भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 85

85.1

क्षुधातीर्थम् इति ख्यातं शृणु नारद तन्मनाः
कथ्यमानं महापुण्यं सर्वकामप्रदं नृणाम् ॥

85.2

ऋषिर् आसीत् पुरा कण्वस् तपस्वी वेदवित्तमः
परिभ्रमन्न् आश्रमाणि क्षुधया परिपीडितः ॥

85.3

गौतमस्याश्रमं पुण्यं समृद्धं चान्नवारिणा
आत्मानं च क्षुधायुक्तं समृद्धं चापि गौतमम् ॥

85.4

वीक्ष्य कण्वो ऽथ वैषम्यं वैराग्यम् अगमत् तदा
गौतमो ऽपि द्विजश्रेष्ठो ह्य् अहं तपसि निष्ठितः ॥

85.5

समेन याच्ञायुक्ता स्यात् तस्माद् गौतमवेश्मनि
न भोक्ष्ये ऽहं क्षुधार्तो ऽपि पीडिते ऽपि कलेवरे ॥

85.6

गच्छेयं गौतमीं गङ्गाम् अर्जयेयं च संपदम्
इति निश्चित्य मेधावी गत्वा गङ्गां च पावनीम् ॥

85.7

स्नात्वा शुचिर् यतमना उपविश्य कुशासने
तुष्टाव गौतमीं गङ्गां क्षुधां च परमापदम् ॥

85.8

नमो ऽस्तु गङ्गे परमार्तिहारिणि नमः क्षुधे सर्वजनार्तिकारिणि
नमो महेशानजटोद्भवे शुभे नमो महामृत्युमुखाद् विनिसृते

85.9

पुण्यात्मनां शान्तरूपे क्रोधरूपे दुरात्मनाम्
सरिद्रूपेण सर्वेषां तापपापापहारिणि ॥

85.10

क्षुधारूपेण सर्वेषां तापपापप्रदे नमः
नमः श्रेयस्करि देवि नमः पापप्रतर्दिनि
नमः शान्तिकरि देवि नमो दारिद्र्यनाशिनि ॥

85.11

इत्य् एवं स्तुवतस् तस्य पुरस्ताद् अभवद् द्वयम्
एकं गाङ्गं मनोहारि ह्य् अपरं भीषणाकृति
पुनः कृताञ्जलिर् भूत्वा नमस्कृत्वा द्विजोत्तमः ॥

85.12

सर्वमङ्गलमाङ्गल्ये ब्राह्मि माहेश्वरि शुभे
वैष्णवि त्र्यम्बके देवि गोदावरि नमो ऽस्तु ते ॥

85.13

त्र्यम्बकस्य जटोद्भूते गौतमस्याघनाशिनि
सप्तधा सागरं यान्ति गोदावरि नमो ऽस्तु ते ॥

85.14

सर्वपापकृतां पापे धर्मकामार्थनाशिनि
दुःखलोभमयि देवि क्षुधे तुभ्यं नमो नमः ॥

85.15

तत् कण्ववचनं श्रुत्वा सुप्रीते आहतुर् द्विजम् ॥

85.16

अभीष्टं वद कल्याण वरान् वरय सुव्रत ॥

85.17

प्रोवाच प्रणतो गङ्गां कण्वः क्षुधां यथाक्रमम् ॥

85.18

देहि देवि मनोज्ञानि कामानि विभवं मम
आयुर् वित्तं च भुक्तिं च मुक्तिं गङ्गे प्रयच्छ मे ॥

85.19

इत्य् उक्त्वा गौतमीं गङ्गां क्षुधां चाह द्विजोत्तमः ॥

85.20

मयि मद्वंशजे चापि क्षुधे तृष्णे दरिद्रिणि
याहि पापतरे रूक्षे न भूयास् त्वं कदाचन ॥

85.21

अनेन स्तवेन ये वै त्वां स्तुवन्ति क्षुधातुराः
तेषां दारिद्र्यदुःखानि न भवेयुर् वरो ऽपरः ॥

85.22

अस्मिंस् तीर्थे महापुण्ये स्नानदानजपादिकम्
ये कुर्वन्ति नरा भक्त्या लक्ष्मीभाजो भवन्तु ते ॥

85.23

यस् त्व् इदं पठते स्तोत्रं तीर्थे वा यदि वा गृहे
तस्य दारिद्र्यदुःखेभ्यो न भयं स्याद् वरो ऽपरः ॥

85.25

एवम् अस्त्व् इति चोक्त्वा ते कण्वं याते स्वम् आलयम्
ततः प्रभृति तत् तीर्थं काण्वं गाङ्गं क्षुधाभिधम्
सर्वपापहरं वत्स पितॄणां प्रीतिवर्धनम् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc