भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 10

10.1

बुधस्य तु मुनिश्रेष्ठा विद्वान् पुत्रः पुरूरवाः
तेजस्वी दानशीलश् च यज्वा विपुलदक्षिणः ॥

10.2

ब्रह्मवादी पराक्रान्तः शत्रुभिर् युधि दुर्दमः
आहर्ता चाग्निहोत्रस्य यज्ञानां च महीपतिः ॥

10.3

सत्यवादी पुण्यमतिः सम्यक्संवृतमैथुनः
अतीव त्रिषु लोकेषु यशसाप्रतिमः सदा ॥

10.4

तं ब्रह्मवादिनं शान्तं धर्मज्ञं सत्यवादिनम्
उर्वशी वरयाम् आस हित्वा मानं यशस्विनी ॥

10.5

तया सहावसद् राजा दश वर्षाणि पञ्च च
षट् पञ्च सप्त चाष्टौ च दश चाष्टौ च भो द्विजाः ॥

10.6

वने चैत्ररथे रम्ये तथा मन्दाकिनीतटे
अलकायां विशालायां नन्दने च वनोत्तमे ॥

10.7

उत्तरान् स कुरून् प्राप्य मनोरमफलद्रुमान्
गन्धमादनपादेषु मेरुशृङ्गे तथोत्तरे ॥

10.8

एतेषु वनमुख्येषु सुरैर् आचरितेषु च
उर्वश्या सहितो राजा रेमे परमया मुदा ॥

10.9

देशे पुण्यतमे चैव महर्षिभिर् अभिष्टुते
राज्यं स कारयाम् आस प्रयागे पृथिवीपतिः ॥

10.10

एवंप्रभावो राजासीद् ऐलस् तु नरसत्तमः
उत्तरे जाह्नवीतीरे प्रतिष्ठाने महायशाः ॥

10.11

ऐलपुत्रा बभूवुस् ते सप्त देवसुतोपमाः
गन्धर्वलोके विदिता आयुर् धीमान् अमावसुः ॥

10.12

विश्वायुश् चैव धर्मात्मा श्रुतायुश् च तथापरः
दृढायुश् च वनायुश् च बह्वायुश् चोर्वशीसुताः ॥

10.13

अमावसोस् तु दायादो भीमो राजाथ राजराट्
श्रीमान् भीमस्य दायादो राजासीत् काञ्चनप्रभः ॥

10.14

विद्वांस् तु काञ्चनस्यापि सुहोत्रो ऽभून् महाबलः
सुहोत्रस्याभवज् जह्नुः केशिन्या गर्भसंभवः ॥

10.15

आजह्रे यो महत् सत्त्रं सर्पमेधं महामखम्
पतिलोभेन यं गङ्गा पतित्वेन ससार ह ॥

10.16

नेच्छतः प्लावयाम् आस तस्य गङ्गा तदा सदः
स तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः ॥

10.17

सौहोत्रिर् अशपद् गङ्गां क्रुद्धो राजा द्विजोत्तमाः
एष ते विफलं यत्नं पिबन्न् अम्भः करोम्य् अहम् ॥

10.18

अस्य गङ्गे ऽवलेपस्य सद्यः फलम् अवाप्नुहि
जह्नुराजर्षिणा पीतां गङ्गां दृष्ट्वा महर्षयः ॥

10.19

उपनिन्युर् महाभागां दुहितृत्वेन जाह्नवीम्
युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुर् आवहत् ॥

10.20

युवनाश्वस्य शापेन गङ्गार्धेन विनिर्गता
कावेरीं सरितां श्रेष्ठां जह्नोर् भार्याम् अनिन्दिताम् ॥

10.21

जह्नुस् तु दयितं पुत्रं सुनद्यं नाम धार्मिकम्
कावेर्यां जनयाम् आस अजकस् तस्य चात्मजः ॥

10.22

अजकस्य तु दायादो बलाकाश्वो महीपतिः
बभूव मृगयाशीलः कुशस् तस्यात्मजो ऽभवत् ॥

10.23

कुशपुत्रा बभूवुर् हि चत्वारो देववर्चसः
कुशिकः कुशनाभश् च कुशाम्बो मूर्तिमांस् तथा ॥

10.24

बल्लवैः सह संवृद्धो राजा वनचरः सदा
कुशिकस् तु तपस् तेपे पुत्रम् इन्द्रसमं प्रभुः ॥

10.25

लभेयम् इति तं शक्रस् त्रासाद् अभ्येत्य जज्ञिवान्
पूर्णे वर्षसहस्रे वै ततः शक्रो ह्य् अपश्यत ॥

10.26

अत्युग्रतपसं दृष्ट्वा सहस्राक्षः पुरंदरः
समर्थः पुत्रजनने स्वयम् एवास्य शाश्वतः ॥

10.27

पुत्रार्थं कल्पयाम् आस देवेन्द्रः सुरसत्तमः
स गाधिर् अभवद् राजा मघवान् कौशिकः स्वयम् ॥

10.28

पौरा यस्याभवद् भार्या गाधिस् तस्याम् अजायत
गाधेः कन्या महाभागा नाम्ना सत्यवती शुभा ॥

10.29

तां गाधिः काव्यपुत्राय ऋचीकाय ददौ प्रभुः
तस्याः प्रीतः स वै भर्ता भार्गवो भृगुनन्दनः ॥

10.30

पुत्रार्थं साधयाम् आस चरुं गाधेस् तथैव च
उवाचाहूय तां भार्याम् ऋचीको भार्गवस् तदा ॥

10.31

उपयोज्यश् चरुर् अयं त्वया मात्रा स्वयं शुभे
तस्यां जनिष्यते पुत्रो दीप्तिमान् क्षत्रियर्षभः ॥

10.32

अजेयः क्षत्रियैर् लोके क्षत्रियर्षभसूदनः
तवापि पुत्रं कल्याणि धृतिमन्तं तपोधनम् ॥

10.33

शमात्मकं द्विजश्रेष्ठं चरुर् एष विधास्यति
एवम् उक्त्वा तु तां भार्याम् ऋचीको भृगुनन्दनः ॥

10.34

तपस्य् अभिरतो नित्यम् अरण्यं प्रविवेश ह
गाधिः सदारस् तु तदा ऋचीकाश्रमम् अभ्यगात् ॥

10.35

तीर्थयात्राप्रसङ्गेन सुतां द्रष्टुं नरेश्वरः
चरुद्वयं गृहीत्वा सा ऋषेः सत्यवती तदा ॥

10.36

चरुम् आदाय यत्नेन सा तु मात्रे न्यवेदयत्
माता तु तस्या दैवेन दुहित्रे स्वं चरुं ददौ ॥

10.37

तस्याश् चरुम् अथाज्ञानाद् आत्मसंस्थं चकार ह
अथ सत्यवती सर्वं क्षत्रियान्तकरं तदा ॥

10.38

धारयाम् आस दीप्तेन वपुषा घोरदर्शना
ताम् ऋचीकस् ततो दृष्ट्वा योगेनाभ्युपसृत्य च ॥

10.39

ततो ऽब्रवीद् द्विजश्रेष्ठः स्वां भार्यां वरवर्णिनीम्
मात्रासि वञ्चिता भद्रे चरुव्यत्यासहेतुना ॥

10.40

जनयिष्यति हि पुत्रस् ते क्रूरकर्मातिदारुणः
भ्राता जनिष्यते चापि ब्रह्मभूतस् तपोधनः ॥

10.41

विश्वं हि ब्रह्म तपसा मया तस्मिन् समर्पितम्
एवम् उक्ता महाभागा भर्त्रा सत्यवती तदा ॥

10.42

प्रसादयाम् आस पतिं पुत्रो मे नेदृशो भवेत्
ब्राह्मणापसदस् त्वत्त इत्य् उक्तो मुनिर् अब्रवीत् ॥

10.43

नैष संकल्पितः कामो मया भद्रे तथास्त्व् इति
उग्रकर्मा भवेत् पुत्रः पितुर् मातुश् च कारणात् ॥

10.44

पुनः सत्यवती वाक्यम् एवम् उक्त्वाब्रवीद् इदम्
इच्छंल् लोकान् अपि मुने सृजेथाः किं पुनः सुतम् ॥

10.45

शमात्मकम् ऋजुं त्वं मे पुत्रं दातुम् इहार्हसि
कामम् एवंविधः पौत्रो मम स्यात् तव च प्रभो ॥

10.46

यद्य् अन्यथा न शक्यं वै कर्तुम् एतद् द्विजोत्तम
ततः प्रसादम् अकरोत् स तस्यास् तपसो बलात् ॥

10.47

पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि
त्वया यथोक्तं वचनं तथा भद्रे भविष्यति ॥

10.48

ततः सत्यवती पुत्रं जनयाम् आस भार्गवम्
तपस्य् अभिरतं दान्तं जमदग्निं समात्मकम् ॥

10.49

भृगोर् जगत्यां वंशे ऽस्मिञ् जमदग्निर् अजायत
सा हि सत्यवती पुण्या सत्यधर्मपरायणा ॥

10.50

कौशिकीति समाख्याता प्रवृत्तेयं महानदी
इक्ष्वाकुवंशप्रभवो रेणुर् नाम नराधिपः ॥

10.51

तस्य कन्या महाभागा कामली नाम रेणुका
रेणुकायां तु कामल्यां तपोविद्यासमन्वितः ॥

10.52

आर्चीको जनयाम् आस जामदग्न्यं सुदारुणम्
सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम् ॥

10.53

रामं क्षत्रियहन्तारं प्रदीप्तम् इव पावकम्
और्वस्यैवम् ऋचीकस्य सत्यवत्यां महायशाः ॥

10.54

जमदग्निस् तपोवीर्याज् जज्ञे ब्रह्मविदां वरः
मध्यमश् च शुनःशेफः शुनःपुच्छः कनिष्ठकः ॥

10.55

विश्वामित्रं तु दायादं गाधिः कुशिकनन्दनः
जनयाम् आस पुत्रं तु तपोविद्याशमात्मकम् ॥

10.56

प्राप्य ब्रह्मर्षिसमतां यो ऽयं ब्रह्मर्षितां गतः
विश्वामित्रस् तु धर्मात्मा नाम्ना विश्वरथः स्मृतः ॥

10.57

जज्ञे भृगुप्रसादेन कौशिकाद् वंशवर्धनः
विश्वामित्रस्य च सुता देवरातादयः स्मृताः ॥

10.58

प्रख्यातास् त्रिषु लोकेषु तेषां नामान्य् अतःपरम्
देवरातः कतिश् चैव यस्मात् कात्यायनाः स्मृताः ॥

10.59

शालावत्यां हिरण्याक्षो रेणुर् जज्ञे ऽथ रेणुकः
सांकृतिर् गालवश् चैव मुद्गलश् चैव विश्रुतः ॥

10.60

मधुच्छन्दो जयश् चैव देवलश् च तथाष्टकः
कच्छपो हारितश् चैव विश्वामित्रस्य ते सुताः ॥

10.61

तेषां ख्यातानि गोत्राणि कौशिकानां महात्मनाम्
पाणिनो बभ्रवश् चैव ध्यानजप्यास् तथैव च ॥

10.62

पार्थिवा देवराताश् च शालङ्कायनबाष्कलाः
लोहिता यमदूताश् च तथा कारूषकाः स्मृताः ॥

10.63

पौरवस्य मुनिश्रेष्ठा ब्रह्मर्षेः कौशिकस्य च
संबन्धो ऽप्य् अस्य वंशे ऽस्मिन् ब्रह्मक्षत्रस्य विश्रुतः ॥

10.64

विश्वामित्रात्मजानां तु शुनःशेफो ऽग्रजः स्मृतः
भार्गवः कौशिकत्वं हि प्राप्तः स मुनिसत्तमः ॥

10.65

विश्वामित्रस्य पुत्रस् तु शुनःशेफो ऽभवत् किल
हरिदश्वस्य यज्ञे तु पशुत्वे विनियोजितः ॥

10.66

देवैर् दत्तः शुनःशेफो विश्वामित्राय वै पुनः
देवैर् दत्तः स वै यस्माद् देवरातस् ततो ऽभवत् ॥

10.67

देवरातादयः सप्त विश्वामित्रस्य वै सुताः
दृषद्वतीसुतश् चापि वैश्वामित्रस् तथाष्टकः ॥

10.68

अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया
अत ऊर्ध्वं प्रवक्ष्यामि वंशम् आयोर् महात्मनः ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc