भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 80

80.1

कुशावर्तस्य माहात्म्यम् अहं वक्तुं न ते क्षमः
तस्य स्मरणमात्रेण कृतकृत्यो भवेन् नरः ॥

80.2

कुशावर्तम् इति ख्यातं नराणां सर्वकामदम्
कुशेनावर्तितं यत्र गौतमेन महात्मना ॥

80.3

कुशेनावर्तयित्वा तु आनयाम् आस तां मुनिः
तत्र स्नानं च दानं च पितॄणां तृप्तिदायकम् ॥

80.4

नीलगङ्गा सरिच्छ्रेष्ठा निःसृता नीलपर्वतात्
तत्र स्नानादि यत् किंचित् करोति प्रयतो नरः ॥

80.5

सर्वं तद् अक्षयं विद्यात् पितॄणां तृप्तिदायकम्
विश्रुतं त्रिषु लोकेषु कपोतं तीर्थम् उत्तमम् ॥

80.6

तस्य रूपं च वक्ष्यामि मुने शृणु महाफलम्
तत्र ब्रह्मगिरौ कश्चिद् व्याधः परमदारुणः ॥

80.7

हिनस्ति ब्राह्मणान् साधून् यतीन् गोपक्षिणो मृगान्
एवंभूतः स पापात्मा क्रोधनो ऽनृतभाषणः ॥

80.8

भीषणाकृतिर् अत्युग्रो नीलाक्षो ह्रस्वबाहुकः
दन्तुरो नष्टनासाक्षो ह्रस्वपात् पृथुकुक्षिकः ॥

80.9

ह्रस्वोदरो ह्रस्वभुजो विकृतो गर्दभस्वनः
पाशहस्तः पापचित्तः पापिष्ठः सधनुः सदा ॥

80.10

तस्य भार्या तथाभूता अपत्यान्य् अपि नारद
तया तु प्रेर्यमाणो ऽसौ विवेश गहनं वनम् ॥

80.11

स जघान मृगान् पापः पक्षिणो बहुरूपिणः
पञ्जरे प्राक्षिपत् कांश्चिज् जीवमानांस् तथेतरान् ॥

80.12

क्षुधया परितप्ताङ्गो विह्वलस् तृषया तथा
भ्रान्तदेशो बहुतरं न्यवर्तत गृहं प्रति ॥

80.13

ततो ऽपराह्णे संप्राप्ते निवृत्ते मधुमाधवे
क्षणात् तडिद् गर्जितं च साभ्रं चैवाभवत् तदा ॥

80.14

ववौ वायुः साश्मवर्षो वारिधारातिभीषणः
स गच्छंल् लुब्धकः श्रान्तः पन्थानं नावबुध्यत ॥

80.15

जलं स्थलं गर्तम् अथो पन्थानम् अथवा दिशः
न बुबोध तदा पापः श्रान्तः शरणम् अप्य् अथ ॥

80.16

क्व गच्छामि क्व तिष्ठेयं किं करोमीत्य् अचिन्तयत्
सर्वेषां प्राणिनां प्राणान् आहर्ताहं यथान्तकः ॥

80.17

ममाप्य् अन्तकरं भूतं संप्राप्तं चाश्मवर्षणम्
त्रातारं नैव पश्यामि शिलां वा वृक्षम् अन्तिके ॥

80.18

एवं बहुविधं व्याधो विचिन्त्यापश्यद् अन्तिके
वने वनस्पतिम् इव नक्षत्राणां यथात्रिजम् ॥

80.19

मृगाणां च यथा सिंहम् आश्रमाणां गृहाधिपम्
इन्द्रियाणां मन इव त्रातारं प्राणिनां नगम् ॥

80.20

श्रेष्ठं विटपिनं शुभ्रं शाखापल्लवमण्डितम्
तम् आश्रित्योपविष्टो ऽभूत् क्लिन्नवासा स लुब्धकः ॥

80.21

स्मरन् भार्याम् अपत्यानि जीवेयुर् अथवा न वा
एतस्मिन्न् अन्तरे तत्र चास्तं प्राप्तो दिवाकरः ॥

80.22

तम् एव नगम् आश्रित्य कपोतो भार्यया सह
पुत्रपौत्रैः परिवृतो ह्य् आस्ते तत्र नगोत्तमे ॥

80.23

सुखेन निर्भयो भूत्वा सुतृप्तः प्रीत एव च
बहवो वत्सरा याता वसतस् तस्य पक्षिणः ॥

80.24

पतिव्रता तस्य भार्या सुप्रीता तेन चैव हि
कोटरे तन्नगे श्रेष्ठे जलवाय्वग्निवर्जिते ॥

80.25

भार्यापुत्रैः परिवृतः सर्वदास्ते कपोतकः
तस्मिन् दिने दैववशात् कपोतश् च कपोतकी ॥

80.26

भक्ष्यार्थं तु उभौ यातौ कपोतो नगम् अभ्यगात्
सापि दैववशात् पुत्र पञ्जरस्थैव वर्तते ॥

80.27

गृहीता लुब्धकेनाथ जीवमानेव वर्तते
कपोतको ऽप्य् अपत्यानि मातृहीनान्य् उदीक्ष्य च ॥

80.28

वर्षं च भीषणं प्राप्तम् अस्तं यातो दिवाकरः
स्वकोटरं तया हीनम् आलोक्य विललाप सः ॥

80.29

तां बद्धां पञ्जरस्थां वा न बुबोध कपोतराट्
अन्वारेभे कपोतो वै प्रियाया गुणकीर्तनम् ॥

80.30

नाद्याप्य् आयाति कल्याणी मम हर्षविवर्धिनी
मम धर्मस्य जननी मम देहस्य चेश्वरी ॥

80.31

धर्मार्थकाममोक्षाणां सैव नित्यं सहायिनी
तुष्टे हसन्ती रुष्टे च मम दुःखप्रमार्जनी ॥

80.32

सखी मन्त्रेषु सा नित्यं मम वाक्यरता सदा
नाद्याप्य् आयाति कल्याणी संप्रयाते ऽपि भास्करे ॥

80.33

न जानाति व्रतं मन्त्रं दैवं धर्मार्थम् एव च
पतिव्रता पतिप्राणा पतिमन्त्रा पतिप्रिया ॥

80.34

नाद्याप्य् आयाति कल्याणी किं करोमि क्व यामि वा
किं मे गृहं काननं च तया हीनं हि दृश्यते ॥

80.35

तया युक्तं श्रिया युक्तं भीषणं वापि शोभनम्
नाद्याप्य् आयाति मे कान्ता यया गृहम् उदीरितम् ॥

80.36

विनानया न जीविष्ये त्यजे वापि प्रियां तनुम्
किं कुर्वन्तु त्व् अपत्यानि लुप्तधर्मस् त्व् अहं पुनः ॥

80.37

एवं विलपतस् तस्य भर्तुर् वाक्यं निशम्य सा
पञ्जरस्थैव सा वाक्यं भर्तारम् इदम् अब्रवीत् ॥

80.38

अत्राहम् अस्मि बद्धैव विवशास्मि खगोत्तम
आनीताहं लुब्धकेन बद्धा पाशैर् महामते ॥

80.39

धन्यास्म्य् अनुगृहीतास्मि पतिर् वक्ति गुणान् मम
सतो वाप्य् असतो वापि कृतार्थाहं न संशयः ॥

80.40

तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्वदेवताः
विपर्यये तु नारीणाम् अवश्यं नाशम् आप्नुयात् ॥

80.41

त्वं दैवं त्वं प्रभुर् मह्यं त्वं सुहृत् त्वं परायणम्
त्वं व्रतं त्वं परं ब्रह्म स्वर्गो मोक्षस् त्वम् एव च ॥

80.43

मा चिन्तां कुरु कल्याण धर्मे बुद्धिं स्थिरां कुरु
त्वत्प्रसादाच् च भुक्ता हि भोगाश् च विविधा मया
अलं खेदेन मज्जेन धर्मे बुद्धिं कुरु स्थिराम् ॥

80.44

इति श्रुत्वा प्रियावाक्यम् उत्ततार नगोत्तमात्
यत्र सा पञ्जरस्था तु कपोती वर्तते त्वरम् ॥

80.45

ताम् आगत्य प्रियां दृष्ट्वा मृतवच् चापि लुब्धकम्
मोचयामीति ताम् आह निश्चेष्टो लुब्धको ऽधुना ॥

80.46

मा मुञ्चस्व महाभाग ज्ञात्वा संबन्धम् अस्थिरम्
लुब्धानां खेचरा ह्य् अन्नं जीवो जीवस्य चाशनम् ॥

80.47

नापराधं स्मराम्य् अस्य धर्मबुद्धिं स्थिरां कुरु
गुरुर् अग्निर् द्विजातीनां वर्णानां ब्राह्मणो गुरुः ॥

80.48

पतिर् एव गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः
अभ्यागतम् अनुप्राप्तं वचनैस् तोषयन्ति ये ॥

80.49

तेषां वागीश्वरी देवी तृप्ता भवति निश्चितम्
तस्यान्नस्य प्रदानेन शक्रस् तृप्तिम् अवाप्नुयात् ॥

80.50

पितरः पादशौचेन अन्नाद्येन प्रजापतिः
तस्योपचाराद् वै लक्ष्मीर् विष्णुना प्रीतिम् आप्नुयात् ॥

80.51

शयने सर्वदेवास् तु तस्मात् पूज्यतमो ऽतिथिः
अभ्यागतम् अनुश्रान्तं सूर्योढं गृहम् आगतम्
तं विद्याद् देवरूपेण सर्वक्रतुफलो ह्य् असौ ॥

80.52

अभ्यागतं श्रान्तम् अनुव्रजन्ति देवाश् च सर्वे पितरो ऽग्नयश् च
तस्मिन् हि तृप्ते मुदम् आप्नुवन्ति गते निराशे ऽपि च ते निराशाः

80.53

तस्मात् सर्वात्मना कान्त दुःखं त्यक्त्वा शमं व्रज
कृत्वा तिष्ठ शुभां बुद्धिं धर्मकृत्यं समाचर ॥

80.54

उपकारो ऽपकारश् च प्रवराव् इति संमतौ
उपकारिषु सर्वो ऽपि करोत्य् उपकृतिं पुनः ॥

80.55

अपकारिषु यः साधुः पुण्यभाक् स उदाहृतः ॥

80.56

आवयोर् अनुरूपं च त्वयोक्तं साधु मन्यसे
किंतु वक्तव्यम् अप्य् अस्ति तच् छृणुष्व वरानने ॥

80.57

सहस्रं भरते कश्चिच् छतम् अन्यो दशापरः
आत्मानं च सुखेनान्यो वयं कष्टोदरंभराः ॥

80.58

गर्तधान्यधनाः केचित् कुशूलधनिनो ऽपरे
घटक्षिप्तधनाः केचिच् चञ्चुक्षिप्तधना वयम् ॥

80.59

पूजयामि कथं श्रान्तम् अभ्यागतम् इमं शुभे ॥

80.60

अग्निर् आपः शुभा वाणी तृणकाष्ठादिकं च यत्
एतद् अप्य् अर्थिने देयं शीतार्तो लुब्धकस् त्व् अयम् ॥

80.61

एतच् छ्रुत्वा प्रियावाक्यं वृक्षम् आरुह्य पक्षिराट्
आलोकयाम् आस तदा वह्निं दूरं ददर्श ह ॥

80.62

स तु गत्वा वह्निदेशं चञ्चुनोल्मुकम् आहरत्
पुरो ऽग्निं ज्वालयाम् आस लुब्धकस्य कपोतकः ॥

80.63

शुष्ककाष्ठानि पर्णानि तृणानि च पुनः पुनः
अग्नौ निक्षेपयाम् आस निशीथे स कपोतराट् ॥

80.64

तम् अग्निं ज्वलितं दृष्ट्वा लुब्धकः शीतदुःखितः
अवशानि स्वकाङ्गानि प्रताप्य सुखम् आप्तवान् ॥

80.65

क्षुधाग्निना दह्यमानं व्याधं दृष्ट्वा कपोतकी
मा मुञ्चस्व महाभाग इति भर्तारम् अब्रवीत् ॥

80.66

स्वशरीरेण दुःखार्तं लुब्धकं प्रीणयामि तम्
इष्टातिथीनां ये लोकास् तांस् त्वं प्राप्नुहि सुव्रत ॥

80.67

मयि तिष्ठति नैवायं तव धर्मो विधीयते
इष्टातिथिर् भवामीह अनुजानीहि मां शुभे ॥

80.68

इत्य् उक्त्वाग्निं त्रिर् आवर्त्य स्मरन् देवं चतुर्भुजम्
विश्वात्मकं महाविष्णुं शरण्यं भक्तवत्सलम् ॥

80.69

यथासुखं जुषस्वेति वदन्न् अग्निं तथाविशत्
तं दृष्ट्वाग्नौ क्षिप्तजीवं लुब्धको वाक्यम् अब्रवीत् ॥

80.70

अहो मानुषदेहस्य धिग् जीवितम् इदं मम
यद् इदं पक्षिराजेन मदर्थे साहसं कृतम् ॥

80.71

एवं ब्रुवन्तं तं लुब्धं पक्षिणी वाक्यम् अब्रवीत् ॥

80.72

मां त्वं मुञ्च महाभाग दूरं यात्य् एष मे पतिः ॥

80.73

तस्यास् तद् वचनं श्रुत्वा पञ्जरस्थां कपोतकीम्
लुब्धको मोचयाम् आस तरसा भीतवत् तदा ॥

80.74

सापि प्रदक्षिणं कृत्वा पतिम् अग्निं तदा जगौ ॥

80.75

स्त्रीणाम् अयं परो धर्मो यद् भर्तुर् अनुवेशनम्
वेदे च विहितो मार्गः सर्वलोकेषु पूजितः ॥

80.76

व्यालग्राही यथा व्यालं बिलाद् उद्धरते बलात्
एवं त्व् अनुगता नारी सह भर्त्रा दिवं व्रजेत् ॥

80.77

तिस्रः कोट्यो ऽर्धकोटी च यानि रोमाणि मानुषे
तावत्कालं वसेत् स्वर्गे भर्तारं यानुगच्छति ॥

80.78

नमस्कृत्वा भुवं देवान् गङ्गां चापि वनस्पतीन्
आश्वास्य तान्य् अपत्यानि लुब्धकं वाक्यम् अब्रवीत् ॥

80.79

त्वत्प्रसादान् महाभाग उपपन्नं ममेदृशम्
अपत्यानां क्षमस्वेह भर्त्रा यामि त्रिविष्टपम् ॥

80.80

इत्य् उक्त्वा पक्षिणी साध्वी प्रविवेश हुताशनम्
प्रविष्टायां हुतवहे जयशब्दो न्यवर्तत ॥

80.81

गगने सूर्यसंकाशं विमानम् अतिशोभनम्
तदारूढौ सुरनिभौ दंपती ददृशे ततः ॥

80.82

हर्षेण प्रोचतुर् उभौ लुब्धकं विस्मयान्वितम् ॥

80.83

गच्छावस् त्रिदशस्थानम् आपृष्टो ऽसि महामते
आवयोः स्वर्गसोपानम् अतिथिस् त्वं नमो ऽस्तु ते ॥

80.84

विमानवरम् आरूढौ तौ दृष्ट्वा लुब्धको ऽपि सः
सधनुः पञ्जरं त्यक्त्वा कृताञ्जलिर् अभाषत ॥

80.85

न त्यक्तव्यो महाभागौ देयं किंचिद् अजानते
अहम् अत्रातिथिर् मान्यो निष्कृतिं वक्तुम् अर्हथः ॥

80.86

गौतमीं गच्छ भद्रं ते तस्याः पापं निवेदय
तत्रैवाप्लवनात् पक्षं सर्वपापैर् विमोक्ष्यसे ॥

80.87

मुक्तपापः पुनस् तत्र गङ्गायाम् अवगाहने
अश्वमेधफलं पुण्यं प्राप्य पुण्यो भविष्यसि ॥

80.88

सरिद्वरायां गौतम्यां ब्रह्मविष्ण्वीशसंभुवि
पुनर् आप्लवनाद् एव त्यक्त्वा देहं मलीमसम् ॥

80.89

विमानवरम् आरूढः स्वर्गं गन्तास्य् असंशयम् ॥

80.90

तच् छ्रुत्वा वचनं ताभ्यां तथा चक्रे स लुब्धकः
विमानवरम् आरूढो दिव्यरूपधरो ऽभवत् ॥

80.91

दिव्यमाल्याम्बरधरः पूज्यमानो ऽप्सरोगणैः
कपोतश् च कपोती च तृतीयो लुब्धकस् तथा
गङ्गायाश् च प्रभावेण सर्वे वै दिवम् आक्रमन् ॥

80.92

ततः प्रभृति तत् तीर्थं कापोतम् इति विश्रुतम्
तत्र स्नानं च दानं च पितृपूजनम् एव च ॥

80.93

जपयज्ञादिकं कर्म तद् आनन्त्याय कल्पते ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc