भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 97

97.1

पौलस्त्यं तीर्थम् आख्यातं सर्वसिद्धिप्रदं नृणाम्
प्रभावं तस्य वक्ष्यामि भ्रष्टराज्यप्रदायकम् ॥

97.2

उत्तराशापतिः पूर्वम् ऋद्धिसिद्धिसमन्वितः
पुरा लङ्कापतिश् चासीज् ज्येष्ठो विश्रवसः सुतः ॥

97.3

तस्यैते भ्रातरश् चासन् बलवन्तो ऽमितप्रभाः
सापत्ना रावणश् चैव कुम्भकर्णो विभीषणः ॥

97.4

ते ऽपि विश्रवसः पुत्रा राक्षस्यां राक्षसास् तु ते
मद्दत्तेन विमानेन धनदो भ्रातृभिः सह ॥

97.5

ममान्तिकं भक्तियुक्तो नित्यम् एति तु याति च
रावणस्य तु या माता कुपिता साब्रवीत् सुतान् ॥

97.6

मरिष्ये न च जीविष्ये पुत्रा वैरूप्यकारणात्
देवाश् च दानवाश् चासन् सापत्ना भ्रातरो मिथः ॥

97.7

अन्योन्यवधम् ईप्सन्ते जयैश्वर्यवशानुगाः
तद्भवन्तो न पुरुषा न शक्ता न जयैषिणः
सापत्न्यं यो ऽनुमन्यते तस्य जीवो निरर्थकः ॥

97.8

तन् मातृवचनं श्रुत्वा भ्रातरस् ते त्रयो मुने
जग्मुस् ते तपसे ऽरण्यं कृतवन्तस् तपो महत् ॥

97.9

मत्तो वरान् अवापुश् च त्रय एते च राक्षसाः
मातुलेन मरीचेन तथा मातामहेन तु ॥

97.10

तन्मातृवचनाच् चापि ततो लङ्काम् अयाचत
रक्षोभावान् मातृदोषाद् भ्रात्रोर् वैरम् अभून् महत् ॥

97.11

ततस् तद् अभवद् युद्धं देवदानवयोर् इव
युद्धे जित्वाग्रजं शान्तं धनदं भ्रातरं तथा ॥

97.12

पुष्पकं च पुरीं लङ्कां सर्वं चैव व्यपाहरत्
रावणो घोषयाम् आस त्रैलोक्ये सचराचरे ॥

97.13

यो दद्याद् आश्रयं भ्रातुः स च वध्यो भवेन् मम
भ्रात्रा निरस्तो वैश्रवणो नैव प्रापाश्रयं क्वचित्
पितामहं पुलस्त्यं तं गत्वा नत्वाब्रवीद् वचः ॥

97.14

भ्रात्रा निरस्तो दुष्टेन किं करोमि वदस्व मे
आश्रयः शरणं यत् स्याद् दैवं वा तीर्थम् एव च ॥

97.15

तत् पौत्रवचनं श्रुत्वा पुलस्त्यो वाक्यम् अब्रवीत् ॥

97.16

गौतमीं गच्छ पुत्र त्वं स्तुहि देवं महेश्वरम्
तत्र नास्य प्रवेशः स्याद् गङ्गाया जलमध्यतः ॥

97.17

सिद्धिं प्राप्स्यसि कल्याणीं तथा कुरु मया सह ॥

97.18

तथेत्य् उक्त्वा जगामासौ सभार्यो धनदस् तथा
पित्रा मात्रा च वृद्धेन पुलस्त्येन धनेश्वरः ॥

97.19

गत्वा तु गौतमीं गङ्गां शुचिः स्नात्वा यतव्रतः
तुष्टाव देवदेवेशं भुक्तिमुक्तिप्रदं शिवम् ॥

97.20

स्वामी त्वम् एवास्य चराचरस्य विश्वस्य शंभो न परो ऽस्ति कश्चित्
त्वाम् अप्य् अवज्ञाय यदीह मोहात् प्रगल्भते कोपि स शोच्य एव

97.21

त्वम् अष्टमूर्त्या सकलं बिभर्षि त्वदाज्ञया वर्तत एव सर्वम्
तथापि वेदेति बुधो भवन्तं न जात्व् अविद्वान् महिमा पुरातनम्

97.22

मलप्रसूतं यद् अवोचद् अम्बा हास्यात् सुतो ऽयं तव देव शूरः
त्वत्प्रेक्षिताद् यः स च विघ्नराजो जज्ञे त्व् अहो चेष्टितम् ईशदृष्टेः

97.23

अश्रुप्लुताङ्गी गिरिजा समीक्ष्य वियुक्तदांपत्यम् इतीशम् ऊचे
मनोभवो ऽभून् मदनो रतिश् च सौभाग्यपूर्वत्वम् अवाप सोमात्

97.24

इत्यादि स्तुवतस् तस्य पुरतो ऽभूत् त्रिलोचनः
वरेण च्छन्दयाम् आस हर्षान् नोवाच किंचन ॥

97.25

तूष्णींभूते तु धनदे पुलस्त्ये च महेश्वरे
पुनः पुनर् वरस्वेति शिवे वादिनि हर्षिते ॥

97.26

एतस्मिन्न् अन्तरे तत्र वाग् उवाचाशरीरिणी
प्राप्तव्यं धनपालत्वं वदन्तीदं महेश्वरम् ॥

97.27

पुलस्त्यस्य तु यच् चित्तं पितुर् वैश्रवणस्य तु
विदित्वेव तदा वाणी शुभम् अर्थम् उदीरयत् ॥

97.28

भूतवद् भवितव्यं स्याद् दास्यमानं तु दत्तवत्
प्राप्तव्यं प्राप्तवत् तत्र दैवी वाग् अभवच् छुभा ॥

97.29

प्रभूतशत्रुः परिभूतदुःखः संपूज्य सोमेश्वरम् आप लिङ्गम्
दिगीश्वरत्वं द्रविणप्रभुत्वम् अपारदातृत्वकलत्रपुत्रान्

97.30

तां वाचं धनदः श्रुत्वा देवदेवं त्रिशूलिनम्
एवं भवतु नामेति धनदो वाक्यम् अब्रवीत् ॥

97.31

तथैवास्त्व् इति देवेशो दैवीं वाचम् अमन्यत
पुलस्त्यं च वरैः पुण्यैस् तथा विश्रवसं मुनिम् ॥

97.32

धनपालं च देवेशो ह्य् अभिनन्द्य ययौ शिवः
ततः प्रभृति तत् तीर्थं पौलस्त्यं धनदं विदुः ॥

97.33

तथा वैश्रवसं पुण्यं सर्वकामप्रदं शुभम्
तेषु स्नानादि यत् किंचित् तत् सर्वं बहुपुण्यदम् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc