भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 9

9.1

पिता सोमस्य भो विप्रा जज्ञे ऽत्रिर् भगवान् ऋषिः
ब्रह्मणो मानसात् पूर्वं प्रजासर्गं विधित्सतः ॥

9.2

अनुत्तरं नाम तपो येन तप्तं हि तत् पुरा
त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम् ॥

9.3

ऊर्ध्वम् आचक्रमे तस्य रेतः सोमत्वम् ईयिवत्
नेत्राभ्यां वारि सुस्राव दशधा द्योतयन् दिशः ॥

9.4

तं गर्भं विधिनादिष्टा दश देव्यो दधुस् ततः
समेत्य धारयाम् आसुर् न च ताः समशक्नुवन् ॥

9.5

यदा न धारणे शक्तास् तस्य गर्भस्य ता दिशः
ततस् ताभिः स त्यक्तस् तु निपपात वसुंधराम् ॥

9.6

पतितं सोमम् आलोक्य ब्रह्मा लोकपितामहः
रथम् आरोपयाम् आस लोकानां हितकाम्यया ॥

9.7

तस्मिन् निपतिते देवाः पुत्रे ऽत्रेः परमात्मनि
तुष्टुवुर् ब्रह्मणः पुत्रास् तथान्ये मुनिसत्तमाः ॥

9.8

तस्य संस्तूयमानस्य तेजः सोमस्य भास्वतः
आप्यायनाय लोकानां भावयाम् आस सर्वतः ॥

9.9

स तेन रथमुख्येन सागरान्तां वसुंधराम्
त्रिःसप्तकृत्वो ऽतियशाश् चकाराभिप्रदक्षिणाम् ॥

9.10

तस्य यच् चरितं तेजः पृथिवीम् अन्वपद्यत
ओषध्यस् ताः समुद्भूता याभिः संधार्यते जगत् ॥

9.11

स लब्धतेजा भगवान् संस्तवैश् च स्वकर्मभिः
तपस् तेपे महाभागः पद्मानां दर्शनाय सः ॥

9.12

ततस् तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः
बीजौषधीनां विप्राणाम् अपां च मुनिसत्तमाः ॥

9.13

स तत् प्राप्य महाराज्यं सोमः सौम्यवतां वरः
समाजह्रे राजसूयं सहस्रशतदक्षिणम् ॥

9.14

दक्षिणाम् अददात् सोमस् त्रींल् लोकान् इति नः श्रुतम्
तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश् च भो द्विजाः ॥

9.15

हिरण्यगर्भो ब्रह्मात्रिर् भृगुश् च ऋत्विजो ऽभवत्
सदस्यो ऽभूद् धरिस् तत्र मुनिभिर् बहुभिर् वृतः ॥

9.16

तं सिनीश् च कुहूश् चैव द्युतिः पुष्टिः प्रभा वसुः
कीर्तिर् धृतिश् च लक्ष्मीश् च नव देव्यः सिषेविरे ॥

9.17

प्राप्यावभृथम् अप्य् अग्र्यं सर्वदेवर्षिपूजितः
विरराजाधिराजेन्द्रो दशधा भासयन् दिशः ॥

9.18

तस्य तत् प्राप्य दुष्प्राप्यम् ऐश्वर्यम् ऋषिसत्कृतम्
विबभ्राम मतिस् ताता विनयाद् अनयाहृता ॥

9.19

बृहस्पतेः स वै भार्याम् ऐश्वर्यमदमोहितः
जहार तरसा सोमो विमत्याङ्गिरसः सुतम् ॥

9.20

स याच्यमानो देवैश् च तथा देवर्षिभिर् मुहुः
नैव व्यसर्जयत् तारां तस्माय् अङ्गिरसे तदा ॥

9.21

उशना तस्य जग्राह पार्ष्णिम् अङ्गिरसस् तदा
रुद्रश् च पार्ष्णिं जग्राह गृहीत्वाजगवं धनुः ॥

9.22

तेन ब्रह्मशिरो नाम परमास्त्रं महात्मना
उद्दिश्य देवान् उत्सृष्टं येनैषां नाशितं यशः ॥

9.23

तत्र तद् युद्धम् अभवत् प्रख्यातं तारकामयम्
देवानां दानवानां च लोकक्षयकरं महत् ॥

9.24

तत्र शिष्टास् तु ये देवास् तुषिताश् चैव ये द्विजाः
ब्रह्माणं शरणं जग्मुर् आदिदेवं सनातनम् ॥

9.25

तदा निवार्योशनसं तं वै रुद्रं च शंकरम्
ददाव् अङ्गिरसे तारां स्वयम् एव पितामहः ॥

9.26

ताम् अन्तःप्रसवां दृष्ट्वा क्रुद्धः प्राह बृहस्पतिः
मदीयायां न ते योनौ गर्भो धार्यः कथंचन ॥

9.27

इषीकास्तम्बम् आसाद्य गर्भं सा चोत्ससर्ज ह
जातमात्रः स भगवान् देवानाम् आक्षिपद् वपुः ॥

9.28

ततः संशयम् आपन्नास् ताराम् ऊचुः सुरोत्तमाः
सत्यं ब्रूहि सुतः कस्य सोमस्याथ बृहस्पतेः ॥

9.29

पृच्छ्यमाना यदा देवैर् नाह सा विबुधान् किल
तदा तां शप्तुम् आरब्धः कुमारो दस्युहन्तमः ॥

9.30

तं निवार्य ततो ब्रह्मा तारां पप्रच्छ संशयम्
यद् अत्र तथ्यं तद् ब्रूहि तारे कस्य सुतस् त्व् अयम् ॥

9.31

उवाच प्राञ्जलिः सा तं सोमस्येति पितामहम्
तदा तं मूर्ध्नि चाघ्राय सोमो राजा सुतं प्रति ॥

9.32

बुध इत्य् अकरोन् नाम तस्य बालस्य धीमतः
प्रतिकूलं च गगने समभ्युत्तिष्ठते बुधः ॥

9.33

उत्पादयाम् आस तदा पुत्रं वैराजपुत्रिकम्
तस्यापत्यं महातेजा बभूवैलः पुरूरवाः ॥

9.34

उर्वश्यां जज्ञिरे यस्य पुत्राः सप्त महात्मनः
एतत् सोमस्य वो जन्म कीर्तितं कीर्तिवर्धनम् ॥

9.35

वंशम् अस्य मुनिश्रेष्ठाः कीर्त्यमानं निबोधत
धन्यम् आयुष्यम् आरोग्यं पुण्यं संकल्पसाधनम् ॥

9.36

सोमस्य जन्म श्रुत्वैव पापेभ्यो विप्रमुच्यते ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc