ब्रह्माण्ड पुराण · अध्याय 1.10
इति श्री ब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपादे रुद्रप्रसववर्णनं नाम नवमो ऽध्यायः
ऋषिरुवाच
अस्मिन्कल्पे त्वया नोक्तः प्रादुर्भावो महात्मनः ।
महादेवस्य रुद्रस्य साधकैरृषिभिः सह
सूत उवाच
उत्पत्तिरादिसर्गस्य मया प्रोक्ता समासतः ।
विस्तरेण प्रवक्ष्यामि नामानि तनुभिः सह
पत्नीषु जनयामास महादेवः सुतान्बहून ।
कल्पेष्वन्येष्वतीतेषु ह्यस्मिन्कल्पे तु ताञ्शृणु
कल्पादावात्मनस्तुल्यं सुतमध्यायत प्रभुः ।
प्रादुरा सीत्ततोङ्के ऽस्य कुमारो नीललोहितः
रुरोद सुस्वरं घोरं निर्दहन्निव तेजसा ।
दृष्ट्वा रुदन्तं सहसा कुमारं नीललोहितम्
किं रोदिषि कुमारेति ब्रह्मा तं प्रत्यभाषत ।
सो ऽब्रवीद्देहि मे नाम प्रथमं त्वं पितामह
रुद्रस्त्वं देव नामासि स इत्युक्तो ऽरुदत्पुनः ।
किं रोदिषि कुमारेति ब्रह्मा तं प्रत्यभाषत
नाम देहि द्वितीयं मे इत्युवाच स्वयंभुवम् ।
भवस्त्वं देवनाम्नासि इत्युक्तः सो ऽरुदत्पुनः
किं रोदिषीति तं ब्रह्मा रुदन्तं प्रत्युवाच ह ।
तृतीयं देहि मे नाम इत्युक्तः सो ऽब्रवीत्पुनः
शर्वस्त्वं देव नाम्नासि इत्युक्तः सो ऽरुदत्पुनः ।
किं रोदिषीति तं ब्रह्मा रुदन्तं प्रत्युवाच ह
चतुर्थ देहि मे नाम इत्युक्तः सो ऽब्रवीत्पुनः ।
ईशानो देवनाम्नासि इत्युक्तः सो ऽरुदत्पुनः
किं रोदिषीति तं ब्रह्मा रुदन्तं पुनरब्रवीत् ।
पञ्चमं नाम देहीति प्रत्युवाच स्वयंभुवम्
पशूनां त्वं पतिर्देव इत्युक्तः सो ऽरुदत्पुनः ।
किं रोदिषीति तं ब्रह्मा रुदन्तं पुनरब्रवीत्
षष्ठं वै देहि मे नाम इत्युक्तः प्रत्युवाच तम् ।
भीमस्त्वं देव नाम्नासि इत्युक्तः सो ऽरुदत्पुनः
किं रोदिषीति तं ब्रह्मा रुदन्तं पुनरब्रवीत् ।
सप्तमं देहि मे नाम इत्युक्तः प्रत्युवाच ह
उग्रस्त्वं देव नाम्नासि इत्युक्तः सो ऽरुदत्पुनः ।
तं रुदन्तं कुमारं तु मारोदीरिति सो ऽब्रवीत्
सो ऽब्रवीदष्टमं नाम देहि मे त्वं विभो पुनः ।
त्वं महादेवनामासि इत्युक्तो विरराम ह
लब्ध्वा नामानि चैतानि ब्रह्माणं नीललोहितः ।
प्रोवाच नाम्नामेतेषां स्थानानि प्रदिशेति ह
ततो विसृष्टास्तनव एषां नाम्ना स्वयंभुवा ।
सूर्यो जलं मही वायुर्व ह्निराकाशमेव च
दीक्षिता ब्राह्मणश्चन्द्र इत्येवं ते ऽष्टधा तनुः ।
तेषु पूज्यश्च वन्द्यश्च नमस्कार्यश्च यत्नतः
प्रोवाच तं पुनर्ब्रह्मा कुमारं नीललोहितम् ।
यदुक्तं ते मया पूर्वं नाम रुद्रेति वै विभो
तस्यादित्यतनुर्नाम्नः प्रथमा प्रथमस्य ते ।
इत्युक्ते तस्य यत्तेजश्चक्षुस्त्वासीत्प्रकाशकम्
विवेश तत्तदादित्यं तस्माद्रुद्रो ह्यसौ स्मृतः ।
उद्यतमस्तं यन्तं च वर्जयेद्दर्शनेरविम्
शश्वच्च जायते यस्माच्छश्वत्संतिष्ठते तु यत् ।
तस्मात्मूर्यं न वीक्षेत आयुष्कामः शुचिः सदा
अतीतानागतं रुद्रं विप्रा ह्याप्याययन्ति यत् ।
उभे संध्ये ह्युपासीना गृणन्तः सामऋग्यजुः
उद्यन्स तिष्ठते ऋक्षु मध्याह्ने च यजुःष्वथ ।
सामस्वथापराह्णे तु रुद्रः संविशति क्रमात्
तस्माद्भवेन्नाभ्युदितो बाह्यस्तमित एव च ।
न रुद्रम्प्रति मेहेत सर्वावस्थं कथं चन
एवं युक्तान् द्विजान् देवो रुद्रस्तान्न हिनस्ति वै ।
ततो ऽप्रवीत्पुनर्ब्रह्मा तं देवं नीललोहितम्
द्वितीयं नामधेयं ते मया प्रोक्तं भवेति यत् ।
एतस्यापो द्वितीया ते तनुर्नाम्ना भवत्विति
इत्युक्ते त्वथ तस्यासीच्छरीरस्थं रसात्मकम् ।
विवेश तत्तदा यस्तु तस्मादापो भवः स्मृतः
यस्माद्भवन्ति भूतानि ताभ्यस्ता भावयन्ति च ।
भवनाद्रावनाच्चैव भूतानामुच्यते भवः
तस्मान्मूत्रं पुरीषं च नाप्सु कुर्वीत कर्हिचित् ।
न निष्ठीवेन्नावगाहेन्नैव गच्छेच्च मैथुनम्
न चैताः परिचक्षीत वहन्त्यो वा स्थिता अपि ।
मैध्यामेध्यास्त्वपामेतास्तनवो मुनिभिः स्मृताः
विवर्णरसगन्धाश्च वर्ज्या अल्पाश्च सर्वशः ।
अपां योनिः समुद्रस्तु तस्मात्तं कामयन्ति ताः
मध्याश्चैवामृता ह्यापो भवन्ति प्राप्य सागरम् ।
तस्मादपो न रुन्धीत समुद्रं कामयन्ति ताः
न हिनस्ति भवो देवो य एवं ह्यप्सु वर्तते ।
ततो ऽब्रवीत्पुनर्ब्रह्मा कुमारं नीललोहितम्
शर्वेति यत्तृतीयं ते नाम प्रोक्तं मया विभो ।
तस्य भूमिस्तृतीयस्य तनुर्नाम्ना भवत्त्वियम्
इत्युक्ते यत्स्थिरं तस्य शरीरे ह्यस्थिसंज्ञितम् ।
विवेश तत्तदा भूमिं यस्मात्सा शर्व उच्यते
तस्मात्कृष्टेन कुर्वीत पुरीषं मूत्रमेव च ।
न च्छायायां तथा मार्गे स्वच्छायायां न मेहयेत्
शिरः प्रावृत्य कुर्वीत अन्तर्धाय तृणैर्महीम् ।
एवं यो वर्तते भूमौ शर्वस्तं न हिनस्ति वै
ततो ऽब्रवीत्पुनर्ब्रह्मा कुमारं नीललोहितम् ।
ईशानेति चतुर्थ ते नाम प्रोक्तं मयेह यत्
चतुर्थस्य चतुर्थी तु वायुर्नाम्ना तनुस्तव ।
इत्युक्ते यच्छरीरस्थं पञ्चधा प्राणसंज्ञितम्
विवेश तस्य तद्वायुमीशानस्तन मारुतः ।
तस्मान्नैनं परिवदेत्प्रवान्तं वायुमीश्वरम्
यज्ञैर्व्यवहरन्त्येनं ये वै परिचरन्ति च ।
एवं युक्तं महेशानो नैव देवो हिनस्ति तम्
ततो ऽब्रवीत्पुनर्ब्रह्मा तं देवं ध5म्लमीश्वरम् ।
नाम यद्वै पशुपतिरित्युक्तं पञ्चमं मया
पञ्चमी पञ्चम स्यैषा तनुर्नाम्नाग्निरस्तु ते ।
इत्युक्ते यच्छरीरस्थं तेजस्तस्योष्णसंज्ञितम्
विवेश तत्तदा ह्यग्निं तस्मात्पशुपतिस्तु सः ।
यस्मादग्निः पशुश्चासीद्यस्मात्पाति पशूंश्च सः
तस्मात्पशुपतेस्तस्य तनुरग्निर्निरुच्यते ।
तस्मादमेद्यं न दहेन्न च पादौ प्रतापयेत्
अधस्तान्नोपदध्याच्च न चैनमतिलङ्घयेत् ।
नैनं पशुपतिर्देव एवं युक्तं हिनस्ति वै
ततो ऽब्रवीत्पुनर्ब्रह्मा तं देवं श्वेतपिङ्गलम् ।
षष्टं नाम मया प्रोक्तं तव भीमेति यत्प्रभो
आकाशं तस्य नाम्नस्तु तनुः षष्ठी भवत्विति ।
इत्युक्ते सुषिरं तस्य शरीरस्थमभूच्च यत्
विवेश तत्तदाकाशं तस्माद्भीमस्य सा तनुः ।
यदाकाशे स्मृतो देवस्तस्मान्ना संवृतः क्वचित्
कुर्यान्मूत्रं पुरीषं वा न भुञ्जीत पिबेन्न वा ।
मैथुनं वापि न चरेदुच्छिष्टानि च नोत्क्षिपेत्
न हिनस्ति च तं देवो यो भीमे ह्येवमाचरेत् ।
ततो ऽब्रवीत्पुनर्ब्रह्मा तं देवं सबलं प्रभुम्
सप्तमं यन्मया प्रोक्तं नामोग्रेति तव प्रभो ।
तस्य नाम्नस्तनुस्तुभ्यं द्विजो भवति दीक्षितः
एवमुक्ते तु यत्तस्य चैतन्यं वै शरीरगम् ।
विवेश दीक्षितं तद्वै ब्राह्मणं सोमयाजिनम्
तावत्कालं स्मृतो विप्र उग्रो देवस्तु दीक्षितः ।
तस्मान्नेमं परिवदेन्नाश्लीलं चास्य कीर्त्तयेत्
ते हरन्त्यस्य पाप्मानं ये वै परिवदन्ति तम् ।
एवं युक्तान् द्विजानुग्रो देवस्तान्न हिनस्ति वै
ततोब्रवीत्पुनर्ब्रह्मा तं देवं भास्करद्युतिम् ।
अष्टमं नाम यत् प्रोक्तं महादेवेति ते मया
तस्य नाम्नो ऽष्टमस्यास्तु तनुस्तुभ्यं तु चन्द्रमाः ।
इत्युक्ते यन्मन स्तस्य संकल्पकमभूत्प्रभोः
विवेश तच्चन्द्रमसं महादेवस्ततः शशी ।
तस्माद्विभाव्यते ह्येष महादेवस्तु चन्द्रमाः
अमावास्यां न वै छिन्द्याद्वृक्षगुल्मौषधीर्द्विजः ।
महादेवः स्मृतः सोमस्तस्यात्मा ह्यौषधीगणः
एवं यो वर्त्तते चैह सदा पर्वणि पर्वणि ।
न हन्ति तं महादेवो य एवं वेद तं प्रभुम्
गोपायति दिवादित्यः प्रजा नक्तं तु चन्द्रमाः ।
एकरात्रौ समेयातां सूर्या चन्द्रमसावुभौ
अमावास्यानिशायां तु तस्यां युक्तः सादा भवेत् ।
रुद्राविष्टं सर्वमिदं तनुभिर्न्नामभिश्च ह
एकाकी चश्चरत्येष सूर्यो ऽसौ रुद्र उच्यते ।
सूर्यस्य यत्प्रकाशेन वीक्षन्ते चक्षुषा प्रजाः
मुक्तात्मा संस्थितो रुद्रः पिबत्यंभो गभस्तिभिः ।
अद्यते पीयते चैव ह्यन्नपानादिकाम्यया
तनुरंबूद्भवा सा वै देहेष्वेवोपचीयते ।
यया धत्ते प्रजाः सर्वाः स्थिरीभूतेन तेजसा
पार्थिवी सा तनुस्तस्य साध्वी धारयते प्रजाः ।
या च स्थिता शरीरेषु भूतानां प्राणवृत्तिभिः
वातात्मिका तु चैशानी सा प्राणः प्राणिनामिह ।
पीताशितानि पचति भूतानां जठरेष्विह
तनुः पाशुपती तस्य पाचकः सो ऽग्निरुच्यते ।
यानीह शुषिराणि स्युर्देहेष्वन्तर्गतानि वै
वायोः संचरणार्थानि भीमा सा प्रोच्यते तनुः ।
वैतान्यादीक्षितानां तु या स्थितिर्ब्रह्मवादिनाम्
तनुरुग्रात्मिका सा तु तेनोग्रो दीक्षितः स्मृतः ।
यत्तु संकल्पकं तस्य प्रजास्विह समास्थितम्
सा तनुर्मानसी तस्य चन्द्रमाः प्राणिषु स्थितः ।
नवोनवो यो भवति जायमानः पुनःपुनः
पीयते ऽसौ यथाकालं विबुधैः पितृभिः सह ।
महादेवो ऽमृतात्मा स चन्द्रमा अम्मयः स्मृतः
तस्य या प्रथमा नाम्ना तनू रौद्री प्रकीर्त्तिता ।
पत्नी सुवर्च्चला तस्याः पुत्रश्चास्य शनैश्चरः
भवस्य या द्वितीया तु आपो नाम्ना तनुः स्मृता ।
तस्या धात्री स्मृता पत्नी पुत्रश्च उशना स्मृतः
शर्वस्य या तृतीयस्य नाम्नो भूमिस्तनुः स्मृता ।
तस्याः पत्नी विकेशी तु पुत्रो ऽस्याङ्गारकः स्मृतः
ईशानस्य चतुर्थस्य नाम्ना वातस्तनुस्तु या ।
तस्याः पत्नी शिवा नाम पुत्रश्चास्या मनोजवः
अविज्ञातगतिश्चैव द्वौ पुत्रौ चानिलस्य तु ।
नाम्ना पशुपतेर्या तु तनुरग्निर्द्विजैः स्मृता
तस्याः पत्नी स्मृता स्वाहा स्कन्दस्तस्याः सुतः स्मृतः ।
नाम्ना षष्ठस्य या भीमा तनुराकाशमुच्यते
दिशः पत्न्यः स्मृतास्तस्य स्वर्गश्चापि सुतः स्मृतः ।
अग्रा तनुः सप्तमी या दीक्षितो ब्राह्मणः स्मृतः
दीक्षा पत्नी स्मृता तस्याः संतानः पुत्र उच्यते ।
नाम्नाष्टमस्य महस्तनुर्या चन्द्रमाः स्मृतः
तस्य वै रोहिणी पत्नी पुत्रस्तस्य बुधः स्मृतः ।
इत्येतास्तनवस्तस्य नामभिः सह कीर्तिताः
तासु वन्द्यो नमस्यश्च प्रतिनामतनूषु वै ।
सूर्येप्सूर्व्यां तथा वायावग्नौ व्योम्न्यथ दीक्षिते
भक्तैस्तथा चन्द्रमसि भत्तया वन्द्यस्तु नामभिः ।
एवं यो वेत्ति तं देवं तनुभिर्नामभिश्च ह
प्रजावानेति सायुज्यमीश्वरस्य भवस्य सः ।
इत्येतद्वो मया प्रोक्तं गुह्यं भीमास्य यद्यशः
शन्नो ऽस्तु द्विपदे विप्राः शन्नो ऽस्तु च चतुष्पदे ।
एतत्प्रोक्तमिदानीं च तनूनां नामभि सह ।
महादेवस्य देवस्य भृगोस्तु शृणुत प्रजाः
मूल पाठ: Brahmāṇḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0