भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 82

82.1

यत् ख्यातं कृत्तिकातीर्थं कार्त्तिकेयाद् अनन्तरम्
तस्य श्रवणमात्रेण सोमपानफलं लभेत् ॥

82.2

पुरा तारकनाशाय भवरेतो ऽपिबत् कविः
रेतोगर्भं कविं दृष्ट्वा ऋषिपत्न्यो ऽस्पृहन् मुने ॥

82.3

सप्तर्षीणाम् ऋतुस्नातां वर्जयित्वा त्व् अरुन्धतीम्
तासु गर्भः समभवत् षट्सु स्त्रीषु तदाग्नितः ॥

82.4

तप्यमानास् तु शोभिष्ठा ऋतुस्नातास् तु ता मुने
किं कुर्मः क्व नु गच्छामः किं कृत्वा सुकृतं भवेत् ॥

82.5

इत्य् उक्त्वा ता मिथो गङ्गां व्यग्रा गत्वा व्यपीडयन्
ताभ्यस् ते निःसृता गर्भाः फेनरूपास् तदाम्भसि ॥

82.6

अम्भसा त्व् एकतां प्राप्ता वायुना सर्व एव हि
एकरूपस् तदा ताभ्यः षण्मुखः समजायत ॥

82.7

स्रावयित्वा तु तान् गर्भान् ऋषिपत्न्यो गृहान् ययुः
तासां विकृतरूपाणि दृष्ट्वा ते ऋषयो ऽब्रुवन् ॥

82.8

गम्यतां गम्यतां शीघ्रं स्वैरी वृत्तिर् न युज्यते
स्त्रीणाम् इति ततो वत्स निरस्ताः पतिभिस् तु ताः ॥

82.9

ततो दुःखं समाविष्टास् त्यक्ताः स्वपतिभिश् च षट्
ता दृष्ट्वा नारदः प्राह कार्त्तिकेयो हरोद्भवः ॥

82.10

गाङ्गेयो ऽग्निभवश् चेति विख्यातस् तारकान्तकः
तं यान्तु न चिराद् एव प्रीतो भोगं प्रदास्यति ॥

82.11

देवर्षेर् वचनाद् एव समभ्येत्य च षण्मुखम्
कृत्तिकाः स्वयम् एवैतद् यथावृत्तं न्यवेदयत् ॥

82.12

ताभ्यो वाक्यं कृत्तिकाभ्यः कार्त्तिकेयो ऽनुमन्य च
गौतमीं यान्तु सर्वाश् च स्नात्वापूज्य महेश्वरम् ॥

82.13

एष्यामि चाहं तत्रैव यास्यामि सुरमन्दिरम्
तथेत्य् उक्त्वा कृत्तिकाश् च स्नात्वा गङ्गां च गौतमीम् ॥

82.14

देवेश्वरं च संपूज्य कार्त्तिकेयानुशासनात्
देवेश्वरप्रसादेन प्रययुः सुरमन्दिरम् ॥

82.15

ततः प्रभृति तत् तीर्थं कृत्तिकातीर्थम् उच्यते
कार्त्तिक्यां कृत्तिकायोगे तत्र यः स्नानम् आचरेत् ॥

82.16

सर्वक्रतुफलं प्राप्य राजा भवति धार्मिकः
तत्तीर्थस्मरणं वापि यः करोति शृणोति च
सर्वपापविनिर्मुक्तो दीर्घम् आयुर् अवाप्नुयात् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc