भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 81

81.1

कार्त्तिकेयं परं तीर्थं कौमारम् इति विश्रुतम्
यन्नामश्रवणाद् एव कुलवान् रूपवान् भवेत् ॥

81.2

निहते तारके दैत्ये स्वस्थे जाते त्रिविष्टपे
कार्त्तिकेयं सुतं ज्येष्ठं प्रीत्या प्रोवाच पार्वती ॥

81.3

यथासुखं भुङ्क्ष्व भोगांस् त्रैलोक्ये मनसः प्रियान्
ममाज्ञया प्रीतमनाः पितुश् चैव प्रसादतः ॥

81.4

एवम् उक्तः स वै मात्रा विशाखो देवतास्त्रियः
यथासुखं बलाद् रेमे देवपत्न्यो ऽपि रेमिरे ॥

81.5

ततः संभुज्यमानासु देवपत्नीषु नारद
नाशक्नुवन् वारयितुं कार्त्तिकेयं दिवौकसः ॥

81.6

ततो निवेदयाम् आसुः पार्वत्यै पुत्रकर्म तत्
असकृद् वार्यमाणो ऽपि मात्रा देवैः स शक्तिधृक् ॥

81.7

नैवासाव् अकरोद् वाक्यं स्त्रीष्व् आसक्तस् तु षण्मुखः
अभिशापभयाद् भीता पार्वती पर्यचिन्तयत् ॥

81.8

पुत्रस्नेहात् तथैवेशा देवानां कार्यसिद्धये
देवपत्न्यश् चिरं रक्ष्या इति मत्वा पुनः पुनः ॥

81.9

यस्यां तु रमते स्कन्दः पार्वती त्व् अपि तादृशी
तद्रूपम् आत्मनः कृत्वा वर्तयाम् आस पार्वती ॥

81.10

इन्द्रस्य वरुणस्यापि भार्याम् आहूय षण्मुखः
यावत् पश्यति तस्यां तु मातृरूपम् अपश्यत ॥

81.11

ताम् अपास्य नमस्याथ पुनर् अन्याम् अथाह्वयत्
तस्यां तु मातृरूपं स प्रेक्ष्य लज्जाम् उपेयिवान् ॥

81.12

एवं बह्वीषु तद् रूपं दृष्ट्वा मातृमयं जगत्
इति संचिन्त्य गाङ्गेयो वैराग्यम् अगमत् तदा ॥

81.13

स तु मातृकृतं ज्ञात्वा प्रवृत्तस्य निवर्तनम्
निवार्यश् चेद् अहं भोगात् किंतु पूर्वं प्रवर्तितः ॥

81.14

तस्मान् मातृकृतं सर्वं मम हास्यास्पदं त्व् इति
लज्जया परया युक्तो गौतमीम् अगमत् तदा ॥

81.15

इयं च मातृरूपा मे शृणोतु मम भाषितम्
इतः स्त्रीनामधेयं यन् मम मातृसमं मतम् ॥

81.16

एवं ज्ञात्वा लोकनाथः पार्वत्या सह शंकरः
पुत्रं निवारयाम् आस वृत्तम् इत्य् अब्रवीद् गुरुः ॥

81.17

ततः सुरपतिः प्रीतः किं ददामीति चिन्तयन्
कृताञ्जलिपुटः स्कन्दः पितरं पुनर् अब्रवीत् ॥

81.18

सेनापतिः सुरपतिस् तव पुत्रो ऽहम् इत्य् अपि
अलम् एतेन देवेश किं वरैः सुरपूजित ॥

81.19

अथवा दातुकामो ऽसि लोकानां हितकाम्यया
याचे ऽहं नात्मना देव तद् अनुज्ञातुम् अर्हसि ॥

81.20

महापातकिनः केचिद् गुरुदाराभिगामिनः
अत्राप्लवनमात्रेण धौतपापा भवन्तु ते ॥

81.21

आप्नुवन्तूत्तमां जातिं तिर्यञ्चो ऽपि सुरेश्वर
कुरूपो रूपसंपत्तिम् अत्र स्नानाद् अवाप्नुयात् ॥

81.22

एवम् अस्त्व् इति तं शंभुः प्रत्यनन्दत् सुतेरितम्
ततः प्रभृति तत् तीर्थं कार्त्तिकेयम् इति श्रुतम्
तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc