भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 89

89.1

अरुणा वरुणा चैव नद्यौ पुण्यतरे शुभे
तयोश् च संगमः पुण्यो गङ्गायां मुनिसत्तम ॥

89.2

तदुत्पत्तिं शृणुष्वेह सर्वपापविनाशिनीम्
कश्यपस्य सुतो ज्येष्ठ आदित्यो लोकविश्रुतः ॥

89.3

त्रैलोक्यचक्षुस् तीक्ष्णांशुः सप्ताश्वो लोकपूजितः
तस्य पत्नी उषा ख्याता त्वाष्ट्री त्रैलोक्यसुन्दरी ॥

89.4

भर्तुः प्रतापतीव्रत्वम् असहन्ती सुमध्यमा
चिन्तयाम् आस किं कृत्यं मम स्याद् इति भामिनी ॥

89.5

तस्याः पुत्रौ महाराज्ञौ मनुर् वैवस्वतो यमः
यमुना च नदी पुण्या शृणु विस्मयकारणम् ॥

89.6

साकरोद् आत्मनश् छायाम् आत्मरूपेण यत्नतः
ताम् अब्रवीत् ततश् चोषा त्वं च मत्सदृशी भव ॥

89.7

भर्तारं त्वम् अपत्यानि पालयस्व ममाज्ञया
यावद् आगमनं मे स्यात् पत्युस् तावत् प्रिया भव ॥

89.8

नाख्यातव्यं त्वया क्वापि अपत्यानां तथा प्रिये
तथेत्य् आह च सा छाया निर्जगाम गृहाद् उषा ॥

89.9

इत्य् उक्त्वा सा जगामाशु शान्तं रूपम् अभीप्सती
सा गत्वोषा गृहं त्वष्टुः पित्रे सर्वं न्यवेदयत्
त्वष्टापि चकितः प्राह तां सुतां सुतवत्सलः ॥

89.10

नैतद् युक्तं भर्तृमत्या यत् स्वैरेण प्रवर्तनम्
अपत्यानां कथं वृत्तिर् भर्तुर् वा सवितुस् तव
बिभेमि भद्रे शिष्टो ऽहं भर्तुर् गेहं पुनर् व्रज ॥

89.11

एवम् उक्ता तु पित्रा सा नेत्य् उक्त्वा वै पुनः पुनः
उत्तरं च कुरोर् देशं जगाम तपसे त्वरा ॥

89.12

तत्र तेपे तपस् तीव्रं वडवारूपधारिणी
दुष्प्रेक्षं तं स्वकं कान्तं ध्यायन्ती निश्चला उषा ॥

89.13

एतस्मिन्न् अन्तरे तात छाया चोषास्वरूपिणी
पत्यौ सा वर्तयाम् आस अपत्यान्य् अथ जज्ञिरे ॥

89.14

सावर्णिश् च शनिश् चैव विष्टिर् या दुष्टकन्यका
सा छाया वर्तयाम् आस वैषम्येणैव नित्यशः ॥

89.15

स्वेष्व् अपत्येषु चोषाया यमस् तत्र चुकोप ह
वैषम्येणाथ वर्तन्तीं छायां तां मातरं तदा ॥

89.16

ताडयाम् आस पादेन दक्षिणाशापतिर् यमः
पुत्रदौर्जन्यसंक्षोभाच् छाया वैवस्वतं यमम् ॥

89.17

शशाप पाप ते पादो विशीर्यतु ममाज्ञया
विशीर्णचरणो दुःखाद् रुदन् पितरम् अभ्यगात्
सवित्रे तं तु वृत्तान्तं न्यवेदयद् अशेषतः ॥

89.18

नेयं माता सुरश्रेष्ठ यया शप्तो ऽहम् ईदृशः
अपत्येषु विरुद्धेषु जननी नैव कुप्यते ॥

89.19

यद् बाल्याद् अब्रवं किंचिद् अथवा दुष्कृतं कृतम्
नैव कुप्यति सा माता तस्मान् नेयं ममाम्बिका ॥

89.20

यद् अपत्यकृतं किंचित् साध्व् असाधु यथा तथा
मात्य् अस्यां सर्वम् अप्य् एतत् तस्मान् मातेति गीयते ॥

89.21

प्रधक्ष्यन्तीव मां तात नित्यं पश्यति चक्षुषा
वक्त्य् अग्निकालसदृशा वाचा नेयं मदम्बिका ॥

89.22

तत् पुत्रवचनं श्रुत्वा सविताचिन्तयत् ततः
इयं छाया नास्य माता उषा माता तु सान्यतः ॥

89.23

मम शान्तिम् अभीप्सन्ती देशे ऽन्यस्मिंस् तपोरता
उत्तरे च कुरौ त्वाष्ट्री वडवारूपधारिणी ॥

89.24

तत्रास्ते सा इति ज्ञात्वा जगामेशो दिवाकरः
यत्र सा वर्तते कान्ता अश्वरूपः स्वयं तदा ॥

89.25

तां दृष्ट्वा वडवारूपां पर्यधावद् धयाकृतिः
कामातुरं हयं दृष्ट्वा श्रुत्वा वै हेषितस्वनम् ॥

89.26

उषा पतिव्रतोपेता पतिध्यानपरायणा
हयधर्षणसंभीता को न्व् अयं चेत्य् अजानती ॥

89.27

अपलायत् पतौ प्राप्ते दक्षिणाभिमुखी त्वरा
को नु मे रक्षको ऽत्र स्याद् ऋषयो वाथवा सुराः ॥

89.28

धावन्तीं तां प्रियाम् अश्वाम् अश्वरूपधरः स्वयम्
पर्यधावद् यतो याति उषा भानुस् ततस् ततः ॥

89.29

स्मरग्रहवशे जातः को दुश्चेष्टं न चेष्टते
भागीरथीं नदीश् चान्या वनान्य् उपवनानि च ॥

89.30

नर्मदां चाथ विन्ध्यं च दक्षिणाभिमुखाव् उभौ
अतिक्रम्य भयोद्विग्ना त्वाष्ट्र्य् अभ्यगाच् च गौतमीम् ॥

89.31

त्रातारः सन्ति मुनयो जनस्थान इति श्रुतम्
ऋषीणाम् आश्रमं साश्वा प्रविष्टा गौतमीं तथा ॥

89.32

अनुप्राप्तस् तथा चाश्वो भानुस् तद्रूपवांस् ततः
अश्वं निवारयाम् आसुर् जनस्था मुनिदारकाः
ततः कोपाद् ऋषींस् तांश् च शशापोषापतिः प्रभुः ॥

89.33

निवारयथ मां यस्माद् वटा यूयं भविष्यथ ॥

89.34

ज्ञानदृष्ट्या तु मुनयो मेनिरे ऽश्वम् उषापतिम्
स्तुवन्तो देवदेवेशं भानुं तं मुनयो मुदा ॥

89.35

स्तूयमानो मुनिगणैर् अश्वां भानुर् अथागमत्
वडवाया मुखे लग्नं मुखं चाश्वस्वरूपिणम् ॥

89.36

ज्ञात्वा त्वाष्ट्री च भर्तारं मुखाद् वीर्यं प्रसुस्रुवे
तयोर् वीर्येण गङ्गायाम् अश्विनौ समजायताम् ॥

89.37

तत्रागच्छन् सुरगणाः सिद्धाश् च मुनयस् तथा
नद्यो गावस् तथौषध्यो देवा ज्योतिर्गणास् तथा ॥

89.38

सप्ताश्वश् च रथः पुण्यो ह्य् अरुणो भानुसारथिः
यमो मनुश् च वरुणः शनिर् वैवस्वतस् तथा ॥

89.39

यमुना च नदी पुण्या तापी चैव महानदी
तत्तद्रूपं समास्थाय नद्यस् ता विस्मयान् मुने ॥

89.40

द्रष्टुं ते विस्मयाविष्टा आजग्मुः श्वशुरस् तथा
अभिप्रायं विदित्वा तु श्वशुरं भानुर् अब्रवीत् ॥

89.41

उषायाः प्रीतये त्वष्टः कुर्वत्यास् तप उत्तमम्
यन्त्रारूढं च मां कृत्वा छिन्धि तेजांस्य् अनेकशः
यावत् सौख्यं भवेद् अस्यास् तावच् छिन्धि प्रजापते ॥

89.42

तथेत्य् उक्त्वा ततस् त्वष्टा सोमनाथस्य संनिधौ
तेजसां छेदनं चक्रे प्रभासं तु ततो विदुः ॥

89.43

भर्त्रा च संगता यत्र गौतम्याम् अश्वरूपिणी
अश्विनोर् यत्र चोत्पत्तिर् अश्वतीर्थं तद् उच्यते ॥

89.44

भानुतीर्थं तद् आख्यातं तथा पञ्चवटाश्रमः
तापी च यमुना चैव पितरं द्रष्टुम् आगते ॥

89.45

अरुणावरुणानद्योर् गङ्गायां संगमः शुभः
देवानां तत्र तीर्थानाम् आगतानां पृथक् पृथक् ॥

89.46

नव त्रीणि सहस्राणि तीर्थानि गुणवन्ति च
तत्र स्नानं च दानं च सर्वम् अक्षयपुण्यदम् ॥

89.47

स्मरणात् पठनाद् वापि श्रवणाद् अपि नारद
सर्वपापविनिर्मुक्तो धर्मवान् स सुखी भवेत् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc