भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 95

95.1

शुक्रतीर्थम् इति ख्यातं सर्वसिद्धिकरं नृणाम्
सर्वपापप्रशमनं सर्वव्याधिविनाशनम् ॥

95.2

अङ्गिराश् च भृगुश् चैव ऋषी परमधार्मिकौ
तयोः पुत्रौ महाप्राज्ञौ रूपबुद्धिविलासिनौ ॥

95.3

जीवः कविर् इति ख्यातौ मातापित्रोर् वशे रतौ
उपनीतौ सुतौ दृष्ट्वा पितराव् ऊचतुर् मिथः ॥

95.4

आवयोर् एक एवास्तु शास्ता नित्यं च पुत्रयोः
तस्माद् एकः शासिता स्यात् तिष्ठत्व् एको यथासुखम् ॥

95.5

एतच् छ्रुत्वा ततः शीघ्रम् अङ्गिराः प्राह भार्गवम्
अध्यापयिष्ये सदृशं सुखं तिष्ठतु भार्गवः ॥

95.6

एतच् छ्रुत्वा चाङ्गिरसो वाक्यं भृगुकुलोद्वहः
तथेति मत्वाङ्गिरसे शुक्रं तस्मै न्यवेदयत् ॥

95.7

उभाव् अपि सुतौ नित्यम् अध्यापयति वै पृथक्
वैषम्यबुद्ध्या तौ बालौ चिराच् छुक्रो ऽब्रवीद् इदम् ॥

95.8

वैषम्येण गुरो मां त्वम् अध्यापयसि नित्यशः
गुरूणां नेदम् उचितं वैषम्यं पुत्रशिष्ययोः ॥

95.9

वैषम्येण च वर्तन्ते मूढाः शिष्येषु देशिकाः
नैषा विषमबुद्धीनां संख्या पापस्य विद्यते ॥

95.10

आचार्य सम्यग् ज्ञातो ऽसि नमस्ये ऽहं पुनः पुनः
गच्छेयं गुरुम् अन्यं वै माम् अनुज्ञातुम् अर्हसि ॥

95.11

गच्छेयं पितरं ब्रह्मन् यद्य् असौ विषमो भवेत्
ततो वान्यत्र गच्छामि स्वामिन् पृष्टो ऽसि गम्यते ॥

95.12

गुरुं बृहस्पतिं दृष्ट्वा अनुज्ञातस् त्व् अगात् ततः
अवाप्तविद्यः पितरं गच्छेयं चेत्य् अचिन्तयत् ॥

95.13

तस्मात् कम् अनुपृच्छेयम् उत्कृष्टः को गुरुर् भवेत्
इति स्मरन् महाप्राज्ञम् अपृच्छद् वृद्धगौतमम् ॥

95.14

को गुरुः स्यान् मुनिश्रेष्ठ मम ब्रूहि गुरुर् भवेत्
त्रयाणाम् अपि लोकानां यो गुरुस् तं व्रजाम्य् अहम् ॥

95.15

स प्राह जगताम् ईशं शंभुं देवं जगद्गुरुम्
क्वाराधयामि गिरिशम् इत्य् उक्तः प्राह गौतमः ॥

95.16

गौतम्यां तु शुचिर् भूत्वा स्तोत्रैस् तोषय शंकरम्
ततस् तुष्टो जगन्नाथः स ते विद्यां प्रदास्यति ॥

95.17

गौतमस्य तु तद्वाक्यात् प्रागाद् गङ्गां स भार्गवः
स्नात्वा भूत्वा शुचिः सम्यक् स्तुतिं चक्रे स बालकः ॥

95.18

बालो ऽहं बालबुद्धिश् च बालचन्द्रधर प्रभो
नाहं जानामि ते किंचित् स्तुतिं कर्तुं नमो ऽस्तु ते ॥

95.19

परित्यक्तस्य गुरुणा न ममास्ति सुहृत् सखा
त्वं प्रभुः सर्वभावेन जगन्नाथ नमो ऽस्तु ते ॥

95.20

गुरुर् गुरुमतां देव महतां च महान् असि
अहम् अल्पतरो बालो जगन्मय नमो ऽस्तु ते ॥

95.21

विद्यार्थं हि सुरेशान नाहं वेद्मि भवद्गतिम्
मां त्वं च कृपया पश्य लोकसाक्षिन् नमो ऽस्तु ते ॥

95.22

एवं तु स्तुवतस् तस्य प्रसन्नो ऽभूत् सुरेश्वरः ॥

95.23

कामं वरय भद्रं ते यच् चापि सुरदुर्लभम् ॥

95.24

कविर् अप्य् आह देवेशं कृताञ्जलिर् उदारधीः ॥

95.25

ब्रह्मादिभिश् च ऋषिभिर् या विद्या नैव गोचरा
तां विद्यां नाथ याचिष्ये त्वं गुरुर् मम दैवतम् ॥

95.26

मृतसंजीविनीं विद्याम् अज्ञातां त्रिदशैर् अपि
तां दत्तवान् सुरश्रेष्ठस् तस्मै शुक्राय याचते ॥

95.27

इतरा लौकिकी विद्या वैदिकी चान्यगोचरा
किं पुनः शंकरे तुष्टे विचार्यम् अवशिष्यते ॥

95.28

स तु लब्ध्वा महाविद्यां प्रायात् स्वपितरं गुरुम्
दैत्यानां च गुरुश् चासीद् विद्यया पूजितः कविः ॥

95.29

ततः कदाचित् तां विद्यां कस्मिंश्चित् कारणान्तरे
कचो बृहस्पतिसुतो विद्यां प्राप्तः कवेस् तु ताम् ॥

95.30

कचाद् बृहस्पतिश् चापि ततो देवाः पृथक् पृथक्
अवापुर् महतीं विद्यां याम् आहुर् मृतजीविनीम् ॥

95.31

यत्र सा कविना प्राप्ता विद्यापूज्य महेश्वरम्
गौतम्या उत्तरे पारे शुक्रतीर्थं तद् उच्यते ॥

95.32

मृतसंजीविनीतीर्थम् आयुरारोग्यवर्धनम्
स्नानं दानं च यत् किंचित् सर्वम् अक्षयपुण्यदम् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc