ब्रह्म पुराण · अध्याय 8
सत्यव्रतस् तु भक्त्या च कृपया च प्रतिज्ञया
विश्वामित्रकलत्रं तु बभार विनये स्थितः ॥
हत्वा मृगान् वराहांश् च महिषांश् च वनेचरान्
विश्वामित्राश्रमाभ्याशे मांसं वृक्षे बबन्ध च ॥
उपांशुव्रतम् आस्थाय दीक्षां द्वादशवार्षिकीम्
पितुर् नियोगाद् अवसत् तस्मिन् वनगते नृपे ॥
अयोध्यां चैव राज्यं च तथैवान्तःपुरं मुनिः
याज्योपाध्यायसंयोगाद् वसिष्ठः पर्यरक्षत ॥
सत्यव्रतस् तु बाल्याच् च भाविनो ऽर्थस्य वै बलात्
वसिष्ठे ऽभ्यधिकं मन्युं धारयाम् आस नित्यशः ॥
पित्रा हि तं तदा राष्ट्रात् त्यज्यमानं प्रियं सुतम्
निवारयाम् आस मुनिर् बहुना कारणेन न ॥
पाणिग्रहणमन्त्राणां निष्ठा स्यात् सप्तमे पदे
न च सत्यव्रतस् तस्माद् धतवान् सप्तमे पदे ॥
जानन् धर्मं वसिष्ठस् तु न मां त्रातीति भो द्विजाः
सत्यव्रतस् तदा रोषं वसिष्ठे मनसाकरोत् ॥
गुणबुद्ध्या तु भगवान् वसिष्ठः कृतवांस् तथा
न च सत्यव्रतस् तस्य तम् उपांशुम् अबुध्यत ॥
तस्मिन्न् अपरितोषश् च पितुर् आसीन् महात्मनः
तेन द्वादश वर्षाणि नावर्षत् पाकशासनः ॥
तेन त्व् इदानीं विहितां दीक्षां तां दुर्वहां भुवि
कुलस्य निष्कृतिर् विप्राः कृता सा वै भवेद् इति ॥
न तं वसिष्ठो भगवान् पित्रा त्यक्तं न्यवारयत्
अभिषेक्ष्याम्य् अहं पुत्रम् अस्येत्य् एवंमतिर् मुनिः ॥
स तु द्वादश वर्षाणि तां दीक्षाम् अवहद् बली
अविद्यमाने मांसे तु वसिष्ठस्य महात्मनः ॥
सर्वकामदुघां दोग्ध्रीं स ददर्श नृपात्मजः
तां वै क्रोधाच् च मोहाच् च श्रमाच् चैव क्षुधान्वितः ॥
देशधर्मगतो राजा जघान मुनिसत्तमाः
तन्मांसं स स्वयं चैव विश्वामित्रस्य चात्मजान् ॥
भोजयाम् आस तच् छ्रुत्वा वसिष्ठो ऽप्य् अस्य चुक्रुधे ॥
पातयेयम् अहं क्रूर तव शङ्कुम् असंशयम्
यदि ते द्वाव् इमौ शङ्कू न स्यातां वै कृतौ पुनः ॥
पितुश् चापरितोषेण गुरुदोग्ध्रीवधेन च
अप्रोक्षितोपयोगाच् च त्रिविधस् ते व्यतिक्रमः ॥
एवं त्रीण्य् अस्य शङ्कूनि तानि दृष्ट्वा महातपाः
त्रिशङ्कुर् इति होवाच त्रिशङ्कुस् तेन स स्मृतः ॥
विश्वामित्रस्य दाराणाम् अनेन भरणं कृतम्
तेन तस्मै वरं प्रादान् मुनिः प्रीतस् त्रिशङ्कवे ॥
छन्द्यमानो वरेणाथ वरं वव्रे नृपात्मजः
सशरीरो व्रजे स्वर्गम् इत्य् एवं याचितो वरः ॥
अनावृष्टिभये तस्मिन् गते द्वादशवार्षिके
पित्र्ये राज्ये ऽभिषिच्याथ याजयाम् आस पार्थिवम् ॥
मिषतां देवतानां च वसिष्ठस्य च कौशिकः
दिवम् आरोपयाम् आस सशरीरं महातपाः ॥
तस्य सत्यरथा नाम पत्नी कैकेयवंशजा
कुमारं जनयाम् आस हरिश्चन्द्रम् अकल्मषम् ॥
स वै राजा हरिश्चन्द्रस् त्रैशङ्कव इति स्मृतः
आहर्ता राजसूयस्य सम्राड् इति ह विश्रुतः ॥
हरिश्चन्द्रस्य पुत्रो ऽभूद् रोहितो नाम पार्थिवः
हरितो रोहितस्याथ चञ्चुर् हारित उच्यते ॥
विजयश् च मुनिश्रेष्ठाश् चञ्चुपुत्रो बभूव ह
जेता स सर्वपृथिवीं विजयस् तेन स स्मृतः ॥
रुरुकस् तनयस् तस्य राजा धर्मार्थकोविदः
रुरुकस्य वृकः पुत्रो वृकाद् बाहुस् तु जज्ञिवान् ॥
हैहयास् तालजङ्घाश् च निरस्यन्ति स्म तं नृपम्
तत्पत्नी गर्भम् आदाय और्वस्याश्रमम् आविशत् ॥
नासत्यो धार्मिकश् चैव स ह धर्मयुगे ऽभवत्
सगरस् तु सुतो बाहोर् यज्ञे सह गरेण वै ॥
और्वस्याश्रमम् आसाद्य भार्गवेणाभिरक्षितः
आग्नेयम् अस्त्रं लब्ध्वा च भार्गवात् सगरो नृपः ॥
जिगाय पृथिवीं हत्वा तालजङ्घान् सहैहयान्
शकानां पह्नवानां च धर्मं निरसद् अच्युतः
क्षत्रियाणां मुनिश्रेष्ठाः पारदानां च धर्मवित् ॥
कथं स सगरो जातो गरेणैव सहाच्युतः
किमर्थं च शकादीनां क्षत्रियाणां महौजसाम् ॥
धर्मान् कुलोचितान् राजा क्रुद्धो निरसद् अच्युतः
एतन् नः सर्वम् आचक्ष्व विस्तरेण महामते ॥
बाहोर् व्यसनिनः पूर्वं हृतं राज्यम् अभूत् किल
हैहयैस् तालजङ्घैश् च शकैः सार्धं द्विजोत्तमाः ॥
यवनाः पारदाश् चैव काम्बोजाः पह्नवास् तथा
एते ह्य् अपि गणाः पञ्च हैहयार्थे पराक्रमन् ॥
हृतराज्यस् तदा राजा स वै बाहुर् वनं ययौ
पत्न्या चानुगतो दुःखी तत्र प्राणान् अवासृजत् ॥
पत्नी तु यादवी तस्य सगर्भा पृष्ठतो ऽन्वगात्
सपत्न्या च गरस् तस्यै दत्तः पूर्वं किलानघाः ॥
सा तु भर्तुश् चितां कृत्वा वने ताम् अभ्यरोहत
और्वस् तां भार्गवो विप्राः कारुण्यात् समवारयत् ॥
तस्याश्रमे च गर्भः स गरेणैव सहाच्युतः
व्यजायत महाबाहुः सगरो नाम पार्थिवः ॥
और्वस् तु जातकर्मादींस् तस्य कृत्वा महात्मनः
अध्याप्य वेदशास्त्राणि ततो ऽस्त्रं प्रत्यपादयत् ॥
आग्नेयं तु महाभागा अमरैर् अपि दुःसहम्
स तेनास्त्रबलेनाजौ बलेन च समन्वितः ॥
हैहयान् विजघानाशु क्रुद्धो रुद्रः पशून् इव
आजहार च लोकेषु कीर्तिं कीर्तिमतां वरः ॥
ततः शकांश् च यवनान् काम्बोजान् पारदांस् तथा
पह्नवांश् चैव निःशेषान् कर्तुं व्यवसितो नृपः ॥
ते वध्यमाना वीरेण सगरेण महात्मना
वसिष्ठं शरणं गत्वा प्रणिपेतुर् मनीषिणम् ॥
वसिष्ठस् त्व् अथ तान् दृष्ट्वा समयेन महाद्युतिः
सगरं वारयाम् आस तेषां दत्त्वाभयं तदा ॥
सगरः स्वां प्रतिज्ञां तु गुरोर् वाक्यं निशम्य च
धर्मं जघान तेषां वै वेषान् अन्यांश् चकार ह ॥
अर्धं शकानां शिरसो मुण्डयित्वा व्यसर्जयत्
यवनानां शिरः सर्वं काम्बोजानां तथैव च ॥
पारदा मुक्तकेशाश् च पह्नवाञ् श्मश्रुधारिणः
निःस्वाध्यायवषट्काराः कृतास् तेन महात्मना ॥
शका यवनकाम्बोजाः पारदाश् च द्विजोत्तमाः
कोणिसर्पा माहिषका दर्वाश् चोलाः सकेरलाः ॥
सर्वे ते क्षत्रिया विप्रा धर्मस् तेषां निराकृतः
वसिष्ठवचनाद् राज्ञा सगरेण महात्मना ॥
स धर्मविजयी राजा विजित्येमां वसुंधराम्
अश्वं प्रचारयाम् आस वाजिमेधाय दीक्षितः ॥
तस्य चारयतः सो ऽश्वः समुद्रे पूर्वदक्षिणे
वेलासमीपे ऽपहृतो भूमिं चैव प्रवेशितः ॥
स तं देशं तदा पुत्रैः खानयाम् आस पार्थिवः
आसेदुस् ते तदा तत्र खन्यमाने महार्णवे ॥
तम् आदिपुरुषं देवं हरिं कृष्णं प्रजापतिम्
विष्णुं कपिलरूपेण स्वपन्तं पुरुषं तदा ॥
तस्य चक्षुःसमुत्थेन तेजसा प्रतिबुध्यतः
दग्धाः सर्वे मुनिश्रेष्ठाश् चत्वारस् त्व् अवशेषिताः ॥
बर्हिकेतुः सुकेतुश् च तथा धर्मरथो नृपः
शूरः पञ्चनदश् चैव तस्य वंशकरा नृपाः ॥
प्रादाच् च तस्मै भगवान् हरिर् नारायणो वरम्
अक्षयं वंशम् इक्ष्वाकोः कीर्तिं चाप्य् अनिवर्तिनीम् ॥
पुत्रं समुद्रं च विभुः स्वर्गे वासं तथाक्षयम्
समुद्रश् चार्घम् आदाय ववन्दे तं महीपतिम् ॥
सागरत्वं च लेभे स कर्मणा तेन तस्य ह
तं चाश्वमेधिकं सो ऽश्वं समुद्राद् उपलब्धवान् ॥
आजहाराश्वमेधानां शतं स सुमहातपाः
पुत्राणां च सहस्राणि षष्टिस् तस्येति नः श्रुतम् ॥
सगरस्यात्मजा वीराः कथं जाता महाबलाः
विक्रान्ताः षष्टिसाहस्रा विधिना केन सत्तम ॥
द्वे भार्ये सगरस्यास्तां तपसा दग्धकिल्बिषे
ज्येष्ठा विदर्भदुहिता केशिनी नाम नामतः ॥
कनीयसी तु महती पत्नी परमधर्मिणी
अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ॥
और्वस् ताभ्यां वरं प्रादात् तद् बुध्यध्वं द्विजोत्तमाः
षष्टिं पुत्रसहस्राणि गृह्णात्व् एका नितम्बिनी ॥
एकं वंशधरं त्व् एका यथेष्टं वरयत्व् इति
तत्रैका जगृहे पुत्रान् षष्टिसाहस्रसंमितान् ॥
एकं वंशधरं त्व् एका तथेत्य् आह ततो मुनिः
राजा पञ्चजनो नाम बभूव स महाद्युतिः ॥
इतरा सुषुवे तुम्बीं बीजपूर्णाम् इति श्रुतिः
तत्र षष्टिसहस्राणि गर्भास् ते तिलसंमिताः ॥
संबभूवुर् यथाकालं ववृधुश् च यथासुखम्
घृतपूर्णेषु कुम्भेषु तान् गर्भान् निदधे ततः ॥
धात्रीश् चैकैकशः प्रादात् तावतीः पोषणे नृपः
ततो दशसु मासेषु समुत्तस्थुर् यथाक्रमम् ॥
कुमारास् ते यथाकालं सगरप्रीतिवर्धनाः
षष्टिपुत्रसहस्राणि तस्यैवम् अभवन् द्विजाः ॥
गर्भाद् अलाबूमध्याद् वै जातानि पृथिवीपतेः
तेषां नारायणं तेजः प्रविष्टानां महात्मनाम् ॥
एकः पञ्चजनो नाम पुत्रो राजा बभूव ह
शूरः पञ्चजनस्यासीद् अंशुमान् नाम वीर्यवान् ॥
दिलीपस् तस्य तनयः खट्वाङ्ग इति विश्रुतः
येन स्वर्गाद् इहागत्य मुहूर्तं प्राप्य जीवितम् ॥
त्रयो ऽभिसंधिता लोका बुद्ध्या सत्येन चानघाः
दिलीपस्य तु दायादो महाराजो भगीरथः ॥
यः स गङ्गां सरिच्छ्रेष्ठाम् अवातारयत प्रभुः
समुद्रम् आनयच् चैनां दुहितृत्वे ऽप्य् अकल्पयत् ॥
तस्माद् भागीरथी गङ्गा कथ्यते वंशचिन्तकैः
भगीरथसुतो राजा श्रुत इत्य् अभिविश्रुतः ॥
नाभागस् तु श्रुतस्यासीत् पुत्रः परमधार्मिकः
अम्बरीषस् तु नाभागिः सिन्धुद्वीपपिताभवत् ॥
अयुताजित् तु दायादः सिन्धुद्वीपस्य वीर्यवान्
अयुताजित्सुतस् त्व् आसीद् ऋतुपर्णो महायशाः ॥
दिव्याक्षहृदयज्ञो वै राजा नलसखो बली
ऋतुपर्णसुतस् त्व् आसीद् आर्तपर्णिर् महायशाः ॥
सुदासस् तस्य तनयो राजा इन्द्रसखो ऽभवत्
सुदासस्य सुतः प्रोक्तः सौदासो नाम पार्थिवः ॥
ख्यातः कल्माषपादो वै राजा मित्रसहो ऽभवत्
कल्माषपादस्य सुतः सर्वकर्मेति विश्रुतः ॥
अनरण्यस् तु पुत्रो ऽभूद् विश्रुतः सर्वकर्मणः
अनरण्यसुतो निघ्नो निघ्नतो द्वौ बभूवतुः ॥
अनमित्रो रघुश् चैव पार्थिवर्षभसत्तमौ
अनमित्रसुतो राजा विद्वान् दुलिदुहो ऽभवत् ॥
दिलीपस् तनयस् तस्य रामस्य प्रपितामहः
दीर्घबाहुर् दिलीपस्य रघुर् नाम्ना सुतो ऽभवत् ॥
अयोध्यायां महाराजो यः पुरासीन् महाबलः
अजस् तु राघवो जज्ञे तथा दशरथो ऽप्य् अजात् ॥
रामो दशरथाज् जज्ञे धर्मात्मा सुमहायशाः
रामस्य तनयो जज्ञे कुश इत्य् अभिसंज्ञितः ॥
अतिथिस् तु कुशाज् जज्ञे धर्मात्मा सुमहायशाः
अतिथेस् त्व् अभवत् पुत्रो निषधो नाम वीर्यवान् ॥
निषधस्य नलः पुत्रो नभः पुत्रो नलस्य च
नभस्य पुण्डरीकस् तु क्षेमधन्वा ततः स्मृतः ॥
क्षेमधन्वसुतस् त्व् आसीद् देवानीकः प्रतापवान्
आसीद् अहीनगुर् नाम देवानीकात्मजः प्रभुः ॥
अहीनगोस् तु दायादः सुधन्वा नाम पार्थिवः
सुधन्वनः सुतश् चापि ततो जज्ञे शलो नृपः ॥
उक्यो नाम स धर्मात्मा शलपुत्रो बभूव ह
वज्रनाभः सुतस् तस्य नलस् तस्य महात्मनः ॥
नलौ द्वाव् एव विख्यातौ पुराणे मुनिसत्तमाः
वीरसेनात्मजश् चैव यश् चेक्ष्वाकुकुलोद्वहः ॥
इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्तिताः
एते विवस्वतो वंशे राजानो भूरितेजसः ॥
पठन् सम्यग् इमां सृष्टिम् आदित्यस्य विवस्वतः
श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च
प्रजावान् एति सायुज्यम् आदित्यस्य विवस्वतः ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0