ब्रह्म पुराण · अध्याय 96
इन्द्रतीर्थम् इति ख्यातं ब्रह्महत्याविनाशनम्
स्मरणाद् अपि पापौघ क्लेशसंघविनाशनम् ॥
पुरा वृत्रवधे वृत्ते ब्रह्महत्या तु नारद
शचीपतिं चानुगता तां दृष्ट्वा भीतवद् धरिः ॥
इन्द्रस् ततो वृत्रहन्ता इतश् चेतश् च धावति
यत्र यत्र त्व् असौ याति हत्या सापीन्द्रगामिनी ॥
स महत् सर आविश्य पद्मनालम् उपागमत्
तत्रासौ तन्तुवद् भूत्वा वासं चक्रे शचीपतिः ॥
सरस्तीरे ऽपि हत्यासीद् दिव्यं वर्षसहस्रकम्
एतस्मिन्न् अन्तरे देवा निरिन्द्रा ह्य् अभवन् मुने ॥
मन्त्रयाम् आसुर् अव्यग्राः कथम् इन्द्रो भवेद् इति
तत्राहम् अवदं देवान् हत्यास्थानं प्रकल्प्य च ॥
इन्द्रस्य पावनार्थाय गौतम्याम् अभिषिच्यताम्
यत्राभिषिक्तः पूतात्मा पुनर् इन्द्रो भविष्यति ॥
तथा ते निश्चयं कृत्वा गौतमीं शीघ्रम् आगमन्
तत्र स्नातं सुरपतिं देवाश् च ऋषयस् तथा ॥
अभिषेक्तुकामास् ते सर्वे शचीकान्तं च तस्थिरे
अभिषिच्यमानम् इन्द्रं तं प्रकोपाद् गौतमो ऽब्रवीत् ॥
अभिषेक्ष्यन्ति पापिष्ठं महेन्द्रं गुरुतल्पगम्
तान् सर्वान् भस्मसात् कुर्यां शीघ्रं यान्त्व् असुरारयः ॥
तद् ऋषेर् वचनं श्रुत्वा परिहृत्य च गौतमीम्
नर्मदाम् अगमन् सर्व इन्द्रम् आदाय सत्वराः ॥
उत्तरे नर्मदातीरे अभिषेकाय तस्थिरे
अभिषेक्ष्यमाणम् इन्द्रं तं माण्डव्यो भगवान् ऋषिः ॥
अब्रवीद् भस्मसात् कुर्यां यदि स्याद् अभिषेचनम्
पूजयाम् आसुर् अमरा माण्डव्यं युक्तिभिः स्तवैः ॥
अयम् इन्द्रः सहस्राक्षो यस्मिन् देशे ऽभिषिच्यते
तत्रातिदारुणं विघ्नं मुने समुपजायते ॥
तच्छान्तिं कुरु कल्याण प्रसीद वरदो भव
मलनिर्यातनं यस्मिन् कुर्मस् तस्मिन् वरान् बहून् ॥
देशे दास्यामहे सर्वे तद् अनुज्ञातुम् अर्हसि
यस्मिन् देशे सुरेन्द्रस्य अभिषेको भविष्यति ॥
स सर्वकामदः पुंसां धान्यवृक्षफलैर् युतः
नानावृष्टिर् न दुर्भिक्षं भवेद् अत्र कदाचन ॥
मेने ततो मुनिश्रेष्ठो माण्डव्यो लोकपूजितः
अभिषेकः कृतस् तत्र मलनिर्यातनं तथा ॥
देवैस् तदोक्तो मुनिभिः स देशो मालवस् ततः
अभिषिक्ते सुरपतौ जाते च विमले तदा ॥
आनीय गौतमीं गङ्गां तं पुण्यायाभिषेचिरे
सुराश् च ऋषयश् चैव अहं विष्णुस् तथैव च ॥
वसिष्ठो गौतमश् चापि अगस्त्यो ऽत्रिश् च कश्यपः
एते चान्ये च ऋषयो देवा यक्षाः सपन्नगाः ॥
स्नानं तत्पुण्यतोयेन अकुर्वन्न् अभिषेचनम्
मया पुनः शचीभर्ता कमण्डलुभवेन च ॥
वारिणाप्य् अभिषिक्तश् च तत्र पुण्याभवन् नदी
सिक्ता चेति च तत्रासीत् ते गङ्गायां च संगते ॥
संगमौ तत्र विख्यातौ सर्वदा मुनिसेवितौ
ततः प्रभृति तत् तीर्थं पुण्यासंगमम् उच्यते ॥
सिक्तायाः संगमे पुण्यम् ऐन्द्रं तद् अभिधीयते
तत्र सप्त सहस्राणि तीर्थान्य् आसञ् शुभानि च ॥
तेषु स्नानं च दानं च विशेषेण तु संगमे
सर्वं तद् अक्षयं विद्यान् नात्र कार्या विचारणा ॥
यद् एतत् पुण्यम् आख्यानं यः पठेच् च शृणोति वा
सर्वपापैः स मुच्येत मनोवाक्कायकर्मजैः ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0