ब्रह्माण्ड पुराण · अध्याय 1.13
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपादे अग्निनिचयो नाम द्वादशो ऽध्यायः
सुत उवाच
ब्रह्मणः सृजतः पुत्रान् पूर्वं स्वायंभुवेंऽतरे ।
गात्रेभ्यो जज्ञिरे तस्य मनुष्यासुरदेवताः
पितृवन्मन्यमानास्तं जज्ञिरे पितरो ऽपि च ।
तेषां निसर्गः प्रागुक्तः समासाच्छ्रुयतां पुनः
देवासुरमनुष्यांश्च सृष्ट्वा ब्रह्माभ्यमन्यत ।
पितृवन्मन्यमाना वै जज्ञिरे ऽस्योपपक्षतः
मध्वादयः षडृतवः पितॄंस्तान्परिचक्षते ।
ऋतवः पितरो देवा इत्येषा वैदिकी श्रुतिः
मन्वन्तरेषु सर्वेषु ह्यतीतानागतेषु वै ।
एते स्वायंभुवे पूर्वमुत्पन्नाश्चान्तरे शुभे
अग्निष्वात्ता स्मृता नाम्ना तथा बर्हिषदश्च वै ।
अयज्वानस्तथा तेषामासन्ये गृहमेधिनः
अग्निष्वात्ता स्मृतास्ते वै पितरो नाहिताग्नयः ।
यज्वानस्तेषु ये त्वासन्पितरः सोमपीथिनः
स्मृता बर्हिषदस्ते वै पितर स्त्वग्निहोत्रिणः ।
ऋतवः पितरो देवाः शास्त्रे ऽस्मिन्निश्चयं गताः
मधुमाधवौ रसौ ज्ञेयौ शुचिशुक्रौ च शुष्मिणौ ।
नभाश्चैव नभस्यश्च जीवावेतापुदात्दृतौ
इषश्चैव तथोर्जश्च स्वधावन्तावृदात्दृतौ ।
सहश्चैव सहस्यश्च घोरावेतापुदात्दृतौ
तपाश्चैव तपस्यश्च मन्युमन्तौ तु शैशिरौ ।
कालावस्थासु षट्स्वेते मासाख्या वै व्यवस्थिताः
इमे च ऋतवः प्रोक्ताश्चेतनाचेतनेषु वै ।
ऋतवो ब्रह्मणः पुत्रा विज्ञेयास्ते ऽभिमानिनः
मासार्द्धमासस्थानेषु स्थानिनौ ऋतवो मताः ।
स्थानानां व्यतिरेकेण ज्ञेयाः स्थानागिमानिनः
अहोरात्राणि मासाश्च ऋतवश्चायनानि च ।
संवत्सराश्च स्थानानि कामाख्या ह्यभिमानिनाम्
एतेषु स्थानिनो ये तु कालावस्था व्यवस्थिताः ।
तत्सतत्त्वास्तदात्मानस्तान्वक्ष्यामि निबोधत
पार्वण्यस्ति थयः संध्याः पक्षा मासार्द्धसंमिताः ।
निमेषाश्च कलाः कष्ठा मुहुर्त्ता दिवसाः क्षयाः
द्वावर्द्धमासौ मासस्तु द्वौ मासावृ तुरुच्यते ।
ऋतुत्रयं चाप्ययनं द्वे ऽयने दक्षिणोत्तरे
संवत्सरः समेतश्च स्थानान्येतानि स्थानिनाम् ।
ऋतवस्तु निमेः पुत्रा विज्ञेयास्ते तथैव षट्
ऋतुपुत्राः स्मृताः पञ्च प्रजाः स्वार्तवलक्षणाः ।
यस्माच्चैवार्त्तवेभ्यस्तु जायन्ते स्थाणु जङ्गमाः
आर्तवाः पितरस्तस्मादृतवश्च पितामहाः ।
समेतास्तु प्रसूयन्ते प्रजाश्चैव प्रजापतेः
तस्मात्स्मृतः प्रजानां वै वत्सरः प्रपितामहः ।
स्थानेषु स्थानिनो ह्येते स्थानात्मानः प्रकीर्त्तिताः
तदाख्यास्तत्ससत्त्वाश्च तदात्मानश्च ते स्मृताः ।
प्रजापतिः स्मृतो यस्तु स तु संवत्सरो मतः
संवत्सरसुतो ह्यग्नि ऋत इत्युच्यते बुधैः ।
ऋतात्तु ऋतवो यस्माज्जज्ञिरे ऋतवस्ततः
मासाः षडर्तवो ज्ञेयास्तेषां पञ्चर्तवाः स्मृताः ।
द्विपदां चतुष्पदां चैव पक्षिणां सर्वतामपि
स्थावराणां च पञ्चानां पुष्पं कालार्त्तवं स्मृतम् ।
ऋतुत्वमार्तवत्वं च पितृत्वं च प्रकीर्त्तितम्
इत्येते पितरो ज्ञेया ऋतवश्चार्तवाश्च ये ।
सर्वभूतानि तेभ्यो यदृतुकालाद्विजज्ञिरे
तस्मादेते हि पितर आर्तवा इति नः श्रुतम् ।
मन्वन्तरेष्विह त्वेते स्थिताः कालभिमानिनः
कार्यकारणयुक्तास्तु ए श्वर्याद्व्याप्य संस्थिताः ।
स्थानाभिमानिनो ह्येते तिष्ठन्तीह प्रसंगमात्
अग्निष्वात्ता बर्हिषदः पितरो विविधाः पुनः ।
जज्ञे स्वधापितृभ्यस्तु द्वे कन्ये लोकविश्रुते
मेना च धारणी चैव याभ्यां धतमिदं जगत् ।
ते उभे ब्रह्मवादिन्यौ योगिन्यौ चैव ते उभे
पितरस्ते निजे कन्ये धर्मार्थं प्रददुः शुभे ।
अग्निष्वात्तास्तु ये प्रोक्तास्तेषां मेना तु मानसी
धारणी मानसी चैव कन्या बर्हिषदां स्मृता ।
मेरोस्तां धारणीं नाम पत्न्यर्थं वा सृजन् घुभाम्
पितरस्ते बर्हिषदः स्मृता ये सोमपायिनः ।
अग्निष्वात्तास्तु तां मेना पत्नी हिमवते ददुः
उपहूता स्मृता ये वै तद्दौहित्रान्निबोधत ।
मेना हिमवतः पत्नी मैनाकं सा व्यजायत
गङ्गां सरिद्वरां चैव पत्नी या लवणोदधेः ।
मैनाकस्या त्मजः क्रौचः क्रैञ्चद्वीपो यतः स्मृतः
मेरोस्तु धारणी पत्नी दिव्यौषधिसमन्वितम् ।
मन्दरं सुषुवे पुत्रं तिस्रः कन्याश्च विश्रुताः
वेलां च नियतिं चैव तृतीयां चायतिं विदुः ।
धातुश्चैवायतिः पत्नी विधातुर्नियतिः स्मृता
स्वायं भुवेंऽतरे पूर्वं ययोर्वै कीर्त्तिताः प्रजाः ।
सुषुवे सागराद्वेला कन्यामेकामनिन्दिताम्
सवर्णां नाम सामुद्रीं पत्नीं प्राचीनबर्हिषः ।
सवर्णायां सुता जाता दश प्राचीनबर्हिषः
सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः ।
तेषां स्वायंभुवो दक्षः पुत्रत्वं जग्मि वान्प्रभुः
त्रयंबकस्याभिशापेन चाक्षुषस्यातरे मनोः ।
एतच्छुत्वा ततः सूतमपृच्छच्छांशपायनिः
उत्पन्नः स कथं दक्षो ह्यभिशापाद्भवस्य तु ।
चाक्षुषस्यान्तरे पूर्वं तन्नः प्रब्रूहि पृच्छताम्
इत्युक्तः कथयामास सूतो दक्षाश्रयां कथाम् ।
शांशपायनिमामन्त्र्य त्र्यंबकाच्छापकारणम्
सूत उवाच
दक्षस्यासन्सुता ह्यष्टौ कन्या याः कीर्त्तिता मया ।
स्वेभ्यो गृहेभ्य आनाय्य ताः पिताभ्यर्चयद्गृहे
ततस्त्वभ्यर्चिताः सर्वा न्यवसंस्ताः पितुर्गृहे ।
तासां ज्येष्ठा सती नाम पत्नी या त्र्यंबकस्य वै
नाजुहावात्मजां तां वै दक्षो रुद्रमभिद्विषन् ।
अकरोत्संनतिं दक्षे न कदाचिन्महेश्वरः
जामाता श्वशुरे तस्मिन्स्वभावात्तेजसि स्थितः ।
ततो ज्ञात्वा सती सर्वाः न्यवसंस्ताः पितुर्गृहे
जगाम साप्यनाहूता सती तत्स्व पितुर्गृहम् ।
ताभ्यो हीनां पिता चक्रे सत्याः पूजामसंमताम्
ततो ऽब्रवीत्सा पितरं देवी क्रोधादमर्षिता ।
यवीयसीभ्यो प्यधमां पूजां कृत्वा मम प्रभो
असत्कृत्य पितर्मां त्वं कृतवानसि गर्हितम् ।
अहं ज्येष्ठा वरिष्ठा च त्वं मां सत्कर्तुमर्ह सि
एवमुक्तो ऽब्रवीदेनां दक्षः संरक्तलोचनः ।
त्वत्तः श्रेष्ठावरिष्ठाश्च पूज्या बालाः सुता मम
तासां चैव तु भर्तार स्ते मे बहुमाताः सति ।
ब्रह्मिष्ठाः सुतपस्काश्च महायोगाः सुधार्मिकाः
गुणैश्चैवाधिकाः श्लाघ्याः सर्वे ते त्र्यंबकात्सति ।
वसिष्ठो ऽत्रिः पुलस्त्यश्च ह्यङ्गिरा पुलहः क्रतुः
भृगुर्मरीचिश्च तथा श्रैष्ठा जामातरो मम ।
यस्मान्मां स्पर्द्धते शर्वः सदा चैवावमन्यते
तेन त्वां न विभूषोमि प्रतिकूलो हि मे भवः ।
इत्युक्तवांस्तदा दक्षः संप्रमूढेन चेतसा
शापार्थमात्मनश्चैव ये चोक्ताः परमर्षयः ।
तथोक्ता पितरं सा वै क्रुद्धा देवीदम ब्रवीत्
वाङ्मनः कर्मभिर्यस्माददुष्टां मां विगर्हसे ।
तस्मात्त्यजाम्यहमिमं देहं तात तवात्मजम्
ततस्तेनावमानेन सती दुःखादमर्षिता ।
अब्रवीद्वचनं देवी नमस्कृत्य स्वयंभुवे
यत्राहमुपपद्ये च पुनर्देहेन भास्वता ।
तत्राप्यहमसंभूता संभूता धार्मिकादपि
गच्छेयं धर्मपत्नीत्वं त्र्यंबकस्यैव धीमतः ।
तत्रैवाथ समासीना युक्तात्मानं समादधे
धारयामास चाग्नेयीं धारणां मनसात्मनः ।
तत आत्मसमुत्थो ऽस्या वायुना समुदीरितः ।
सर्वागेभ्यो विनिःसृत्य वह्निस्तां भस्मसात्करोत्
तदुपश्रुत्य निधनं सत्या देवो ऽथ शूलभृत् ।
संवादं च तयोर्बुद्धा याथातथ्येन शङ्करः ।
दक्षस्य च ऋषीणां च चुकोप भगवान्प्रभुः
रुद्र उवाच
सर्वेषामेव लोकानां भूर्लोकस्त्वादिरुच्यते ।
तं सदा धारयिष्यामि निदेशात्परमेष्ठिनः
अस्यां क्षितौ धृता लोकाः सर्वे तिष्ठन्ति भास्वराः ।
तानहं धारया मीह सततं च तदाज्ञया
चातुर्वर्ण्यं हि देवानां ते चाप्येकत्र भुञ्जते ।
नाहं तैः सह भोक्षये वै ततो दास्यन्ति ते पृथक्
यस्मादवमता दक्ष मत्कृते ऽनागसा सती ।
प्रशस्ताश्चेतराः सर्वाः स्वसुता भर्तृभिः सह
तस्मा द्वैवस्वते प्राप्ते पुनरेते महर्षयः ।
उत्पत्स्यन्ते द्वितीये वै मम यज्ञ ह्ययोनिचाः
हुते वै ब्रह्मणा शुक्रे चाक्षुषस्यातरे मनोः ।
अभिव्याहृत्य सर्वांस्तान् दक्षं चैवाशपत्पुनः
भविता मानुषो राजा चाक्षुषस्य त्वमन्वये ।
प्राचीनबर्हिषः पौत्रः पुत्रश्चैव प्रचे तसाम्
दक्ष एवेह नाम्ना तु मारिषायां जनिष्यसि ।
कन्यायां शाखिनां त्वं वै प्राप्ते वैवस्वतेंऽतरे
विघ्नं तत्रा प्यहं तुभ्यमाचरिष्यामि दुर्मते ।
धर्म्मयुक्ते च ते कार्ये एकस्मिंस्तु दुरासदे
सुत उवाच
तदुपश्रुत्य दक्षस्तु रुद्रं सो ऽभ्य शपत्पुनः ।
यस्मात्त्वं मत्कृते ऽनिष्टमृषीणां कृतवानसि ।
तस्मात्सार्द्धं सुरैर्यज्ञे न त्वां यक्ष्यन्ति वै द्विजाः
हुत्वाऽहुतिं तव क्रूर ह्यपः स्प्रक्ष्यन्ति कर्मसु ।
इहैव वत्स्यसि तथा दिवं हित्वा युगक्षयात्
ततो देवैःस तैः सार्द्धं नेज्यते पृथसिज्यते ।
ततो ऽभिव्याहृतो दक्षो रुद्रेणामिततेजसा
स्वायंभुवीं तनुं त्यक्त्वा उत्पन्नो मानुषेष्विह
ज्ञात्वा गृहपतिर्दक्षो यज्ञाना मीश्वरं प्रभुम् ।
समस्तेनेह यज्ञेन सो ऽयजद्दैवतैः सह
अथ देवी सती या तु प्राप्ते वैवस्वतेंऽतरे ।
मेनायां तामुमां देवीं जनयामास शैलराट्
या तु देवी सती पूर्वमासीत्पश्चादुमाभवत् ।
सदा पत्नी भवस्यैषा न तया मुच्यते भवः
मरीचं कश्यपं देवी यथादितिरनुव्रता ।
यथा नारायणं श्रीश्च मघवतं शची यथा
विष्णुं कीर्ती रुषा मूर्यं वसिष्ठं चाप्यरुन्धती ।
नैतास्तु विजहत्येतान् भर्तॄन् देव्यः कदाचन
आवर्तमानाः कल्पेषु जायन्ते तैः पुनः सह ।
एवं प्राचेतसो दक्षो जज्ञे वै चाक्षुषेंऽतरे
दशभ्यस्तु प्रचेतोभ्यो मारिषायां पुनर्नृपः ।
जज्ञे तदाभिशापेन द्वितीय इति नः श्रुतम्
भृगवादयश्च ये सप्त जज्ञिरे च महर्षयः ।
आद्ये त्रेतायुगे पूर्वं मनोर्वैवस्वतस्य च
देवस्य महतो यज्ञे वारुणीं बिभ्रतस्तनुम् ।
इत्येषो ऽनुशयो ह्यासीत्तयोर्जात्यन्तरानुगः
प्रजापतेश्च दक्षस्य त्र्यबकस्य च धीमतः ।
तस्मान्नानुशयः कार्यो वैरेष्विह कदाचन
जात्यन्तरगतस्यापि भवितस्य शुभाशुभैः ।
ख्यातिं न मुञ्चते जन्तुस्तन्न कार्यं विपश्चिता
इत्येषा समनुक्रान्ता कथा पापप्रमोचनी ।
या दक्षमधिकृत्येह त्वया पूर्वं प्रचौदिता
पितृवंशप्रसंगेन कथा ह्येषा प्रकीर्त्तिता ।
पितॄणामानुपूर्व्येण देवान्वक्ष्याम्यतः परम्
त्रेतायुगमुखे पूर्वमासन्स्वायंभुवेंऽतरे ।
देवायामा इति ख्याताः पूर्वं ये यज्ञसूनवः
प्रथिता ब्रह्मणः पुत्रा अजत्वादजितास्तु ते ।
पुत्राः स्वायंभुवस्यैते शक्ता नाम तु मानसाः
तेषां यतो गणा ह्येते देवानां तु त्रयः स्मृताः ।
छन्दजास्तु त्रयस्त्रिंशत्सर्गे स्वायंभुवस्य ह
यदुर्ययातिर्देवौ द्वौ वीवधस्रासतो मतिः ।
विभासश्च क्रतुश्चैव प्रयातिर्विश्रुतो द्युतिः
वायव्यः संयमश्चैव यामा द्वादश कीर्त्तिताः ।
असमश्चोग्रदृष्टिश्च सुनयो ऽथ शुचिश्रवाः
केवलो विश्वरूपश्च सुदक्षो मधुपस्तथा ।
तुरीय इद्रयुक्चैव युक्तो ग्रावजितस्तु वै
चनिमा विश्वदेवा च जविष्ठो मितवानपि ।
जरो विभुर्विभावश्च स ऋचीको ऽथ दुर्दिहः
श्रुतिर्गृणानो ऽथ बृहच्छुक्रा द्वादश कीर्त्तिताः ।
आसन्स्वायंभुवस्यैते चान्तरे सोमपायिनः
दीप्तिमन्तो गणा ह्येते वीर्यवन्तो महाबलाः ।
तेषामिन्द्रस्तद्दा ह्यासीत्प्रथमे विश्वभुक्त प्रभुः
असुरा ये तदा तेषामासन् दायादबान्धवाः ।
सुपर्णयक्षगन्धर्वाः पिशाचोरगराक्षसाः
अष्टौ ताः पितृभिः सार्द्धमासन्या देवयोनयः ।
स्वायंभुवेन्तरे ऽतीताः प्रजास्तासां महस्रशः
प्रभावरूपसंपन्ना आयुषा च बलेन च ।
विस्तरादिह नोच्यन्ते माप्रसंगो भवेदिह
स्वायंभुवो विसर्गस्तु विज्ञेयः सांप्रतेन ह ।
अतीतो वर्तमानेन दृष्टो वैवस्वते न सः
प्रजाभिर्देवाताभिश्च ऋषिभिः पितृभिः सह ।
तेषां सर्पर्षयः पूर्वमासन्ये तान्निबोधत
भृग्वं गिरा मरीचिश्च पुलस्त्यः पुलहः क्रतुः ।
अत्रिश्चैव वसिष्ठस्च सप्त स्वायंभुवे ऽतरे
आग्नीध्रश्चाग्निबाहुश्च मोधा मेधातिथिर् वसुः ।
ज्योतिष्मान् द्युतिमान्हव्यः सवनः सत्त्र एव च
मनोः स्वायंभुवस्यैते दश पुत्रा महौजसः ।
वायुवेगा महासत्त्वा राजानः प्रथमेंऽतरे
सासुरं तत्सुगन्धर्वं सयक्षोरगराक्षसम् ।
सपिशाचमनुष्यञ्च ससुपर्णाप्सरोगणम्
नशक्यमानु पूर्व्येण वक्तुं वर्षशतैरपि ।
बहुत्वान्नामधेयानां संख्या तेषां कुतः कुले
या वै प्रजा युगाख्यास्तु आसन्स्वायंभुवेंऽतरे ।
कालेन महतातीता अयनाब्दयुगक्रमैः
ऋषय ऊचुः
क एष भगवान् कालः सर्वभूतापहारकः ।
कस्य योनिः किमादिश्च किं सतत्त्वः किमात्मकः
किमस्य चक्षुः का मूर्तिः के वा अवयवाः स्मृताः ।
किं नामधेयं को ऽस्यात्मा एप्तत्त्वं ब्रूहि तत्त्वतः
सूत उवाच
श्रूयता कालसद्भावः श्रुत्वा चैवावधार्यताम् ।
सूर्ययोनिर्निमेषादिः संख्याचक्षुः स उच्यते
मूर्तिरस्य त्वहो रात्रो निमेषावयवश्च सः ।
संवत्सरः सतत्त्वश्च नाम चास्य कलात्मकः
साम्प्रतानागतातीतकालात्मा स प्रजापतिः ।
पञ्चधा प्रविभक्तां तु कालावस्थां निबोधत
दिवसार्द्धमासमासैश्च ऋतुभिस्त्वयनैस्तथा ।
संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः
इड्रवत्सरस्तृतीयश्च चतुर्थश्चानुवत्सरः ।
पञ्चमो वत्सरस्तेषां कालःस युगसज्ञितः
तेषां तत्त्वं प्रवक्ष्यामि कीर्त्यमानं निबोधत ।
क्रतुरग्निस्तु यः प्रोक्तः स तु संवत्सरो मतः
आदितेयस्त्वसौ सूर्यः कालाग्निः परिवत्सरः ।
शुक्लकृष्णगतिश्चापि अपां सारमयः खगः
स इडावत्सरः सोमः पुराणे निश्चयं गतः ।
यश्चायं पवते लोकांस्तनुभिः सप्तसप्तभिः
अनुवाता च लोकस्य स वायुरनुवत्सरः ।
अहङ्कारादुदग्रुद्रः संभूतो ब्रह्मणास्तु यः
स रुद्रो वत्सर स्तेषां विज्ञेयो नीललोहितः ।
सतत्त्वं तस्य वक्ष्यमि कीर्त्यमानं निबोधत
अङ्गप्रत्यङ्गसंयोगात्कालात्मा प्रतितामहः ।
ऋक्सामयजुषां योनिः पञ्चानां पतिरीश्वरः
सो ऽग्निर्यमश्च कालश्च संभूतिः स प्रजापतिः ।
प्रोक्तः संवत्सरश्चेति सूर्य चोनिर्मनीषिभिः
यस्मात्कालविभागानां मासर्त्वयनयोरपि ।
ग्रहनक्षत्रशीतोष्णवर्षायुः कर्मणां तथा
योनिः स प्रविभागानां दिवसानां च भास्करः ।
वैकारिकः प्रसन्नात्मा ब्रह्मपुत्रः प्रजापतिः
एको नैको ऽथ दिवसो मासो ऽथर्तुः पितामहः ।
आदित्यः सविता भानुर्जीवनो ब्रह्मसत्कृतः
प्रभवश्चाव्ययश्चैव भूतानां तेन भास्करः ।
ताराभिमानी विज्ञेयो द्वितीयः परिवत्सरः
सोमः सर्वौंषधिपतिर्यस्मात्स प्रपितामहः ।
आजीवः सर्वभूतानां योगक्षेमकृदीश्वरः
आवेक्षमाणः सततं बिभर्ति जगदंशुभिः ।
तिथीनां पर्वसंधीनां पूर्णिमादर्शयोरपि
योनिर्निशाकरो यश्च अमृतात्मा प्रजापतिः ।
तस्मात्स पितृमान्सोमः स्मृत इङ्वत्सरात्मकः
प्राणापानसमानाद्यैर्व्यानोदानात्मकैरपि ।
कर्मभिः प्राणिनां लोके सर्वचेष्टाप्रवर्तकः
पञ्चानां चेन्द्रियमनोर्बुद्धिस्मृतिबलात्मनाम् ।
समानकालकरणक्रियाः संपादयन्नपि
सर्वात्मा सर्वलोकेश आवहप्रवहादिभिः ।
वर्त्तते चोपकारैर्यस्तनुभिः सप्तसप्तभिः
विधाता सर्वभूतानाङ्क्षेमी नित्यं प्रभञ्जनः ।
योनिरग्नेरपां भूमे रवेश्चन्द्रमसश्चयः
वायुः प्रजापतिर्भूतो लोकात्मा प्रपितामहः ।
अहोरात्रकरस्तस्मात्स वायुरनुवत्सरः
एते प्रजानां पतयश्चत्वार उपपक्षजाः ।
पितरः सर्वलोकानां लोकात्मानः प्रकीर्त्तिताः
ध्यायतो ब्रह्माणो वक्त्रादुदन्समभवद्भवः ।
ऋषिर्विप्रा महादेवो भूतात्मा प्रपितामहः
ईश्वरः सर्वभूतानां प्रणवो यो ऽथपठ्यते ।
आत्मावेशेन भूतानामङ्गप्रत्यङ्गसंभवः
उन्मादको ऽनुग्रहकृद्रुद्रो वत्सर उच्यते ।
सूर्य्यश्च चन्द्रमाश्चाग्निर्वायू रुद्रस्तथैव च
युगाभिमानी कालात्मा नित्यं संक्षयकृद्विभुः ।
रुद्रः प्रविष्टो भगवाञ्जगत्यस्मिन्स्वतेजसा
आश्रयान्मयि संयोगात्तनुभिर्नाममिस्तथा ।
ततस्तस्य तु वीर्येण लोकानुग्रहकारकम्
देवत्वं च पितृत्वं च कालत्वं चास्य यत्परम् ।
तस्माद्वै सर्वथा रुद्रस्तद्विद्वद्भिरभीज्यते
यतः पतिः स भगवान् प्रजेशानां प्रजापतिः ।
भावनः सर्वभूतानां सर्वात्मा नीललोहितः
औषधीः प्रतिसंधत्ते रुद्रः क्षीणाः पुनःपुनः ।
प्रजापतिमुखैर्देवैः सम्यगिष्टफलार्थिभिः
त्रिभिरेव कपालैश्च त्रयंबकैरौषधिक्षये ।
इज्यते भगवान् यस्मात्तस्मार्त्र्यंबक उच्यते
गायत्री चैव त्रिष्टुप्च जगती चैव याः स्मृताः ।
त्र्यंबका नामतः प्रेम्णा योनयस्ता वनस्पतेः
ताभिरेकत्वभूताभिस्त्रिविधाभिः स्ववीर्यतः ।
त्रिसाधनः पुरोडाशस्त्रिकपालः स वै स्मृतः
त्र्यंबकः स पुरोडाशस्तेनैष त्र्यंबकः स्मृतः ।
इत्येतत्पञ्चवर्षं हि युगं प्रोक्तं मनीषिभिः
यश्चैष पञ्चधात्मा वै प्रोक्तः संवत्सरो द्विजैः ।
सैकः षट्को विजज्ञे ऽथ मध्वादिऋतुसंज्ञकः
ऋतुपुत्रार्त्तवाः पञ्च इति सर्गः समासतः ।
इत्येष बहुमानो वै प्राणिना जीवितानि च ।
नदीवेग इवासक्तः कालो धावति संहरन्
एतेषां यदपत्यं वै तदशक्यं प्रमाणतः ।
बहुत्वात्परिसंख्यातुं पुत्र पौत्रमनन्तकम्
इमं वंशं प्रजेशानां महतः पुण्यकर्मणाम् ।
कीर्त्तयन्पुण्यकीर्त्तीनां महतीं सिद्धिमाप्नुयात्
मूल पाठ: Brahmāṇḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0