भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 84

84.1

पैशाचं तीर्थम् अपरं पूजितं ब्रह्मवादिभिः
तस्य स्वरूपं वक्ष्यामि गौतम्या दक्षिणे तटे ॥

84.2

गिरिर् ब्रह्मगिरेः पार्श्वे अञ्जनो नाम नारद
तस्मिञ् शैले मुनिवर शापभ्रष्टा वराप्सरा ॥

84.3

अञ्जना नाम तत्रासीद् उत्तमाङ्गेन वानरी
केसरी नाम तद्भर्ता अद्रिकेति तथापरा ॥

84.4

सापि केसरिणो भार्या शापभ्रष्टा वराप्सरा
उत्तमाङ्गेन मार्जारी साप्य् आस्ते ऽञ्जनपर्वते ॥

84.5

दक्षिणार्णवम् अभ्यागात् केसरी लोकविश्रुतः
एतस्मिन्न् अन्तरे ऽगस्त्यो ऽञ्जनं पर्वतम् अभ्यगात् ॥

84.6

अञ्जना चाद्रिका चैव अगस्त्यम् ऋषिसत्तमम्
पूजयाम् आसतुर् उभे यथान्यायं यथासुखम् ॥

84.7

ततः प्रसन्नो भगवान् आहोभे व्रियतां वरः
ते आहतुर् उभे ऽगस्त्यं पुत्रौ देहि मुनीश्वर ॥

84.8

सर्वेभ्यो बलिनौ श्रेष्ठौ सर्वलोकोपकारकौ
तथेत्य् उक्त्वा मुनिश्रेष्ठो जगामाशां स दक्षिणाम् ॥

84.9

ततः कदाचित् ते काले अञ्जना चाद्रिका तथा
गीतं नृत्यं च हास्यं च कुर्वत्यौ गिरिमूर्धनि ॥

84.10

वायुश् च निरृतिश् चापि ते दृष्ट्वा सस्मितौ सुरौ
कामाक्रान्तधियौ चोभौ तदा सत्वरम् ईयतुः ॥

84.11

भार्ये भवेताम् उभयोर् आवां देवौ वरप्रदौ
ते अप्य् ऊचतुर् अस्त्व् एतद् रेमाते गिरिमूर्धनि ॥

84.12

अञ्जनायां तथा वायोर् हनुमान् समजायत
अद्रिकायां च निरृतेर् अद्रिर् नाम पिशाचराट् ॥

84.13

पुनस् ते आहतुर् उभे पुत्रौ जातौ मुनेर् वरात्
आवयोर् विकृतं रूपम् उत्तमाङ्गेन दूषितम् ॥

84.14

शापाच् छचीपतेस् तत्र युवाम् आज्ञातुम् अर्हथः
ततः प्रोवाच भगवान् वायुश् च निरृतिस् तथा ॥

84.15

गौतम्यां स्नानदानाभ्यां शापमोक्षो भविष्यति
इत्य् उक्त्वा ताव् उभौ प्रीतौ तत्रैवान्तरधीयताम् ॥

84.16

ततो ऽञ्जनां समादाय अद्रिः पैशाचमूर्तिमान्
भ्रातुर् हनुमतः प्रीत्यै स्नापयाम् आस मातरम् ॥

84.17

तथैव हनुमान् गङ्गाम् आदायाद्रिम् अतित्वरन्
मार्जाररूपिणीं नीत्वा गौतम्यास् तीरम् आप्तवान् ॥

84.18

ततः प्रभृति तत् तीर्थं पैशाचं चाञ्जनं तथा
ब्रह्मणो गिरिम् आसाद्य सर्वकामप्रदं शुभम् ॥

84.19

योजनानां त्रिपञ्चाशन् मार्जारं पूर्वतो भवेत्
मार्जारसंज्ञितात् तस्माद् धनूमन्तं वृषाकपिम् ॥

84.20

फेनासंगमम् आख्यातं सर्वकामप्रदं शुभम्
तस्य स्वरूपं व्युष्टिश् च तत्रैव प्रोच्यते शुभा ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc