ब्रह्माण्ड पुराण · अध्याय 1.15
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपादे प्रियव्रतवंशानुकीर्त्तनं नाम चतुदशो ऽध्यायः
सूत उवाच
एवं प्रजासन्निवेशं श्रुत्वा वै शांशपायनिः ।
पप्रच्छ नियतं सूतं पृथिव्युद धिविस्तरम्
कति द्वीपा समुद्रा वा पवता वा कति स्मृताः ।
कियन्ति चैव वर्षाणि तेषु नद्यश्च काः स्मृताः
महा भूतप्रमाणं च लोकालोकं तथैव च ।
पर्यायं परिमाणं च गतिं चन्द्रार्कयोस्तथा ।
एतत्प्रबूहि नः सर्वं विस्तरेण यथार्थतः
सूत उवाच
हन्त वो ऽहं प्रवक्ष्यामि पृथिव्यायामविस्तरम्
संख्यां चैव समुद्राणां द्वीपानां चैव विस्तरम् ।
द्वीपभेदसहस्राणि सप्तस्वन्तर्गतानि च
न शक्यन्ते क्रमेणेह वक्तुं यैः सततं जगत् ।
सप्त द्वीपान्प्रवक्ष्यामि चन्द्रादित्यग्रहैः सह
तेषां मनुष्या स्तर्क्केण प्रमाणानि प्रचक्षते ।
अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत्
प्रकृतिभ्यः परं यच्च तदचिन्त्यं प्रचक्षते ।
नववर्षं प्रवक्ष्यामि जंबूद्वीपं यथातथम्
विस्तरान्मण्डलाच्चैव योजनैस्तन्निबोधत ।
शतमेकं सहस्राणां योजनाग्रात्समन्ततः
नानाजनपदाकीर्णः पुरैश्च विविधैश्शुभैः ।
सिद्धचारणसंकीणः पर्वतैरुपशोभितः
सर्वधातुनिबद्धैश्च शिलाजाल समुद्भवैः ।
पर्वतप्रभवाभिश्च नदीभिः सर्वतस्ततः
जंबूद्वीपः पृथुः श्रीमान् सर्वतः पृथुमण्डलः ।
नवभिश्चावृतः सर्वो भुवनैर्भूतभावनैः
लवणेन समुद्रेण सर्वतः परिवारितः ।
जंबूद्वीपस्य विस्तारात् समेन तु समन्ततः
प्रागायताः सूपर्वाणः षडिमे वर्षपर्वताः ।
अवगाढा ह्युभयतः मसुद्रौ पूर्वपश्चिमौ
हिमप्रायश्च हिमवान् हेमकूटश्च हेमवान् ।
सर्वर्त्तुषु सुखश्चापि निषधः पर्वतो महान्
चतुर्वर्णश्च सौवर्णो मेरुश्चारुतमः स्मृतः ।
द्वात्रिंशच्च सहस्राणि विस्तीर्णः स च मूर्द्धनि
वृत्ताकृतिप्रमाणश्च चतुरस्रः समुच्छ्रितः ।
नानावर्णास्तु पार्श्वेषु प्रजापतिगुणान्वितः
नाभिबन्धनसंभूतो ब्रह्मणो ऽव्यक्तजन्मनः ।
पूर्वतर्ः श्वेतवर्णश्च ब्राह्मणस्तस्य तेन तत्
पार्श्वमुत्तरतस्तस्य रक्तवर्मः स्वभावतः ।
तेनास्य क्षत्त्रभावस्तु मेरोर्नानार्थकारणात्
पीतश्च दक्षिणेनासौ तेन वैश्यत्वमिष्यते ।
भृङ्गपत्रनिभश्चापि पश्चिमेन समाचितः
तेनास्य शूद्रभावः स्यादिति वर्णाः प्रकीर्त्तिताः ।
वृत्तः स्वभावतः प्रोक्तो वर्णतः परिमाणतः
नीलश्च वैदुर्यमयः श्वेतः घुक्लो हिरण्मयः ।
मयुरबर्हवर्णस्तु शातकैंभश्च शृङ्गवान्
एते पर्वतराजानः सिद्धचारणसेविताः ।
तेषामन्तरविष्कंभो नवसाहस्र उच्यते
मध्ये त्विलावृतं नाम महामेरोः समन्तमः ।
नवैवं तु सहस्राणि विस्तीर्णं सर्वतस्तु तत्
मध्ये तस्य महामेरुर्विधूम इव पावकः ।
वेद्यर्द्धं दक्षिणं मेरोरुत्तरार्द्धं तथोत्तरम्
वर्षाणि यानि षट् चैव तेषां ये वर्षपर्वताः ।
द्वे द्वे सहस्रे विस्तीर्णा योजनानां समुच्छ्रयात्
जंबूद्वीपस्य विस्तारात्तेषामायाम उच्यते ।
योजनानां सहस्राणि शतं द्वावायतौ गिरी
नीलश्च निषधश्चैव ताभ्यां हीनास्तु ये परे ।
श्वेतश्च हेमकूटश्च हिमवाञ्छृङ्गवांस्तथा
नवती द्वे अशीती द्वे सहस्राण्यायतास्तु तेः ।
तेषां मध्ये जनपदास्तानि वर्णाणि सप्त वै
प्रपातविषमैस्तैस्तु पर्वतैरावृतानि तु ।
संततानि नदीभेदैरगम्यानि परस्परम्
वसंति तेषु सत्त्वानि नानाजातीनि सर्वशः ।
इदं हैमवतं वर्षं भारतं नाम विश्रुतम्
हेमकूटं परं ह्यस्मा न्नान्ना किंषुरुपं स्मृतम् ।
नैषधं हेमकूटात्तु हरिवर्षं तदुच्यते
हरिवर्षात्परं चापि मेरोश्व तदिलावृतम् ।
इलावृतात्पिरं नीलं सम्यकं नाम विश्रुतम्
रम्यकात्परतर्ः श्वेतं विश्रुतं तद्धिरण्मयम् ।
हिरण्मयात्परं चैव शृङ्गवत्तः कुरु स्मृतम्
धनुःसंस्थे तु विज्ञेये द्वे वर्षे दक्षिणोत्तरे ।
दीर्घाणि तत्र चत्वारि मध्यमं तदिलावृतम्
अर्वाक् च निषधस्याथ वेद्यर्द्धं दक्षिणं स्मृतम् ।
परं नीलवतो यच्च वेद्यर्द्धं तु तदुत्तरम्
वेद्यर्द्धे दक्षिणे त्रीणि त्रीणि वर्षाणि चोत्तरे ।
तयोर्मध्ये तु विज्ञेयो मेरुर्मध्य इलावृतम्
दक्षिणेन तु नीलस्य निषधस्योत्तरेम तु ।
उदगायेतो महाशैलो माल्यवान्नाम नामतः
योजनानां सहस्रं तु आनील निषधायतः ।
आयामतश्चतुस्त्रिंशत्सहस्राणि प्रकीर्तितः
तस्य प्रतीच्यां विज्ञेयः पर्वतो गन्धमादनः ।
आयामतो ऽथ विस्तारान्माल्यवा नितिविश्रुतः
परिमण्डलयोर्मेरुर्मध्ये कनकपर्वतः ।
चतुर्वणः स सौवर्णः चतुरस्रः समुच्छ्रितः
सुमेरुः शुशुभेशुभ्रो राजव त्समधिष्ठितः ।
तरुणादित्यवर्णाभो विधूम इव पावकः
योजनानां सहस्राणि चतुरशीतरुच्छ्रितः ।
प्रविष्टः षोडशाधस्ताद्विस्तृतः षोडशैव तु
शरावसंस्थितत्वात्तु द्वात्रिंशन्मूर्ध्निविस्तृतः ।
विस्तारात्रिगुणस्तस्य परिणाहः समन्ततः
मण्डलेन प्रमाणेन त्र्यस्रे मानं तदिष्यते ।
चत्वारिंशत्सहस्राणि योजनानां समन्ततः
अष्टाभिरधिकानि स्युस्त्र्यस्रे मानं प्रकीर्त्तितम् ।
चतुरस्रेण मानेन परिणाहः समन्ततः
चतुः षष्टिसहस्राणि योजनानां विधीयते ।
स पर्वतो महादिव्यो दिव्यौषधिसमन्वितः
भुवनैरावृतः सर्वो जातरूपमयैः शुभैः ।
तत्र देवगणाः सर्वे गन्धर्वोरगराक्षसाः
शैलराजे प्रदृश्यन्ते शुभाश्चाप्सरसां गणाः ।
स तु मेरुः परिवृतो भुवनैर्भूतभावनैः
चत्वारो यस्य देशा वै चतुःपार्श्वेष्वधिष्ठिताः ।
भद्राश्वा भरताश्वैव केतुमालाश्च पश्चिमाः
उत्तराः कुरवश्चैव कृतपुण्यप्रतिश्रयाः ।
गन्धमादनपर्श्वे तु परैषापरगण्डिका
सर्वर्त्तुरमणीया च नित्यं प्रमुदिता शिवा ।
द्वात्रिंशत्तु सहस्राणि योजनैः पूर्वपश्चिमात्
आयामतश्चतुस्त्रिंशत्सहस्राणि प्रमाणतः ।
तत्र ते शुभकर्माणः केतुमालाः प्रतिष्ठिताः
तत्र काला नराः सर्वे महासत्त्वा महाबलाः ।
स्त्रियश्चोत्पल पत्राभाः सर्वास्ताः प्रियदर्शनाः
तत्र दिव्यो महावृक्षः पनसः पड्रसाश्रयः ।
ईश्वरो ब्रह्मणः पुत्रः कामचारी मनोजवः
तस्य पीत्वा फलरसं जीवन्ति च समायुतम् ।
पार्श्वे माल्यवतश्चापि पूर्वे ऽपूर्वा तु गण्डिका
आयामादथ विस्ताराद्यथैषापरगण्डिका ।
भद्राश्वास्तत्र विज्ञेया नित्यं मुदितमानसाः
भद्रशालवनं चात्र कालाम्रस्तु महाद्रुमः ।
तत्र ते पुरुषाः स्वेता महोत्साहा बलान्विताः
स्त्रियः कुमुदवर्णाभाः सुन्दर्यः प्रियदर्शनाः ।
चन्द्रप्रभाश्चन्द्रवर्णाः पूर्णचन्द्र निभाननाः
चन्द्रशीतलगात्र्यस्ताः स्त्रिय उत्पलगन्धिकाः ।
दशवर्षसहस्राणि तेषामायुरनामयम्
कालाम्रस्य रसं पीत्वा सर्वे च स्थिरयौवनाः ।
दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण च
वर्षं रमणकं नाम जायन्ते तत्र मानवाः ।
रतिप्रधाना विमला जरादौर्गन्ध्यवर्जिताः
शुक्लाभिजनसंपन्नाः सर्वे च प्रियदर्शनाः ।
तत्रापि सुमहान्वृक्षो न्यग्रोधो रोहितो महान्
तस्यापि ते फलरसं पिबन्तो वर्त्तयन्ति वै ।
दशवर्षसहस्राणि शतानि दश पञ्च च
जीवन्ति ते महाभागाः सदा त्दृष्टा नरोत्तमाः ।
दक्षिणे वै शृङ्गवतः श्वेतस्याप्युत्तरेण च
वर्षं हैरण्वतं नाम यत्र हैरण्वती नदी ।
महाबलाः सुतेजस्का जायन्ते तत्र मानवाः
यक्षा वीरा महासत्त्वा धनिनः प्रियदर्शनाः ।
एकादशसहस्राणि वर्षाणां ते महौजसः
आयुः प्रमाणं जीवन्ति शतानि दश पञ्च च ।
यस्मिन्वर्षे महावृक्षो लकुचः षड्रसाश्रयः
तस्य पीत्वा फलरसं ते जीवन्ति निरामयाः ।
त्रीणि शृङ्गवतः शृङ्गाण्युच्छ्रितानि महान्ति च
एकं मणिमयं तेषामेकं चैव हिरण्मयम् ।
सर्वरत्नमयं चैकं भवनैरुपशोभितम्
उत्तरे वै शृङ्गावतः समुद्रस्य च दक्षिणे ।
कुरवस्तत्र तद्वर्षं पुण्यं सिद्धनिषेवितम्
तत्र वृक्षा मधु फला नित्यपुष्पफलोपगाः ।
वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च
सर्वकामप्रदास्तत्र केचिद्वक्षा मनोरमाः ।
गन्धवर्णरसो पेतं प्रक्षरन्ति मधूत्तमम्
अपरे क्षीरिणो नाम वृक्षास्तत्र मनोरमाः ।
ये क्षरन्ति सदा क्षीरं षड्रसं ह्यमृतोपमम्
सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका ।
सर्वर्तुसुखसंपन्ना न्निष्पङ्का नीरजा शुभा
देवलोकच्युतास्तत्र जायन्ते मानवाः शुभाः ।
शुक्लाभिजनसंपन्नाः सर्वे च स्थिरयौवनाः
मिथुनानि प्रसूयन्ते स्त्रियश्चाप्सरसः समाः ।
तेषां ते क्षीरिणां क्षीरं पिबन्ति ह्यमृतो पमम्
मिथुनं जायते सद्यः समं चैव विवर्द्धते ।
समं शीलं च रूपं च प्रियता चैव तत्समा
अन्योन्यमनुरक्ताश्च चक्रवाकसधर्मिणः ।
अनामया ह्यशोकाश्च नित्यं सुखनिषेविणः
त्रयोदशसहस्राणि शतानि दश पञ्च च ।
जीवन्ति ते महावीर्या न चान्यस्त्रीनिषेविणः
मूल पाठ: Brahmāṇḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0