भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 83

83.1

दशाश्वमेधिकं तीर्थं तच् छृणुष्व महामुने
यस्य श्रवणमात्रेण हयमेधफलं लभेत् ॥

83.2

विश्वकर्मसुतः श्रीमान् विश्वरूपो महाबलः
तस्यापि प्रथमः पुत्रस् तत्पुत्रो भौवनो विभुः ॥

83.3

पुरोधाः कश्यपस् तस्य सर्वज्ञानविशारदः
तम् अपृच्छन् महाबाहुर् भौवनः सार्वभौवनः ॥

83.4

यक्ष्ये ऽहं हयमेधैश् च युगपद् दशभिर् मुने
इत्य् अपृच्छद् गुरुं विप्रं क्व यक्ष्यामि सुरान् इति ॥

83.5

सो ऽवदद् देवयजनं तत्र तत्र नृपोत्तम
यत्र यत्र द्विजश्रेष्ठाः प्रावर्तन्त महाक्रतून् ॥

83.6

तत्राभवन्न् ऋषिगणा आर्त्विज्ये मखमण्डले
युगपद् दशमेधानि प्रवृत्तानि पुरोधसा ॥

83.7

पूर्णतां नाययुस् तानि दृष्ट्वा चिन्तापरो नृपः
विहाय देवयजनं पुनर् अन्यत्र तान् क्रतून् ॥

83.8

उपाक्रामत् तथा तत्र विघ्नदोषास् तम् आययुः
दृष्ट्वापूर्णांस् ततो यज्ञान् राजा गुरुम् अभाषत ॥

83.9

देशदोषात् कालदोषान् मम दोषात् तवापि वा
पूर्णतां नाप्नुवन्ति स्म दशमेधानि वाजिनः ॥

83.10

ततश् च दुःखितो राजा कश्यपेन पुरोधसा
गीष्पतेर् भ्रातरं ज्येष्ठं गत्वा संवर्तम् ऊचतुः ॥

83.11

भगवन् युगपत् कार्याण्य् अश्वमेधानि मानद
दश संपूर्णतां यान्ति तं देशं तं गुरुं वद ॥

83.12

ततो ध्यात्वा ऋषिश्रेष्ठः संवर्तो भौवनं तदा
अब्रवीद् गच्छ ब्रह्माणं गुरुं देशं वदिष्यति ॥

83.13

भौवनो ऽपि महाप्राज्ञः कश्यपेन महात्मना
आगत्य माम् अब्रवीच् च गुरुं देशादिकं च यत् ॥

83.14

ततो ऽहम् अब्रवं पुत्र भौवनं कश्यपं तथा
गौतमीं गच्छ राजेन्द्र स देशः क्रतुपुण्यवान् ॥

83.15

अयम् एव गुरुः श्रेष्ठः कश्यपो वेदपारगः
गुरोर् अस्य प्रसादेन गौतम्याश् च प्रसादतः ॥

83.16

एकेन हयमेधेन तत्र स्नानेन वा पुनः
सेत्स्यन्ति तत्र यज्ञाश् च दशमेधानि वाजिनः ॥

83.17

तच् छ्रुत्वा भौवनो राजा गौतमीतीरम् अभ्यगात्
कश्यपेन सहायेन हयमेधाय दीक्षितः ॥

83.18

ततः प्रवृत्ते यज्ञेशे हयमेधे महाक्रतौ
संपूर्णे तु तदा राजा पृथिवीं दातुम् उद्यतः ॥

83.19

ततो ऽन्तरिक्षे वाग् उच्चैर् उवाच नृपसत्तमम्
पूजयित्वा स्थितं विप्रान् ऋत्विजो ऽथ सदस्पतीन् ॥

83.20

पुरोधसे कश्यपाय सशैलवनकाननाम्
पृथिवीं दातुकामेन दत्तं सर्वं त्वया नृप ॥

83.21

भूमिदानस्पृहां त्यक्त्वा अन्नं देहि महाफलम्
नान्नदानसमं पुण्यं त्रिषु लोकेषु विद्यते ॥

83.22

विशेषतस् तु गङ्गायाः श्रद्धया पुलिने मुने
त्वया तु हयमेधो ऽयं कृतः सबहुदक्षिणः
कृतकृत्यो ऽसि भद्रं ते नात्र कार्या विचारणा ॥

83.23

तथापि दातुकामं तं मही प्रोवाच भौवनम् ॥

83.24

विश्वकर्मज सार्वभौम मा मां देहि पुनः पुनः
निमज्जे ऽहं सलिलस्य मध्ये तस्मान् न दीयताम् ॥

83.25

ततश् च भौवनो भीतः किं देयम् इति चाब्रवीत्
पुनश् चोवाच सा पृथ्वी भौवनं ब्राह्मणैर् वृतम् ॥

83.26

तिला गावो धनं धान्यं यत् किंचिद् गौतमीतटे
सर्वं तद् अक्षयं दानं किं मां भौवन दास्यसि ॥

83.27

गङ्गातीरं समाश्रित्य ग्रासम् एकं ददाति यः
तेनाहं सकला दत्ता किं मां भौवन दास्यसि ॥

83.28

तद् भुवो वचनं श्रुत्वा भौवनः सार्वभौवनः
तथेति मत्वा विप्रेभ्यो ह्य् अन्नं प्रादात् सुविस्तरम् ॥

83.29

ततः प्रभृति तत् तीर्थं दशाश्वमेधिकं विदुः
दशानाम् अश्वमेधानां फलं स्नानाद् अवाप्यते ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc