भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्माण्ड पुराण · अध्याय 1.16

1.16.1

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वीतीये ऽनुषङ्गपादे पृथिव्यायामविस्तरो नाम पञ्चदशो ऽध्यायः
सूत उवाच
एवमेव निसर्गो वै वर्षाणां भारते शुभे ।
दृष्टः परमतत्त्वज्ञैर्भूयः किं वर्णयामि वः

1.16.2

ऋषिरुवाच
यदिदं भारतं वर्षं यस्मिन्स्वायंभुवादयः ।
चतुर्दशैते मनवः प्रजासर्गे ऽभवन्पुनः

1.16.3

एतद्वेदितुमिच्छामस्तन्नो निगद सत्त्मः ।
एतच्छ्रुतवचस्तेषामब्रवीद्रोमहर्षणः

1.16.4

अत्र वो वर्णयिष्यामि वर्षे ऽस्मिन् भारते प्रजाः ।
इदं तु मध्यमं चित्रं शुभाशुभफलोदयम्

1.16.5

उत्तरं यत्ममुद्रस्य हिमवद्दक्षिणं च यत् ।
वर्षं तद्भारतं नाम यत्रेयं भारती प्रजा

1.16.6

भरणाच्च प्रजानां वै मनुर्भरत उच्यते ।
निरुक्तवचनाच्चैवं वर्षं तद्भारतं स्मृतम्

1.16.7

इतः स्वर्गश्च मोक्षश्च मध्यश्चान्तश्च गम्यते ।
न खल्वन्यत्र मर्त्यानां भूमौ कर्म विधीयते

1.16.8

भारतस्यास्य वर्षस्य नव भेदान्निबोधत ।
समुद्रातरिता ज्ञेयास्ते त्वगम्याः परस्परम्

1.16.9

इन्द्रद्वीपः कशेरूमांस्ताम्रवर्णो गभस्तिमान् ।
नागद्वीपस्तथा सौम्यो गान्धर्वस्त्वथ वारुणः

1.16.10

अयं तु नवमस्तेषां द्वीपः सागरसंवृतः ।
योजनानां सहस्रे तु द्वीपो ऽयं दक्षिणोत्तरात्

1.16.11

आयतो ह्याकुमार्य्या वै चागङ्गाप्रभवाच्च वै ।
तिर्यगुत्तरविस्तीर्मः सहस्राणि नवैव तु

1.16.12

द्वीपो ह्युपनिविष्टो ऽयं म्लेच्छैरन्तेषु सर्वशः ।
पूर्वे किराता ह्यस्यान्ते पश्चिमे यवनाः स्मृताः

1.16.13

ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः ।
इज्यायुधवणिज्याभिर्वर्त्तयन्तो व्यवस्थिताः

1.16.14

तेषां संव्यवहारो ऽत्र वर्त्तते वै परस्परम् ।
धर्मार्थकामसंयुक्तो वर्णानां तु स्वकर्मसु

1.16.15

संकल्पः पञ्चमानां च ह्याश्रमाणां यथाविधि ।
इह स्वर्गापवर्गार्थं प्रवृत्तिर्येषु मानुषी

1.16.16

यस्त्वयं नवमो द्वीपस्तिर्यगायाम उच्यते ।
कृत्स्नं जयति यो ह्येनं सम्राडित्यभिधीयते

1.16.17

अयं लोकस्तु वै सम्राडन्तरिक्षं विराट् स्मृतम् ।
स्वराडसौ स्मृतो लौकः पुनर्वक्ष्यामि विस्तरात्

1.16.18

सप्तैवास्मिन्सुपर्वाणो विश्रुताः कुल पर्वताः ।
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः

1.16.19

विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ।
तेषां सहस्रश्चान्ये पर्व तास्तु समीपगाः

1.16.20

अविज्ञाताः सारवन्तो विपुलाश्चित्रसानवः ।
संदरः पर्वतश्रेष्ठो वैहारो दुर्दुरस्तथा

1.16.21

कोलाहलः ससुरसो मैनाको वैद्युतस्तथा ।
वातन्धमो नागगिरिस्तथा पाण्डुरपर्वतः

1.16.22

तुङ्गप्रस्थः कृष्णगिरिर्गोधनो गिरिरेव च ।
पुष्पगिर्युज्जयन्तौ च शैलो रैवतकस्तथा

1.16.23

श्रीपर्वतश्चित्रकूटः कूटशैलो गिरिस्तथा ।
अन्ये तेभ्यो ऽपरिज्ञाता ह्रस्वाः स्वलपोपजी विनः

1.16.24

तैर्विमिश्रा जनपदा आर्या म्लेच्छाश्च भागशः ।
पीयन्ते यैरिमा नद्यो गङ्गा सिंधु सरस्वती

1.16.25

शतद्रुश्चन्द्र भागा च यमुना सरयूस्तथा ।
इरावती वितस्ता च विपाशा देविका कुहूः

1.16.26

गोमती धूतपापा च बुद्बुदा च दृषद्वती ।
कौशकी त्रिदिवा चैव निष्ठीवी गेडकी तथा

1.16.27

चक्षुर्लोहित इत्येता हिमवत्पादनिस्सृताः ।
वेदस्मृतिर्वेदवती वृत्रघ्नी सिंधु रेव च

1.16.28

वर्णाशा नन्दना चैव सदानीरा महानदी ।
पाशा चर्मण्वतीनूपा विदिशा वेत्रवत्यपि

1.16.29

क्षिप्रा ह्यवन्ति च तथा पारियात्राश्रयाः स्मृताः ।
शोणो महानदश्चैव नर्म्मदा सुरसा क्रिया

1.16.30

मन्दाकिनी दशार्णा च चित्रकूटा तथैव च ।
तमसा पिप्पला श्येना करमोदा पिशाचिका

1.16.31

चित्रोपला विशाला च बञ्जुला वास्तुवाहिनी ।
सनेरुजा शुक्तिमती मङ्कुती त्रिदिवा क्रतुः

1.16.32

ऋक्षवत्संप्रसूतास्ता नद्यो मणिजलाः शिवाः ।
तापी पयोष्णी निर्विन्ध्या सृपा च निषधा नदी

1.16.33

वेणी वैतरणी चैव क्षिप्रा वाला कुमुद्वती ।
तोया चैव महागौरी दुर्गा वान्नशिला तथा

1.16.34

विन्ध्यपादप्रसूतास्ता नद्यः पुण्यजलाः शुभाः ।
गोदावरी भीमरथी कृष्णवेणाथ बञ्जुला

1.16.35

तुङ्गभद्रा सुप्रयोगा बाह्या कावेर्यथापि च ।
दक्षिणप्रवहा नद्यः सह्य पादाद्विनिःस्मृताः

1.16.36

कृतमाला ताम्रपर्णी पुष्पजात्युत्पलावती ।
नद्यो ऽभिजाता मलयात्सर्वाः शीतजलाः शुभाः

1.16.37

त्रिसामा ऋषिकुल्या च बञ्जुला त्रिदिवाबला ।
लाङ्गूलिनी वंशधरा महेन्द्रतनयाः स्मृताः

1.16.38

ऋषिकुल्या कुमारी च मन्दगा मन्दगामिनी ।
कृपा पलाशिनी चैव शुक्तिमत्प्रभवाः स्मृताः

1.16.39

तास्तु नद्यः सरस्वत्यः सर्वा गङ्गाः समुद्रगाः ।
विश्वस्य मातरः सर्वा जगत्पापहराः स्मृताः

1.16.40

तासां नद्युपनद्यो ऽन्याः शतशो ऽथ सहस्रशः ।
तास्विमे कुरुपाञ्चालाः शाल्वा माद्रेयजाङ्गलाः

1.16.41

शूरसेना भद्रकारा बोधाः सहपटच्चराः ।
मत्स्याः कुशल्याः सौशल्याः कुन्तलाः काशिकोशलाः

1.16.42

गोधा भद्राः करिङ्गाश्च मागधाश्चोत्कलैः सह ।
मध्यदेश्या जनपदाः प्रायशस्त्त्र कीर्त्तिताः

1.16.43

सह्यस्य चौत्तरान्तेषु यत्र गोदावरी नदी ।
पृथिव्यामपि कृत्स्नायां स प्रदेशो मनोरमः

1.16.44

तत्र गोवर्धनं नाम पुरं रामेण निर्मितम् ।
रामप्रियाथ स्वर्गीया वृक्ष दिव्यास्त थौषधीः

1.16.45

भरद्वाजेन मुनिना तत्प्रियार्थे ऽवरोपिताः ।
अतः पुर्वरोद्देशस्तेन जज्ञे मनोरमः

1.16.46

बाह्लीका वाटधानाश्च आभीरा कालतोयकाः ।
अपरान्ताश्च मुह्माश्च पाञ्चलाश्चर्ममण्डलाः

1.16.47

गान्धारा यवनाश्चैव सिंधुसौवीरमण्डलाः ।
चीनाश्चैव तुषाराश्च पल्लवा गिरिगह्वराः

1.16.48

शाका भद्राः कुलिन्दाश्च पारदा विन्ध्यचूलिकाः ।
अभीषाहा उलूताश्च केकया दशामालिकाः

1.16.49

ब्राह्मणाः क्षत्रियाश्चैव वैश्यशूद्रकुलानि तु ।
कांवोजा दरदाश्चैव बर्बरा अङ्गलौहिकाः

1.16.50

अत्रयः सभरद्वाजाः प्रस्थलाश्च दशेरकाः ।
लमकास्तालशालाश्च भूषिका ईजिकैः सह

1.16.51

एते देशा उदीच्या वै प्राच्यान्देशान्निबोधत ।
अङ्गवङ्गा श्चोलभद्राः किरातानां च जातयः ।
तोमरा हंसभङ्गाश्च काश्मीरास्तङ्गणास्तथा

1.16.52

झिल्लिकाश्चाहुकाश्चैव हूणदर्वास्तथैव च

1.16.53

अन्ध्रवाका मुद्गरका अन्तर्गिरिबहिर्गिराः ।
ततः प्लवङ्गवो ज्ञेया मलदा मलवर्तिकाः

1.16.54

समन्तराः प्रावृषेया भार्गवा गोपपार्थिवाः ।
प्राग्ज्योतिषाश्च पुण्ड्राश्च विदेहास्ताम्रलिप्तकाः

1.16.55

मल्ला मगधगोनर्दाः प्राच्यां जनपदाः स्मृताः ।
अथापरे जनपदा दक्षिणापथवासिनः

1.16.56

पण्ड्याश्च केरलाश्चैव चोलाः कुल्यास्तथैव च ।
सेतुका मूषिकाश्चैव क्षपणा वनवासिकाः

1.16.57

माहराष्ट्रा महिषिकाः कलिङ्गश्चैव सर्वशः ।
आभीराश्च सहैषीका आटव्या सारवास्तथा

1.16.58

पुलिन्दा विन्ध्यमौलीया वैदर्भा दण्डकैः सह ।
पौरिका मौलिकाश्चैव श्मका भोगवर्द्धिनाः

1.16.59

कोङ्कणाः कन्तलाश्चान्ध्राः कुलिन्दाङ्गारमारिषाः ।
दाक्षिणाश्चैव ये देशा अपरांस्तान्निबोधत

1.16.60

सूर्य्यारकाः कलिवना दुर्गालाः कुन्तरौः सहः ।
पौलेयाश्च किराताश्च रूपकास्तापकैः सह

1.16.61

तथा करीतयश्चैव सर्वे चैव करन्धराः ।
नासिकाश्चैव ये चान्ये ये चैवान्तरनर्मदाः

1.16.62

सहकच्छाः समाहेयाः सह सारस्वतैरपि ।
कच्छिपाश्च सुराष्ट्राश्च आनर्ताश्चर्बुदैः सह

1.16.63

इत्येते अपरान्ताश्च शृणुध्वं विन्ध्यवासिनः ।
मलदाश्च करूथाश्च मेकलाश्चैत्कलैः सह

1.16.64

उत्तमानां दशार्णाश्च भोजाः किष्किन्धकैः सह ।
तोशलाः कोशलाश्चैव त्रैपुरा वैदिशास्तथा

1.16.65

तुहुण्डा बर्बराश्चैव षट्पुरा नैषधैः सह ।
अनूपास्तुण्डिकेराश्च वीतिहोत्रा ह्यवन्तयः

1.16.66

एते जनपदाः सर्वे विन्ध्यपृष्ठनिवासिनः ।
अतो देशान्प्रवक्ष्यामि पर्वताश्रयिणश्च ये

1.16.67

निहीरा हंसमार्गाश्च कुपथास्तङ्गणाः शकाः ।
अपप्राव रणाश्चैव ऊर्णा दर्वाः सहूहुकाः

1.16.68

त्रिगर्त्ता मण्डलाश्चैव किरातास्तामरैः सह ।
चत्वारि भारते वर्षे युगानि ऋषयो ऽब्रुवन्

1.16.69

कृतं त्रेतायुगं चैव द्वापरं तिष्यमेव च ।
तेषां निसर्गं वक्ष्यामि उपरिष्टादशेषतः

मूल पाठ: Brahmāṇḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc