भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 88

88.1

तस्माद् अप्य् अपरं तीर्थं जनस्थानम् इति श्रुतम्
चतुर्योजनविस्तीर्णं स्मरणान् मुक्तिदं नृणाम् ॥

88.2

वैवस्वतान्वये जातो राजाभूज् जनकः पुरा
सो ऽपांपतेस् तु तनुजाम् उपयेमे गुणार्णवाम् ॥

88.3

धर्मार्थकाममोक्षाणां जनकां जनको नृपः
अनुरूपगुणत्वाच् च तस्य भार्या गुणार्णवा ॥

88.4

याज्ञवल्क्यश् च विप्रेन्द्रस् तस्य राज्ञः पुरोहितः
तम् अपृच्छन् नृपश्रेष्ठो याज्ञवल्क्यं पुरोहितम् ॥

88.5

भुक्तिमुक्ती उभे श्रेष्ठे निर्णीते मुनिसत्तमैः
दासीदासेभतुरग रथाद्यैर् भुक्तिर् उत्तमा ॥

88.6

किंत्व् अन्तविरसा भुक्तिर् मुक्तिर् एका निरत्यया
भुक्तेर् मुक्तिः श्रेष्ठतमा भुक्त्या मुक्तिं कथं व्रजेत् ॥

88.7

सर्वसङ्गपरित्यागान् मुक्तिप्राप्तिः सुदुःखतः
तद् ब्रूहि द्विजशार्दूल सुखान् मुक्तिः कथं भवेत् ॥

88.8

अपांपतिस् तव गुरुः श्वशुरः प्रियकृत् तथा
तं गत्वा पृच्छ नृपते उपदेक्ष्यति ते हितम् ॥

88.9

याज्ञवल्क्यश् च जनको राजानं वरुणं तदा
गत्वा चोचतुर् अव्यग्रौ मुक्तिमार्गं यथाक्रमम् ॥

88.10

द्विधा तु संस्थिता मुक्तिः कर्मद्वारे ऽप्य् अकर्मणि
वेदे च निश्चितो मार्गः कर्म ज्यायो ह्य् अकर्मणः ॥

88.11

सर्वं च कर्मणा बद्धं पुरुषार्थचतुष्टयम्
अकर्मणैवाप्यत इति मुक्तिमार्गो मृषोच्यते ॥

88.12

कर्मणा सर्वधान्यानि सेत्स्यन्ति नृपसत्तम
तस्मात् सर्वात्मना कर्म कर्तव्यं वैदिकं नृभिः ॥

88.13

तेन भुक्तिं च मुक्तिं च प्राप्नुवन्तीह मानवाः
अकर्मणः कर्म पुण्यं कर्म चाप्य् आश्रमेषु च ॥

88.14

जात्याश्रितं च राजेन्द्र तत्रापि शृणु धर्मवित्
आश्रमाणि च चत्वारि कर्मद्वाराणि मानद ॥

88.15

चतुर्णाम् आश्रमाणां च गार्हस्थ्यं पुण्यदं स्मृतम्
तस्माद् भुक्तिश् च मुक्तिश् च भवतीति मतिर् मम ॥

88.16

एतच् छ्रुत्वा तु जनको याज्ञवल्क्यश् च बुद्धिमान्
वरुणं पूजयित्वा तु पुनर् वचनम् ऊचतुः ॥

88.17

को देशः किं च तीर्थं स्याद् भुक्तिमुक्तिप्रदायकम्
तद् वदस्व सुरश्रेष्ठ सर्वज्ञो ऽसि नमो ऽस्तु ते ॥

88.18

पृथिव्यां भारतं वर्षं दण्डकं तत्र पुण्यदम्
तस्मिन् क्षेत्रे कृतं कर्म भुक्तिमुक्तिप्रदं नृणाम् ॥

88.19

तीर्थानां गौतमी गङ्गा श्रेष्ठा मुक्तिप्रदा नृणाम्
तत्र यज्ञेन दानेन भोगान् मुक्तिम् अवाप्स्यति ॥

88.20

याज्ञवल्क्यश् च जनको वाचं श्रुत्वा ह्य् अपांपतेः
वरुणेन ह्य् अनुज्ञातौ स्वपुरीं जग्मतुस् तदा ॥

88.21

अश्वमेधादिकं कर्म चकार जनको नृपः
याजयाम् आस विप्रेन्द्रो याज्ञवल्क्यश् च तं नृपम् ॥

88.22

गङ्गातीरं समाश्रित्य यज्ञान् मुक्तिम् अवाप राट्
तथा जनकराजानो बहवस् तत्र कर्मणा ॥

88.23

मुक्तिं प्रापुर् महाभागा गौतम्याश् च प्रसादतः
ततः प्रभृति तत् तीर्थं जनस्थानेति विश्रुतम् ॥

88.24

जनकानां यज्ञसदो जनस्थानं प्रकीर्तितम्
चतुर्योजनविस्तीर्णं स्मरणात् सर्वपापनुत् ॥

88.25

तत्र स्नानेन दानेन पितॄणां तर्पणेन तु
तीर्थस्य स्मरणाद् वापि गमनाद् भक्तिसेवनात् ॥

88.26

सर्वान् कामान् अवाप्नोति मुक्तिं च समवाप्नुयात् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc