.17.28

मेरुं प्रदक्षिणं कृत्वा जम्बूमूलं विशत्यधः ।
तं पिबन्ति सदा त्दृष्टा जंबूरसमिलावृते

1.17.29

जंबूफलरसे पीते न जरा बाधते तु तान् ।
न क्षुधा न श्रमश्चापि न मृत्युर्न च तन्द्रि तम्

1.17.30

तत्र जांबूनदं नाम कनकं देवभूषमम् ।
इन्द्रगोपकसंकाशं जायते भास्वरं तु तत्

1.17.31

सर्वेषां वर्षवृक्षाणां शुभः फलरसः स्तुतः ।
स्कन्नं भवति तच्छुभ्रं कनकं देवभूषणम्

1.17.32

तेषां मूत्रं पुरीषं च दिक्षु सर्वासु सर्वशः ।
ईश्वरानुग्रहाद्भूमिर्मृताश्च ग्रसते तु तान्

1.17.33

रक्षःपिशाचयक्षाश्च सर्वे हैमवतः स्मृताः ।
हेमकूटे तु गन्धर्वा विज्ञेयाः साप्सरोगणाः

1.17.34

सर्वे नागस्तु निषधे शेषवासुकितक्षकाः ।
महामेरौ त्रयस्त्रिंशत्क्रीडन्ते यज्ञियाः सुराः

1.17.35

नीले तु वैदूर्यमये सिद्धा ब्रह्मर्षयो ऽमलाः ।
दैत्यानां दानवानां चर् श्वेतः पर्वत उच्यते

1.17.36

शृङ्गवान्पर्वतश्रेष्ठः पितॄणां प्रतिसंचरः ।
नवस्वेतेषु वर्षेषु यथाभागं स्थितेषु वै

1.17.37

भूतान्युपनिविष्टानि गतिमन्ति ध्रुवाणि च ।
तेषां विवृद्धिर्बहुधा दृश्यते दिव्यमानुषी ।
न संख्या परिसंख्यातुं श्रद्धेया तु बुभूषताम्

मूल पाठ: Brahmāṇḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc