भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्माण्ड पुराण · अध्याय 1.14

1.14.1

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपादे कालसद्भाववर्णनं नाम त्रयोदशोंऽध्याय
सुत उवाच
अथान्तरेषु सर्वेषु अतीतानागतेष्विह ।
तुल्याभिमानिनः सर्वे जायन्ते नामरूपतः

1.14.2

देवाश्चाष्टविधा ये च तस्मिन्मम्वन्तरे ऽधिपाः ।
ऋषयो मनवश्चैव सर्वे तुल्यप्रयोजनाः

1.14.3

महर्षिसर्गः संक्रान्तो वंशं स्वायंभुवस्य तु ।
विस्तरेणानुपूर्व्या च कीर्त्य मानं निबोधत

1.14.4

मनोः स्वायंभूवस्यासन् दश पौत्रास्तु तत्समाः ।
यैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना

1.14.5

ससमुद्रा करवती प्रतिवर्षं निवेशिता ।
स्वायंभुवेंऽतरे पूर्वमाद्ये त्रेतायुगे तथा

1.14.6

प्रियव्रतस्य पुत्रैस्तैः पौत्रैः स्वायंभुवस्य तु ।
प्रजा सत्त्वतपोयुक्तैस्तैरियं विनिवेशिता

1.14.7

प्रियव्रतात्प्रजोपेतान् वीरान्काम्यान्व्यजायत ।
कन्या सा तु महाभाग कर्दमस्य प्रजा पतेः

1.14.8

कन्ये द्वे दश पुत्राश्च सम्राट् कुक्षिश्च ते शुभे ।
तयोर्वै भ्रातरः शूराः प्रजापतिसमा दश

1.14.9

आग्नीध्रश्चाग्निबा हुश्च मेधा मेधातिथिर्वसुः ।
ज्योतिष्मान् द्युतिमान्हव्यः सवनः सभ्र एव च

1.14.10

प्रियव्रतो ऽभ्यषिञ्चत्तान्सप्तसप्तसु पार्थिवान् ।
द्वीपेषु तेषु धर्मेण द्वीपान्ताश्च निबोधत

1.14.11

जंबूद्वीपेश्वरं चक्रे आग्नीध्रं सुमहाबलम् ।
प्लक्षद्वीपेश्वरश्चापि तेन मेधातिथिः कृतः

1.14.12

शाल्मले तु वपुष्मन्तं राजानं सो ऽभिषिक्तवान् ।
ज्योतिष्मन्तं कुशद्वीपे राजानं कृतवान्प्रभुः

1.14.13

द्युतिमन्तं च राजानं क्रैञ्चद्वीपे ऽभ्यषेचयत् ।
शाकद्वीपेश्वरं चापि हव्यं चक्रे प्रियव्रतः

1.14.14

पुष्कराधिपतिं चैव सवनं कृतवान्प्रभुः ।
पुष्करे सवनस्याथ महावीतः सुतो ऽभवत्

1.14.15

धातकिश्चापि द्वावेतौ पुत्रौ पुत्रवता वरौ ।
महावीतं स्मृतं वर्षं तस्य नाम्ना महात्मनः

1.14.16

नाम्ना च धातकेश्चापि धातकीखण्ड उच्यते ।
हव्यो व्यजनयत्पुत्राञ् शाकद्वीपेश्वराञ् प्रभुः

1.14.17

जलदं च कुमारं च सुकुमारं मणीवकम् ।
कुसुमोत्तरमोदाकौ सप्तमं च महाद्रुगम्

1.14.18

जलदं जलदस्याथ प्रथमं वर्षमुच्यते ।
कुमारस्य तु कौमारं द्वितीयं परिकीर्तितम्

1.14.19

सुकुमारं तृतीयं तु सुकुमारस्य तत्स्सतम् ।
मणीवस्य चतुर्थं तु मणीवकमिहोच्यते

1.14.20

कुसुमोत्तरवर्षं यत्पञ्चमं कुसुमोत्तरम् ।
मोदकस्यापि मोदाकं षष्ठं वर्षं प्रकीर्त्तितम्

1.14.21

महाद्रुमस्य नाम्ना च सप्तमं तन्महाद्रुमम् ।
तेषां तु नामभिस्तानि सप्त वर्षाणि तत्र वै

1.14.22

क्रैञ्चद्वीपेश्वरस्यापि पुत्रो द्युतिमतस्तु वै ।
कुशलो मनोनुगस्छोष्णः पावनश्चान्धकारकः

1.14.23

मुनिश्च दुन्दुभिश्चैव सुता द्युतिमतस्तु वै ।
तेषां स्वनामभिर्देशाः क्रैञ्चद्वीपाश्रयाः शुभाः

1.14.24

कुशलस्य तु देशो ऽभूत कौशलो नाम विश्रुतः ।
देशो मनोनुगस्यापि मानोनुगे इते स्मृतः

1.14.25

उष्णस्योष्णः स्मृतो देशः पावनस्यापि पावनः ।
अन्धकारस्य देशस्तु आन्धकारः प्रकीर्त्तितः

1.14.26

मुनेश्च मौनिदेशो वै दुन्दुभेर्दुन्दुभिः स्मृतः ।
एते जनपदाः सप्त क्रैञ्चद्वीपे तु भास्वराः

1.14.27

ज्योतिष्मतः कुशद्वीपे सप्तैवासन्महौजसः ।
उद्भिज्जो वेणुमांश्चैव वैरथो लवणो धृतिः

1.14.28

षष्ठः प्रभाकरश्चा पि सप्तमः कपिलः स्मृतः ।
उद्भिज्जं प्रथमं वर्षं द्वितीयं वेणुमण्डलम्

1.14.29

तृतीयं वै रथाकारं चतुर्थं लवणं स्मृतम् ।
पञ्चमं धृतिमद्वर्षं षष्ठं वर्षं प्रभाकरम्

1.14.30

सप्तमं कपिलं नाम कपिलस्य प्रकीर्त्तितम् ।
तेषां देशाः कशद्वीपे तत्सनामान एव च

1.14.31

आश्रमाचारयुक्ताभिः प्रजाभिः समलङ्कृताः ।
शाल्मलस्येश्वराः सप्त सुतास्ते च वपुष्मतः

1.14.32

श्वेतश्च हरितश्चैव जीमूतो रोहितस्तथा ।
वैद्युतो मानसश्चापि सुप्रभः सप्तमस्तथा

1.14.33

श्वेतस्तु देशः श्वेतस्य हरितस्य सुहारितः ।
जीमूतस्यापि जीमूतो रोहितस्यापि रोहितः

1.14.34

वैद्युतो वैद्युतस्यापि मानसस्य तु मानसः ।
सुप्रभः सुप्रभस्यापि सप्तैते देशपालकाः

1.14.35

प्लक्ष द्वीपं प्रवक्ष्यामि जंबूद्वीपादनन्तरम् ।
सप्त मेधातिथे पुत्राः प्लक्षद्वीपेश्वरा नृपाः

1.14.36

ज्येष्ठः शान्तभयो नाम द्वितीयः शिशिरः स्मृतः ।
सुखोदयस्तृतीयस्तु चतुर्थो नन्द उच्यते

1.14.37

शिवस्तु पेचमस्तेषां क्षेमकः षष्ठ उच्यते ।
ध्रुवस्तु सप्तमो ज्ञेयः पुत्रा मेधातिथेः स्मृताः

1.14.38

सप्तानां नामभिस्तेषां तानि वर्षाणि सप्त वै ।
तस्माच्छान्तभयं चैव शिशिरं च सुखोदयम्

1.14.39

आनन्दं च शिवं चैव क्षेमकं च ध्रुवं तथा ।
तानि तेषां समानानि सप्त वर्षाणि भागशः

1.14.40

निवेशितानि तैस्तानि पूर्वं स्वायंभूवेन्तरे ।
मेधा तिथेस्तु पुत्रैस्तैः प्लक्षद्वीपेश्वरैर्नृबैः

1.14.41

वर्णाश्रमाचारयुक्ताः प्लक्षद्वीपे प्रजाः कृताः ।
प्लक्षद्वीपादिषु त्वेषु शाकद्वीपान्तिकेषु वै

1.14.42

ज्ञेयः पञ्चसु धर्मो वै वर्णाश्रमविभाजकः ।
सुखमायुश्च रूपं च बलं धर्मश्च नित्यशः

1.14.43

पञ्चस्वेतेषु द्वीपेषु सर्वसाधा रणं स्मृतम् ।
प्रक्षद्वीपः परिष्क्रान्तो जंबूद्वीपं निबोधत

1.14.44

आग्नीध्रं ज्येष्ठदायादं काम्यापुत्रं महाबलम् ।
प्रियव्रतो ऽभ्य षिञ्चत्तं जंबूद्वीपेश्वरं नृपम्

1.14.45

तस्य पुत्रा बभूवुर्हि प्रजापतिसमा नव ।
ज्येष्ठो नाभिरिति ख्यातस्तस्य किंपुरुषो ऽनुजः

1.14.46

हरिवर्षस्तृतीयस्तु चतुर्थो ऽभूदिलावृतः ।
रम्यस्तु पञ्चमः पुत्रो हिरण्वान् षष्ठ उच्यते

1.14.47

कुरुस्तु सप्तमस्तेषां भद्राश्वश्चाष्टमः स्मृतः ।
नवमः केतुमालश्च तेषां देशान्निबोधत

1.14.48

नाभेस्तु दक्षिणं वर्षं हिमाख्यं तु पिता ददौ ।
हेमकूटं तु यद्वर्षं ददौ किपुरुषाय तत्

1.14.49

नैषधं यत्स्मृतं वर्षं हरिवर्षाय तं ददौ ।
मध्यमं यत्सुमेरोस्तु ददौ स तदिलावृतम्

1.14.50

नीलं तु यत्स्मृतं वर्षं रम्यायैतप्तिता ददौ ।
श्वेतं यदुत्तरं तस्मात्पित्रा दत्तं हिरण्वते

1.14.51

यदुत्तरे शृङ्गवतो वर्षं तत्कुरवे ददौ ।
साल्यवन्तं तथा वर्षं भद्राश्वाय न्यवेदयत्

1.14.52

गन्धमादनवर्षं तु केतुमाले न्यवेदयत् ।
इत्येतानि मयोक्तानि नव वर्षाणि भागशः

1.14.53

आग्नी ध्रस्तेषु वर्षेषु पुत्रांस्तानभ्यषेचयत् ।
यथाक्रमं स धर्मात्मा ततस्तु तपसि स्थितः

1.14.54

इत्येतौः सप्तभिः कृत्स्ना सप्तद्वीपा निवे शिताः ।
प्रियव्रतस्य पुत्रैस्तैः पौतैः स्वायंभुवस्य च

1.14.55

एवं वर्षेषु सर्वेषु सन्निवेशाः पुनः पुनः ।
क्रियन्ते प्रलये वृत्ते सप्त सप्तसु पार्थिवैः

1.14.56

एवं स्वभावः कल्पानां द्वीपानां च निवेशने ।
यानि किंपुरुषाद्यानि वर्णाण्यष्टौ श्रुतानि तु

1.14.57

तेषां स्वभावतः सिद्धिः सुखप्रायमयत्नतः ।
विपर्ययो न तेष्वस्ति जरामृत्युभयं न च

1.14.58

धर्माधर्मौं न तेष्वास्ता नोत्तमाधममध्यमाः ।
न तेष्वस्ति युगावस्था क्षेत्रेष्वष्टासु सर्वशः

1.14.59

नाभेर्निसर्गं वक्ष्यामि हिमाह्वे ऽस्मिन्निबोधत ।
नाभिस्त्वज नयत्पुत्रं मेरुदेव्यां महाद्युतिम्

1.14.60

ऋषभं पार्थिवश्रेष्ठं सर्वक्षत्रस्य पूर्वजम् ।
ऋषभाद्भरतो जज्ञे वीरः पुत्रशताग्रजः

1.14.61

सोभिषिच्यर्षभः पुत्रं महाप्रव्रज्यया स्थितः ।
हिमाह्वं दक्षिणं वर्षं भरताय न्यवेदयत्

1.14.62

तस्मात्तु भारतं वर्षं तस्य नाम्ना विदुर्बुधाः ।
भरतस्यात्मजो विद्वान्सुमतिर्नाम धार्मिकः

1.14.63

बभूव तस्मिन् राज्ये तंभरतस्त्वभ्यषेचयत् ।
पुत्रसंक्रामितश्रीस्तु वनं राजा विवेश सः

1.14.64

तेजसस्तत्सुतश्चापि प्रजापतिरमित्रजित् ।
तेजसस्यात्मजो विद्वानिन्द्रद्युम्न इति स्मृतः

1.14.65

परमेष्ठी सुतश्चापि निधने तस्य चाप्यभूत् ।
प्रतीहारः कुलं तस्य नाम्ना जज्ञे तदन्वयः

1.14.66

प्रतिहर्तेति विख्यातो जज्ञे तस्यापि धीमतः ।
उन्नेता प्रतिहर्तुस्तु भूमा तस्य सुतः स्मृतः

1.14.67

उद्गीथस्तस्य पुत्रो ऽभूतप्रस्ताविश्चापि तत्सुतः ।
प्रस्तावेस्तु विभुः पुत्रः पृथुस्तस्य सुतो ऽभवत्

1.14.68

पृथोश्चापि सुतो नक्तो नक्तस्यापि गयः सुतः ।
गयस्यापि नरः पुत्रो नरस्यापि सुतो विराट्

1.14.69

विराट्सुतो महावीर्यो धीमांस्तस्य सुतो ऽभवत् ।
धीमतश्च महान्पुत्रो महतश्चापि भौवनः

1.14.70

भौवनस्य सतस्त्वष्टा विरजास्तस्य चात्मजः ।
रजा विरजसः पुत्रः शतजिद्रजसस्तथा

1.14.71

तस्य पुत्रशतं त्वासीद्राजानः सर्व एव तु ।
विश्वज्योतिष्प्रधानास्ते यैरिमा वर्द्धिताः प्रजाः

1.14.72

तैरिदं भारतं वर्षं सप्तद्वीपमिहाङ्कितम् ।
तेषां वंशप्रसूतैस्तु भुक्तेयं भारती पुरा

1.14.73

कृतत्रेतादियुक्तास्तु युगाख्या ह्येकसप्ततिः ।
ये ऽतीतास्तैर्युगैः सार्धं राजानस्ते तदन्वयाः

1.14.74

स्वायंभुवेंऽतरे पूर्वं शतशो ऽथ सहस्रशः ।
एवं स्वायं भुवः सर्गो येनेदं पूरितं जगत्

1.14.75

ऋषिभिर्दैवतैश्चापि पिर्तृगन्धवराक्षसैः ।
यक्षभूतपिशाचैश्च मनुष्यमृगपक्षिभिः ।
तेषां सृष्टिरियं प्रोक्ता युगैः सह विवर्त्तते

मूल पाठ: Brahmāṇḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc