भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्माण्ड पुराण · अध्याय 1.11

1.11.1

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपादे महादेवविभूतिवर्णनं ना दशामो ऽध्योयः
सूत उवाच
भृगोः ख्यातिर्विजज्ञे वै ईश्वरौ सुखदुःखयोः ।
शुभाशुभप्रदातारौ सर्वप्राणभृतामिह

1.11.2

देवौ धातृविधातारौ मन्वन्तरविचारिणौ ।
तयार्ज्येष्ठा तु भगिनी देवी श्रीर्लोकभाविनी

1.11.3

सा तु नारायणं देवं पति मासद्य शोभना ।
नारायणात्मजौ तस्यां बलोन्मादौव्यजायताम्

1.11.4

बलस्य तेजः पुत्रस्तु उन्मादस्य तु संशयः ।
तस्यान्ये मानसाः पुत्रा आसन् व्योमविचारिणः

1.11.5

ये वहन्ति विमानानि देवानां पुण्यकर्मणाम् ।
मेरुकल्पे स्मृते भार्ये विधातुर्धातुरेव च

1.11.6

आयतिर्नियतिश्चैव तयोः पुत्रौ दृढव्रतौ ।
प्राणश्चैव मृकण्डश्च ब्रह्मकोशौ सनातनौ

1.11.7

मनस्विन्यां मृकण्डस्य मार्कण्डेयो बभूव ह ।
सुतो वेदशिरास्तस्य धूम्रपत्न्यामजायत

1.11.8

पीवर्यां वेदशिरसः पुत्रा वशकराः स्मृताः ।
मार्कण्डेयाः समाख्याता ऋषयो वेदपारगाः

1.11.9

प्राणस्य पुण्डरीकायां द्युतिमानात्मजो ऽभवत् ।
उन्नतश्चद्युतिमतः स्वनवातश्च तावुभौ

1.11.10

तयोः पुत्राश्च पौत्राश्च भार्गवाणां परस्परात् ।
स्वायंभुवेन्तरे ऽतीता मरीचेः शृणुत प्रजाः

1.11.11

पत्नी मरीचेः संभूतिर्विजज्ञे ह्यात्मसंभंवम् ।
प्रजापतेः पूर्णमासं कन्याश्चेमा निबोधत

1.11.12

कृषिर्वृष्टिस्त्विषा चैव तथा चोपचितिः शुभा ।
पूर्णमासः सरस्वत्यां पुत्रौ द्वावुदपादयत्

1.11.13

विरजं चैव धर्मिष्ठं पर्वशं चैव तावुभौ ।
विरजस्यात्मजो विद्वान् सुधामा नाम विश्रुतः

1.11.14

सुधामा स तु वैराजः प्राचीं दिशमुपा श्रितः ।
लोकपालः स धर्मात्मा गौरीपुत्रः प्रतापवान्

1.11.15

पर्वशः पर्वगणनां प्रविष्टः स महायशाः ।
पर्वशः पर्वशायां तु जनया मास वै सुतौ

1.11.16

यजुर्धाम च धीमन्तं स्तंभकाश्यपमेव च ।
तयोर्गोत्रकरौ पुत्रौ जातौ संन्यासनिश्चितौ

1.11.17

स्मृतस्त्वं गिरसः पत्नी जज्ञे सा ह्यात्मसंभवान् ।
पुत्रो कन्याश्चतस्रश्च पुण्यास्ता लोकविश्रुताः

1.11.18

सिनीवाली कुहूश्चैव राका चानुमतिस्तथा ।
तथैव भरताग्निं च कीर्तिमन्तं च तावुभौ

1.11.19

अग्नेः पुत्रं च पर्जन्यं सद्वती सुषुवे तथा ।
हिरण्यरोमा पर्जन्यो मारीच्यामुदपद्यत

1.11.20

आभूतसंप्लवस्थायी लोकपालः स वै स्मृतः ।
यज्ञे कीर्त्तिमतश्चापि धेनुका वीतकल्मषौ

1.11.21

चरिष्णुं धृतिमन्तं च उभावङ्गिरसां वरौ ।
तयोः पुत्राश्च पौत्राश्च अतीता वै सहस्रशः

1.11.22

अनसूया विजज्ञे वै पञ्चात्रेयानकल्मषान् ।
कन्यां चैव श्रुतिं नाम माता शङ्खपदस्य सा

1.11.23

कर्दसस्य तु पत्नी सा पौलहस्य प्रजापतेः ।
सत्यनेत्रश्च हव्यश्च आपो मूर्त्तिः शनैश्चरः

1.11.24

सोमश्च पञ्चमस्तेषामासीत्स्वायंभुवेन्तरे ।
यामदेवैस्सहातीताः पञ्चात्रेयाः प्रकीर्त्तिताः

1.11.25

तेषां पुत्राश्च पौत्राश्च आत्रेयाणां महात्मनाम् ।
स्वायंभुवे ऽन्तरे ऽतीताः शतशो ऽथ सहस्रशः

1.11.26

प्रीत्यां पुलस्त्यभार्यायां दाना ग्निस्तत्सुतो ऽभवत् ।
पूर्वजन्मनि सो ऽगस्त्यः स्मृतः स्वायंभुवे ऽन्तरे

1.11.27

मध्यमो देवबाहुश्च अत्रिनामा च ते त्रयः ।
स्वमा यवीयसी तेषां सद्वती नाम विश्रुता

1.11.28

पर्जन्यजननी शुभ्रा पत्नी चाग्नेः स्मृता शुभा ।
पौलस्त्यस्य च ब्रह्मर्षेः प्रीतिपुत्रस्य धीमतः

1.11.29

दानाच्च सुषुवे पत्नी सुजङ्घी चं बहून्सुतान् ।
पौलस्त्या इति विख्याताः स्मृताः स्वायंभुवे ऽन्तरे

1.11.30

क्षमा तु सुषुवे पुत्रान्पुलस्त्यस्य प्रजापतेः ।
त्रेताग्निवर्चसः सर्वे येषां कीर्त्तिः प्रतिष्ठिता

1.11.31

कर्दमश्चोर्वरीवांश्च सहिष्णुश्चेति ते त्रयः ।
ऋषिः कनकपीठश्च शुभा कन्या च पीवरी

1.11.32

कर्दमस्य श्रुतिः पत्नी आत्रेय्यजनयत्स्वयम् ।
पुत्रं शङ्खपदं नाम कन्यां काम्यां तथैव च

1.11.33

स वै शङ्खपदः श्रीमांल्लोकपालः प्रजापतिः ।
दक्षिणस्यां दिशि रतः काम्या दत्ता प्रियव्रते

1.11.34

काम्या प्रियव्रताल्लेभे स्वायंभुवसमान्सुतान् ।
दश कन्याद्वयं चैव यैः क्षत्रं सम्प्रवर्त्तितम्

1.11.35

पुत्रं कनकपीठस्य सहिष्णुं नाम विश्रुतम् ।
यशोधरा विजज्ञे वै कामदेवं सुमध्यामा

1.11.36

क्रतोः क्रतुसमान्पु त्रान् विजज्ञे संनतिः शुभान् ।
तेषां न भार्या पुत्रो वा सर्वे ते उर्द्धरेतसः

1.11.37

तानि षष्टिसहस्राणि वालखिल्या इति श्रुताः ।
अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम्

1.11.38

आभूतसंप्लवात्सर्वेपतङ्गसहचारिणः ।
स्वसारौ तद्यवीयस्यौ पुण्या सत्यवती चते

1.11.39

पर्वशस्य स्नुवे ते वै पूर्णमास सुतस्य तु ।
ऊर्जायां तु वसिष्ठस्य वासिष्ठाः सप्त जज्ञिरे

1.11.40

ज्यायसी च सुता तेषां पुण्डरीका सुमध्यमा ।
जननी सा द्युतिमतः प्राणस्य महिषी प्रियाः

1.11.41

तस्यास्तु ये यवीयांसो वासिष्ठाः सप्त विश्रुताः ।
रक्षो गर्त्तोर्द्धबा हुश्च सवनः पवनश्च यः

1.11.42

सुतपाः संकुरित्येते सर्वे सप्तर्षयः समृताः ।
रत्नो वराङ्ग्यजनयन्मार्कण्डेयी यशस्विनी

1.11.43

प्रतीच्यां दिशि राजानं केतुमन्तं प्रजापतिम् ।
गोत्राणि नामभिस्तेषां वासिष्ठानां महात्मनाम्

1.11.44

स्वायंभुवे ऽन्तरेतीतान्यग्नेस्तु शृणुत प्रजाः ।
इत्येष ऋषिसर्गस्तु सानुबन्धः प्रकीर्त्तितः

मूल पाठ: Brahmāṇḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc