भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्माण्ड पुराण · अध्याय 1.12

1.12.1

विस्तरेणानुपूर्व्याच्च अग्नेर्वक्ष्याम्यतः परम् ।
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपादे ऋषिसर्गवर्णनं नामैकादशो ऽध्यायः
सूत उवाच
यो ऽसावग्ने रभिमानी स्मृतः स्वायंभुवे ऽन्तरे ।
ब्रह्मणो मानसः पुत्रस्तस्मात्स्वाहा व्यजायत

1.12.2

पावकं पवमानं च शुचिरग्निश्च यः स्मृतः ।
निर्मथ्यः पवमानस्तु वैद्युतः पावकः स्मृतः

1.12.3

शुचिः सौरस्तु विज्ञेयः स्वाहापुत्रास्तु ते त्रयः ।
निर्मथ्यः पवमानस्तु शुचिः सौरस्तु यः स्मृतः

1.12.4

अब्योनिर्वैद्युतश्चैव तेषां स्थानानि तानि वै ।
पवमानात्मजश्चैव कव्यवाहन उच्यते

1.12.5

पावकिः सहरक्षस्तु हव्यवाहः शुचेः सुतः ।
देवानां हव्यवाहो ऽग्निः पितॄणां कव्यवाहनः

1.12.6

सह रक्षो ऽसुराणां तु त्रयाणां तु त्रयो ऽग्नयः ।
एतेषां पुत्रपौत्रास्तु चत्वारिंशन्न वैव तु

1.12.7

वक्ष्यामि नामभिस्तेषां प्रविभागं पृथक्पृथक् ।
विश्रुप्तो लौकिको ऽग्निस्तु प्रथमो ब्रह्मणः सुतः

1.12.8

ब्रह्मो दत्ताग्निस त्पुत्रो भरतो नाम विश्रुतः ।
वैश्वानरः सुतस्तस्य वहन् हव्यं समाः शतम्

1.12.9

संभृतो ऽथर्वणा पूर्वमेधितिः पुष्करोदधौ ।
सोथर्वा लौकिको ऽग्निस्तु दर्पहाथर्वणः स्मृतः

1.12.10

अथर्वा तु भृगुर्जज्ञे ह्यग्निराथर्वणः स्मृतः ।
तस्मात्स लौकिको ऽग्निस्तु दध्यङ्ङाथर्वणो मतः

1.12.11

आथर्वः पवमानस्तु निर्मथ्यः कविभिः स्मृतः ।
स ज्ञेयो गार्हपत्यो ऽग्निस्तस्य पुत्रद्वयं स्मृतम्

1.12.12

शंस्यस्त्वाह वनीयो ऽग्नेः स्मृतो यो हव्यवाहनः ।
द्वितीयस्तु सुतः प्रोक्तः शुको ऽग्निर्यः प्रणीयते

1.12.13

तथा सव्यापसव्यौ च शंस्यस्याग्नेः सुतावुभौ ।
शंस्यस्तु षोडश नदीश्चकमे हव्यवाहनः

1.12.14

यो सावाहवनीयो ऽग्निरभिमानी द्विजैः स्मृतः ।
कावेरीं कृष्णवेणां च नर्मदां यमुनां तथा

1.12.15

गोदावरीं वितस्तां च चन्द्रभागामिरावतीम् ।
विपाशां कौशिकीञ्चैव शतद्रूं सरयूं तथा

1.12.16

सीतां सरस्वतीं चैव ह्रादिनीं पावनीन्तथा ।
तासु षोडशधामानं प्रविभज्य पृथक्पृथक्

1.12.17

आत्मानं व्यदधात्तासु धिष्णीष्वथ बभूव सः ।
कृत्तिकाचारिणी धिष्णी जज्ञिरे ताश्च धिष्णयः

1.12.18

धिष्णीषु जज्ञिरे यस्माद् धिष्णयस्तेन कीर्त्तिताः ।
इत्येते वै नदीपुत्रा धिष्णीष्वेवं विजज्ञिरे

1.12.19

तेषां विहरणीया ये उपस्थेयाश्च ये ऽग्नयः ।
ताञ्शृणुध्वं समासेन कीर्त्यमानान्यथातथम्

1.12.20

विभुः प्रवाहणो ग्नीध्रस्तत्रस्था धिष्णयो ऽपरे ।
विधीयन्ते यथास्थानं सूत्याहे सवने क्रमात्

1.12.21

अनुद्देश्य निवास्यानामग्नीनां शृणुत क्रमम् ।
सम्राडग्नि कृशानुर्यो द्वितीयोंऽतरवेदिकः

1.12.22

सम्राडग्नमुखानष्टौ उपतिष्ठन्ति तान् द्विजान् ।
परिषत्पवमानस्तु द्वितीय सो ऽनुदिश्यते

1.12.23

प्रतल्कान्यो नभोनाम चत्वरेसौ विभाव्यते ।
हव्यस्ततो ह्यसंमृष्टः शामित्रे ऽग्नौ विभाव्यते

1.12.24

ऋतुधामा च सुज्योतिरौदुंबर्यः प्रकीर्त्यते ।
विश्वव्यचाः समुद्रो ऽग्निर्ब्रह्मस्थाने स कीर्त्यते

1.12.25

ब्रह्मज्योतिर्वसुर्धामा ब्रह्मस्थाने स उच्यते ।
अचौकपादुपस्थो यः स वै शालासुखीयकः

1.12.26

अनुहेश्यो ह्यहिर्बुध्न्यो सो ऽग्रिर्गृहपतिः स्मृतः ।
शंस्यस्यैते सुताः सर्वे उपस्थेया द्विजैः स्मृताः

1.12.27

ततो विहरणीयांश्च वक्ष्याम्यष्टौ च तत्सुतान् ।
विभुः प्रवाहणो ऽग्नीध्रस्तेषां धिष्ण्यस्तथा परे

1.12.28

विधीयन्ते यथास्थानं सौत्ये ऽह्नि सवने क्रमात् ।
होत्रीयस्तु स्मृते ह्यग्निर्वह्निर्यो हव्यवाहनः

1.12.29

प्रशान्तो ऽग्निः प्रचेतास्तु द्वितीयश्चात्र नामकः ।
ततो ऽग्निर्वैश्वदेवस्तु ब्राह्मणाच्छंसिरुच्यते

1.12.30

उशिगग्निः कविर्यस्तु पोतो ऽग्निः स विभाव्यते ।
आवारिरग्निर्वाभारिर्वैष्ठीयः स विभाव्यते

1.12.31

अवस्फूर्जो विवस्वांस्तु आस्थांश्चैव स उच्यते ।
अष्टमः सुध्युरग्निर्योमार्जालीयः स उच्यन्ते

1.12.32

धिष्ण्यावाहरणा ह्येते सौत्येह्नीज्यन्त वै द्विजैः ।
अपां योनिः स्मृतो ऽसौ स ह्यप्सुनामा विभाव्यते

1.12.33

ततो यः पावको नाम्ना अब्जो यो गर्भ उच्यते ।
अग्निः सो ऽवभृथे ज्ञेयो वरुणेन सहेज्यते

1.12.34

त्दृच्छयस्तत्सुतो ह्यग्निर्जठरे यो नृणां पचन् ।
मृत्युमाञ् जाठरस्याग्नेर्विद्वानाग्निः सुतः स्मृतः

1.12.35

परस्परोत्थितः सो ऽग्निर्भूतानीह विनिर्दहेत् ।
पुत्रस्त्वग्नेर्मन्युमतो घोरः संवर्तकः स्मृतः

1.12.36

पिबन्नवः स वसति समुद्रे वडवामुखः ।
समुद्रवासिनः पुत्रः साहरक्षो विभाव्यते

1.12.37

सहरक्षसुतः क्षामो गृहाणां दहते नृणाम् ।
क्रव्यादग्निः सुतस्तस्य पुरुषानत्ति यो मृतान्

1.12.38

इत्येते पावकस्याग्नेः पुत्रा एव प्रकीर्त्तिताः ।
ततः शुचिस्तु वै सौरो गन्धर्वैरायुराहुतः

1.12.39

मथितो यस्त्वरण्यां च सो ऽग्निरग्निं समिन्धति ।
आयुर्नाम्ना तु भगवानसौ यस्तु प्रणीयते

1.12.40

आयुषो महिषः पुत्रः सहसो नाम तत्सुतः ।
पाकयज्ञेष्वभीमानी सोग्निस्तु सहसः स्मृतः

1.12.41

पुत्रश्च सहसस्याग्नेरद्भुतः स महायशाः ।
विविधिश्चाद्भुतस्यापि पुत्रो ऽग्नेस्तुमाहान्स्मृतः

1.12.42

प्रायश्चित्तेष्वभीमानी हुतं भुङ्क्ते हविः सदा ।
विविधेस्तु सुतो ह्यर्क्क स्तस्य चाग्नेः सुता इमे

1.12.43

अनीकवान् वाजसृक् च रक्षोहा चष्टिकृत्तथा ।
सुरभिर्वसुरन्नादो प्रविष्टो यः स रुकमराट्

1.12.44

शुचेरग्नेः प्रजा ह्येषा वह्नयश्च चतुर्द्दश ।
इत्येते चाग्नयः प्रोक्ताः प्रणीयन्तेध्वरेषु वै

1.12.45

आदिसर्गे व्यतीता वै यामैः सह सुरोत्तमैः ।
स्वायंभुवे ऽन्तरे पूर्वमग्नयस्तेभिमानिनः

1.12.46

एते विहरणीयेषु चेतनाचेतनेषु वै ।
स्थानाभिमानिनो लोके प्रागासन्हव्यवाहनाः

1.12.47

काम्यनै मित्तिका यज्ञेष्वेते कर्मस्ववस्थिताः ।
पूर्वमन्वतंरे ऽतीताः शुकैर्यागैश्च तैः सह

1.12.48

देवैर्महात्मभिः पुण्यैः प्रथमस्यान्तरे मनोः ।
इत्येतानि मजोक्तानि स्थानानि स्थानिनश्च ह

1.12.49

तैरेव तु प्रसंख्यातमतीतानागतेष्विह ।
सन्वन्तरेषु सर्वेषु लक्षणं जातवेदसाम्

1.12.50

सर्वे तपस्विनो ह्येते सर्वे ब्रह्मभृतस्तथा ।
प्रजानां पतयः सर्वे ज्योतिष्मन्तश्च ते स्मृताः

1.12.51

स्वारोचिषादिषु ज्ञेयाः सावर्ण्यं तेषु सप्तसु ।
मन्वन्तरेषु सर्वेषु नामरूपप्रयोजनैः

1.12.52

वर्त्तन्ते वर्त्तमानैश्च यामैदेवैः सहाग्नयः ।
अनागतैः सुरैः सार्द्धं वर्त्स्यन्ते ऽनागताग्नयः

1.12.53

इत्येष निचयो ऽग्नीनामनुक्रान्तो यथाक्रमम् ।
विस्तरेणानुपुर्व्या च पितॄणां वक्ष्यते पुनः

मूल पाठ: Brahmāṇḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc