भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 87

87.1

अहल्यासंगमं चेह तीर्थं त्रैलोक्यपावनम्
शृणु सम्यङ् मुनिश्रेष्ठ तत्र वृत्तम् इदं यथा ॥

87.2

कौतुकेनातिमहता मया पूर्वं मुनीश्वर
सृष्टा कन्या बहुविधा रूपवत्यो गुणान्विताः ॥

87.3

तासाम् एकां श्रेष्ठतमां निर्ममे शुभलक्षणाम्
तां बालां चारुसर्वाङ्गीं दृष्ट्वा रूपगुणान्विताम् ॥

87.4

को वास्याः पोषणे शक्त इति मे बुद्धिर् आविशत्
न दैत्यानां सुराणां च न मुनीनां तथैव च ॥

87.5

नास्त्य् अस्याः पोषणे शक्तिर् इति मे बुद्धिर् अन्वभूत्
गुणज्येष्ठाय विप्राय तपोयुक्ताय धीमते ॥

87.6

सर्वलक्षणयुक्ताय वेदवेदाङ्गवेदिने
गौतमाय महाप्राज्ञाम् अददां पोषणाय ताम् ॥

87.7

पालयस्व मुनिश्रेष्ठ यावद् आप्स्यति यौवनम्
यौवनस्थां पुनः साध्वीम् आनयेथा ममान्तिकम् ॥

87.8

एवम् उक्त्वा गौतमाय प्रादां कन्यां सुमध्यमाम्
ताम् आदाय मुनिश्रेष्ठ तपसा हतकल्मषः ॥

87.9

तां पोषयित्वा विधिवद् अलंकृत्य ममान्तिकम्
निर्विकारो मुनिश्रेष्ठो ह्य् अहल्याम् आनयत् तदा ॥

87.10

तां दृष्ट्वा विबुधाः सर्वे शक्राग्निवरुणादयः
मम देया सुरेशान इत्य् ऊचुस् ते पृथक् पृथक् ॥

87.11

तथैव मुनयः साध्या दानवा यक्षराक्षसाः
तान् सर्वान् आगतान् दृष्ट्वा कन्यार्थम् अथ संगतान् ॥

87.12

इन्द्रस्य तु विशेषेण महांश् चाभूत् तदा ग्रहः
गौतमस्य तु माहात्म्यं गाम्भीर्यं धैर्यम् एव च ॥

87.13

स्मृत्वा सुविस्मितो भूत्वा ममैवम् अभवत् सुधीः
देयेयं गौतमायैव नान्ययोग्या शुभानना ॥

87.14

तस्माऐ एव तु तां दास्ये तथाप्य् एवम् अचिन्तयम्
सर्वेषां च मतिर् धैर्यं मथितं बालयानया ॥

87.15

अहल्येति सुरैः प्रोक्तं मया च ऋषिभिस् तदा
देवान् ऋषींस् तदा वीक्ष्य मया तत्रोक्तम् उच्चकैः ॥

87.16

तस्मै सा दीयते सुभ्रूर् यः पृथिव्याः प्रदक्षिणाम्
कृत्वोपतिष्ठते पूर्वं न चान्यस्मै पुनः पुनः ॥

87.17

ततः सर्वे सुरगणाः श्रुत्वा वाक्यं मयेरितम्
अहल्यार्थं सुरा जग्मुः पृथिव्याश् च प्रदक्षिणे ॥

87.18

गतेषु सुरसंघेषु गौतमो ऽपि मुनीश्वर
प्रयत्नम् अकरोत् किंचिद् अहल्यार्थम् इमं तथा ॥

87.19

एतस्मिन्न् अन्तरे ब्रह्मन् सुरभिः सर्वकामधुक्
अर्धप्रसूता ह्य् अभवत् तां ददर्श स गौतमः ॥

87.20

तस्याः प्रदक्षिणं चक्रे इयम् उर्वीति संस्मरन्
लिङ्गस्य च सुरेशस्य प्रदक्षिणम् अथाकरोत् ॥

87.21

तयोः प्रदक्षिणं कृत्वा गौतमो मुनिसत्तमः
सर्वेषां चैव देवानाम् एकं चापि प्रदक्षिणम् ॥

87.22

नैवाभवद् भुवो गन्तुः संजातं द्वितयं मम
एवं निश्चित्य स मुनिर् ममान्तिकम् अथाभ्यगात् ॥

87.23

नमस्कृत्वाब्रवीद् वाक्यं गौतमो मां महामतिः
कमलासन विश्वात्मन् नमस् ते ऽस्तु पुनः पुनः ॥

87.24

प्रदक्षिणीकृता ब्रह्मन् मयेयं वसुधाखिला
यद् अत्र युक्तं देवेश जानीते तद् भवान् स्वयम् ॥

87.25

मया तु ध्यानयोगेन ज्ञात्वा गौतमम् अब्रवम्
तवैव दीयते सुभ्रूः प्रदक्षिणम् इदं कृतम् ॥

87.26

धर्मं जानीहि विप्रर्षे दुर्ज्ञेयं निगमैर् अपि
अर्धप्रसूता सुरभिः सप्तद्वीपवती मही ॥

87.27

कृता प्रदक्षिणा तस्याः पृथिव्याः सा कृता भवेत्
लिङ्गं प्रदक्षिणीकृत्य तद् एव फलम् आप्नुयात् ॥

87.28

तस्मात् सर्वप्रयत्नेन मुने गौतम सुव्रत
तुष्टो ऽहं तव धैर्येण ज्ञानेन तपसा तथा ॥

87.29

दत्तेयम् ऋषिशार्दूल कन्या लोकवरा मया
इत्य् उक्त्वाहं गौतमाय अहल्याम् अददां मुने ॥

87.30

जाते विवाहे ते देवाः कृत्वेलायाः प्रदक्षिणम्
शनैः शनैर् अथागत्य ददृशुः सर्व एव ते ॥

87.31

तं गौतमम् अहल्यां च दांपत्यं प्रीतिवर्धनम्
ते चागत्याथ पश्यन्तो विस्मिताश् चाभवन् सुराः ॥

87.32

अतिक्रान्ते विवाहे तु सुराः सर्वे दिवं ययुः
समत्सरः शचीभर्ता ताम् ईक्ष्य च दिवं ययौ ॥

87.33

ततः प्रीतमनास् तस्मै गौतमाय महात्मने
प्रादां ब्रह्मगिरिं पुण्यं सर्वकामप्रदं शुभम् ॥

87.34

अहल्यायां मुनिश्रेष्ठो रेमे तत्र स गौतमः
गौतमस्य कथां पुण्यां श्रुत्वा शक्रस् त्रिविष्टपे ॥

87.35

तम् आश्रमं तं च मुनिं तस्य भार्याम् अनिन्दिताम्
भूत्वा ब्राह्मणवेषेण द्रष्टुम् आगाच् छतक्रतुः ॥

87.36

स दृष्ट्वा भवनं तस्य भार्यां च विभवं तथा
पापीयसीं मतिं कृत्वा अहल्यां समुदैक्षत ॥

87.37

नात्मानं न परं देशं कालं शापाद् ऋषेर् भयम्
न बुबोध तदा वत्स कामाकृष्टः शतक्रतुः ॥

87.38

तद्ध्यानपरमो नित्यं सुरराज्येन गर्वितः
संतप्ताङ्गः कथं कुर्यां प्रवेशो मे कथं भवेत् ॥

87.39

एवं वसन् विप्ररूपो नान्तरं त्व् अध्यगच्छत
स कदाचिन् महाप्राज्ञः कृत्वा पौर्वाह्णिकीं क्रियाम् ॥

87.40

सहितो गौतमः शिष्यैर् निर्गतश् चाश्रमाद् बहिः
आश्रमं गौतमीं विप्रान् धान्यानि विविधानि च ॥

87.41

द्रष्टुं गतो मुनिवर इन्द्रस् तं समुदैक्षत
इदम् अन्तरम् इत्य् उक्त्वा चक्रे कार्यं मनःप्रियम् ॥

87.42

रूपं कृत्वा गौतमस्य प्रियेप्सुः स शतक्रतुः
तां दृष्ट्वा चारुसर्वाङ्गीम् अहल्यां वाक्यम् अब्रवीत् ॥

87.43

आकृष्टो ऽहं तव गुणै रूपं स्मृत्वा स्खलत्पदः
इति ब्रुवन् हसन् हस्तम् आदायान्तः समाविशत् ॥

87.44

न बुबोध त्व् अहल्या तं जारं मेने तु गौतमम्
रममाणा यथासौख्यं प्रागाच् छिष्यैः स गौतमः ॥

87.45

आगच्छन्तं नित्यम् एव अहल्या प्रियवादिनी
प्रतियाति प्रियं वक्ति तोषयन्ती च तं गुणैः ॥

87.46

ताम् अदृष्ट्वा महाप्राज्ञो मेने तन् महद् अद्भुतम्
द्वारस्थितं मुनिश्रेष्ठं सर्वे पश्यन्ति नारद ॥

87.47

अग्निहोत्रस्य शालाया रक्षिणो गृहकर्मिणः
ऊचुर् मुनिवरं भीता गौतमं विस्मयान्विताः ॥

87.48

भगवन् किम् इदं चित्रं बहिर् अन्तश् च दृश्यसे
प्रिययान्तः प्रविष्टो ऽसि तथैव च बहिर् भवान्
अहो तपःप्रभावो ऽयं नानारूपधरो भवान् ॥

87.50

तच् छ्रुत्वा विस्मितस् त्व् अन्तः प्रविष्टः को नु तिष्ठति
प्रिये अहल्ये भवति किं मां न प्रतिभाषसे
इत्य् ऋषेर् वचनं श्रुत्वा अहल्या जारम् अब्रवीत् ॥

87.51

को भवान् मुनिरूपेण पापं त्वं कृतवान् असि
इति ब्रुवती शयनाद् उत्थिता सत्वरं भयात् ॥

87.52

स चापि पापकृच् छक्रो बिडालो ऽभून् मुनेर् भयात्
त्रस्तां च विकृतां दृष्ट्वा स्वप्रियां दूषितां तदा ॥

87.53

उवाच स मुनिः कोपात् किम् इदं साहसं कृतम्
इति ब्रुवन्तं भर्तारं सापि नोवाच लज्जिता ॥

87.54

अन्वेषयंस् तु तं जारं बिडालं ददृशे मुनिः
को भवान् इति तं प्राह भस्मीकुर्यां मृषावदन् ॥

87.55

कृताञ्जलिपुटो भूत्वा चैवम् आह शचीपतिः
शचीभर्ता पुरां भेत्ता तपोधन पुरुष्टुतः ॥

87.56

ममेदं पापम् आपन्नं सत्यम् उक्तं मयानघ
महद्विगर्हितं कर्म कृतवान् अस्म्य् अहं मुने ॥

87.57

स्मरसायकनिर्भिन्न हृदयाः किं न कुर्वते
ब्रह्मन् मयि महापापे क्षमस्व करुणानिधे ॥

87.58

सन्तः कृतापराधे ऽपि न रौक्ष्यं जातु कुर्वते
निशम्य तद् वचो विप्रो हरिम् आह रुषान्वितः ॥

87.59

भगभक्त्या कृतं पापं सहस्रभगवान् भव
ताम् अप्य् आह मुनिः कोपात् त्वं च शुष्कनदी भव ॥

87.60

ततः प्रसादयाम् आस कथयन्ती तदाकृतिम् ॥

87.61

मनसाप्य् अन्यपुरुषं पापिष्ठाः कामयन्ति याः
अक्षयान् यान्ति नरकांस् तासां सर्वे ऽपि पूर्वजाः ॥

87.62

भूत्वा प्रसन्नो भगवन्न् अवधारय मद्वचः
तव रूपेण चागत्य माम् अगात् साक्षिणस् त्व् इमे ॥

87.63

तथेति रक्षिणः प्रोचुर् अहल्या सत्यवादिनी
ध्यानेनापि मुनिर् ज्ञात्वा शान्तः प्राह पतिव्रताम् ॥

87.64

यदा तु संगता भद्रे गौतम्या सरिदीशया
नदी भूत्वा पुना रूपं प्राप्स्यसे प्रियकृन् मम ॥

87.65

इत्य् ऋषेर् वचनं श्रुत्वा तथा चक्रे पतिव्रता
तया तु संगता देव्या अहल्या गौतमप्रिया ॥

87.66

पुनस् तद् रूपम् अभवद् यन् मया निर्मितं पुरा
ततः कृताञ्जलिपुटः सुरराट् प्राह गौतमम् ॥

87.67

मां पाहि मुनिशार्दूल पापिष्ठं गृहम् आगतम्
पादयोः पतितं दृष्ट्वा कृपया प्राह गौतमः ॥

87.68

गौतमीं गच्छ भद्रं ते स्नानं कुरु पुरंदर
क्षणान् निर्धूतपापस् त्वं सहस्राक्षो भविष्यसि ॥

87.69

उभयं विस्मयकरं दृष्टवान् अस्मि नारद
अहल्यायाः पुनर्भावं शचीभर्ता सहस्रदृक् ॥

87.70

ततः प्रभृति तत् तीर्थम् अहल्यासंगमं शुभम्
इन्द्रतीर्थम् इति ख्यातं सर्वकामप्रदं नृणाम् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc