ब्रह्म पुराण · अध्याय 79
न मनस् तृप्तिम् आधत्ते कथाः शृण्वत् त्वयेरिताः
पृथक् तीर्थफलं श्रोतुं प्रवृत्तं मम मानसम् ॥
क्रमशो ब्राह्मणानीतां गङ्गां मे प्रथमं वद
पृथक् तीर्थफलं पुण्यं सेतिहासं यथाक्रमम् ॥
तीर्थानां च पृथग् भावं फलं माहात्म्यम् एव च
सर्वं वक्तुं न शक्नोमि न च त्वं श्रवणे क्षमः ॥
तथापि किंचिद् वक्ष्यामि शृणु नारद यत्नतः
यान्य् उक्तानि च तीर्थानि श्रुतिवाक्यानि यानि च ॥
तानि वक्ष्यामि संक्षेपान् नमस्कृत्वा त्रिलोचनम्
यत्रासौ भगवान् आसीत् प्रत्यक्षस् त्र्यम्बको मुने ॥
त्र्यम्बकं नाम तत् तीर्थं भुक्तिमुक्तिप्रदायकम्
वाराहम् अपरं तीर्थं त्रिषु लोकेषु विश्रुतम् ॥
तस्य रूपं प्रवक्ष्यामि नाम विष्णोर् यथाभवत्
पुरा देवान् पराभूय यज्ञम् आदाय राक्षसः ॥
रसातलम् अनुप्राप्तः सिन्धुसेन इति श्रुतः
यज्ञे तलम् अनुप्राप्ते निर्यज्ञा ह्य् अभवन् मही ॥
नायं लोको ऽस्ति न परो यज्ञे नष्ट इतीत्वराः
सुरास् तम् एव विविशू रसातलम् अनुद्विषम् ॥
नाशक्नुवंस् तु तं जेतुं देवा इन्द्रपुरोगमाः
विष्णुं पुराणपुरुषं गत्वा तस्मै न्यवेदयन् ॥
राक्षसस्य तु तत् कर्म यज्ञभ्रंशम् अशेषतः
ततः प्रोवाच भगवान् वाराहं वपुर् आस्थितः ॥
शङ्खचक्रगदापाणिर् गत्वा चैव रसातलम्
आनयिष्ये मखं पुण्यं हत्वा राक्षसपुंगवान् ॥
स्वः प्रयान्तु सुराः सर्वे व्येतु वो मानसो ज्वरः
येन गङ्गा तलं प्राप्ता पथा तेनैव चक्रधृक् ॥
जगाम तरसा पुत्र भुवं भित्त्वा रसातलम्
स वराहवपुः श्रीमान् रसातलनिवासिनः ॥
राक्षसान् दानवान् हत्वा मुखे धृत्वा महाध्वरम्
वाराहरूपी भगवान् मखम् आदाय यज्ञभुक् ॥
येन प्राप तलं विष्णुः पथा तेनैव शत्रुजित्
मुखे न्यस्य महायज्ञं निश्चक्राम रसातलात् ॥
तत्र ब्रह्मगिरौ देवाः प्रतीक्षां चक्रिरे हरेः
पथस् तस्माद् विनिःसृत्य गङ्गास्रवणम् अभ्यगात् ॥
प्राक्षालयच् च स्वाङ्गानि असृग्लिप्तानि नारद
गङ्गाम्भसा तत्र कुण्डं वाराहम् अभवत् ततः ॥
मुखे न्यस्तं महायज्ञं देवानां पुरतो हरिः
दत्तवांस् त्रिदशश्रेष्ठो मुखाद् यज्ञो ऽभ्यजायत ॥
ततः प्रभृति यज्ञाङ्गं प्रधानं स्रुव उच्यते
वाराहरूपम् अभवद् एवं वै कारणान्तरात् ॥
तस्मात् पुण्यतमं तीर्थं वाराहं सर्वकामदम्
तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥
तत्र स्थितो ऽपि यः कश्चित् पितॄन् स्मरति पुण्यकृत्
विमुक्ताः सर्वपापेभ्यः पितरः स्वर्गम् आप्नुयुः ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0