भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 7

7.1

मनोर् वैवस्वतस्यासन् पुत्रा वै नव तत्समाः
इक्ष्वाकुश् चैव नाभागो धृष्टः शर्यातिर् एव च ॥

7.2

नरिष्यन्तश् च षष्ठो वै प्रांशू रिष्टश् च सप्तमः
करूषश् च पृषध्रश् च नवैते मुनिसत्तमाः ॥

7.3

अकरोत् पुत्रकामस् तु मनुर् इष्टिं प्रजापतिः
मित्रावरुणयोर् विप्राः पूर्वम् एव महामतिः ॥

7.4

अनुत्पन्नेषु बहुषु पुत्रेष्व् एतेषु भो द्विजाः
तस्यां च वर्तमानायाम् इष्ट्यां च द्विजसत्तमाः ॥

7.5

मित्रावरुणयोर् अंशे मनुर् आहुतिम् आवहत्
तत्र दिव्याम्बरधरा दिव्याभरणभूषिता ॥

7.6

दिव्यसंहनना चैव इला जज्ञ इति श्रुतिः
ताम् इलेत्य् एव होवाच मनुर् दण्डधरस् तदा ॥

7.7

अनुगच्छस्व मां भद्रे तम् इला प्रत्युवाच ह
धर्मयुक्तम् इदं वाक्यं पुत्रकामं प्रजापतिम् ॥

7.8

मित्रावरुणयोर् अंशे जातास्मि वदतां वर
तयोः सकाशं यास्यामि न मां धर्महतां कुरु ॥

7.9

सैवम् उक्त्वा मनुं देवं मित्रावरुणयोर् इला
गत्वान्तिकं वरारोहा प्राञ्जलिर् वाक्यम् अब्रवीत् ॥

7.10

अंशे ऽस्मि युवयोर् जाता देवौ किं करवाणि वाम्
मनुना चाहम् उक्ता वाऐ अनुगच्छस्व माम् इति ॥

7.11

तौ तथावादिनीं साध्वीम् इलां धर्मपरायणाम्
मित्रश् च वरुणश् चोभाव् ऊचतुस् तां द्विजोत्तमाः ॥

7.12

अनेन तव धर्मेण प्रश्रयेण दमेन च
सत्येन चैव सुश्रोणि प्रीतौ स्वो वरवर्णिनि ॥

7.13

आवयोस् त्वं महाभागे ख्यातिं कन्येति यास्यसि ॥

7.14

मनोर् वंशकरः पुत्रस् त्वम् एव च भविष्यसि
सुद्युम्न इति विख्यातस् त्रिषु लोकेषु शोभने ॥

7.15

जगत्प्रियो धर्मशीलो मनोर् वंशविवर्धनः
निवृत्ता सा तु तच् छ्रुत्वा गच्छन्ती पितुर् अन्तिकात् ॥

7.16

बुधेनान्तरम् आसाद्य मैथुनायोपमन्त्रिता
सोमपुत्राद् बुधाद् विप्रास् तस्यां जज्ञे पुरूरवाः ॥

7.17

जनयित्वा ततः सा तम् इला सुद्युम्नतां गता
सुद्युम्नस्य तु दायादास् त्रयः परमधार्मिकाः ॥

7.18

उत्कलश् च गयश् चैव विनताश्वश् च भो द्विजाः
उत्कलस्योत्कला विप्रा विनताश्वस्य पश्चिमाः ॥

7.19

दिक् पूर्वा मुनिशार्दूला गयस्य तु गया स्मृता
प्रविष्टे तु मनौ विप्रा दिवाकरम् अरिंदमम् ॥

7.20

दशधा तत् पुनः क्षत्रम् अकरोत् पृथिवीम् इमाम्
इक्ष्वाकुर् ज्येष्ठदायादो मध्यदेशम् अवाप्तवान् ॥

7.21

कन्याभावात् तु सुद्युम्नो नैतद् राज्यम् अवाप्तवान्
वसिष्ठवचनात् त्व् आसीत् प्रतिष्ठाने महात्मनः ॥

7.22

प्रतिष्ठा धर्मराजस्य सुद्युम्नस्य द्विजोत्तमाः
तत् पुरूरवसे प्रादाद् राज्यं प्राप्य महायशाः ॥

7.23

मानवेयो मुनिश्रेष्ठाः स्त्रीपुंसोर् लक्षणैर् युतः
धृतवांस् ताम् इलेत्य् एवं सुद्युम्नेति च विश्रुतः ॥

7.24

नारिष्यन्ताः शकाः पुत्रा नाभागस्य तु भो द्विजाः
अम्बरीषो ऽभवत् पुत्रः पार्थिवर्षभसत्तमः ॥

7.25

धृष्टस्य धार्ष्टकं क्षत्रं रणदृप्तं बभूव ह
करूषस्य च कारूषाः क्षत्रिया युद्धदुर्मदाः ॥

7.26

नाभागधृष्टपुत्राश् च क्षत्रिया वैश्यतां गताः
प्रांशोर् एको ऽभवत् पुत्रः प्रजापतिर् इति स्मृतः ॥

7.27

नरिष्यन्तस्य दायादो राजा दण्डधरो यमः
शर्यातेर् मिथुनं त्व् आसीद् आनर्तो नाम विश्रुतः ॥

7.28

पुत्रः कन्या सुकन्या च या पत्नी च्यवनस्य ह
आनर्तस्य तु दायादो रैवो नाम महाद्युतिः ॥

7.29

आनर्तविषयश् चैव पुरी चास्य कुशस्थली
रैवस्य रैवतः पुत्रः ककुद्मी नाम धार्मिकः ॥

7.30

ज्येष्ठः पुत्रः स तस्यासीद् राज्यं प्राप्य कुशस्थलीम्
स कन्यासहितः श्रुत्वा गान्धर्वं ब्रह्मणो ऽन्तिके ॥

7.31

मुहूर्तभूतं देवस्य तस्थौ बहुयुगं द्विजाः
आजगाम स चैवाथ स्वां पुरीं यादवैर् वृताम् ॥

7.32

कृतां द्वारवतीं नाम बहुद्वारां मनोरमाम्
भोजवृष्ण्यन्धकैर् गुप्तां वसुदेवपुरोगमैः ॥

7.33

तत्रैव रैवतो ज्ञात्वा यथातत्त्वं द्विजोत्तमाः
कन्यां तां बलदेवाय सुभद्रां नाम रेवतीम् ॥

7.34

दत्त्वा जगाम शिखरं मेरोस् तपसि संस्थितः
रेमे रामो ऽपि धर्मात्मा रेवत्या सहितः सुखी ॥

7.35

कथं बहुयुगे काले समतीते महामते
न जरा रेवतीं प्राप्ता रैवतं च ककुद्मिनम् ॥

7.36

मेरुं गतस्य वा तस्य शर्यातेः संततिः कथम्
स्थिता पृथिव्याम् अद्यापि श्रोतुम् इच्छाम तत्त्वतः ॥

7.37

न जरा क्षुत्पिपासा वा न मृत्युर् मुनिसत्तमाः
ऋतुचक्रं प्रभवति ब्रह्मलोके सदानघाः
ककुद्मिनः स्वर्लोकं तु रैवतस्य गतस्य ह ॥

7.38

हृता पुण्यजनैर् विप्रा राक्षसैः सा कुशस्थली
तस्य भ्रातृशतं त्व् आसीद् धार्मिकस्य महात्मनः ॥

7.39

तद् वध्यमानं रक्षोभिर् दिशः प्राक्रामद् अच्युताः
विद्रुतस्य च विप्रेन्द्रास् तस्य भ्रातृशतस्य वै ॥

7.40

अन्ववायस् तु सुमहांस् तत्र तत्र द्विजोत्तमाः
तेषां ह्य् एते मुनिश्रेष्ठाः शर्याता इति विश्रुताः ॥

7.41

क्षत्रिया गुणसंपन्ना दिक्षु सर्वासु विश्रुताः
शर्वशः सर्वगहनं प्रविष्टास् ते महौजसः ॥

7.42

नाभागरिष्टपुत्रौ द्वौ वैश्यौ ब्राह्मणतां गतौ
करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्मदाः ॥

7.43

पृषध्रो हिंसयित्वा तु गुरोर् गां द्विजसत्तमाः
शापाच् छूद्रत्वम् आपन्नो नवैते परिकीर्तिताः ॥

7.44

वैवस्वतस्य तनया मुनेर् वै मुनिसत्तमाः
क्षुवतस् तु मनोर् विप्रा इक्ष्वाकुर् अभवत् सुतः ॥

7.45

तस्य पुत्रशतं त्व् आसीद् इक्ष्वाकोर् भूरिदक्षिणम्
तेषां विकुक्षिर् ज्येष्ठस् तु विकुक्षित्वाद् अयोधताम् ॥

7.46

प्राप्तः परमधर्मज्ञ सो ऽयोध्याधिपतिः प्रभुः
शकुनिप्रमुखास् तस्य पुत्राः पञ्चशतं स्मृताः ॥

7.47

उत्तरापथदेशस्य रक्षितारो महाबलाः
चत्वारिंशद् दशाष्टौ च दक्षिणस्यां तथा दिशि ॥

7.48

वशातिप्रमुखाश् चान्ये रक्षितारो द्विजोत्तमाः
इक्ष्वाकुस् तु विकुक्षिं वाऐ अष्टकायाम् अथादिशत् ॥

7.49

मांसम् आनय श्राद्धार्थं मृगान् हत्वा महाबल
श्राद्धकर्मणि चोद्दिष्टो अकृते श्राद्धकर्मणि ॥

7.50

भक्षयित्वा शशं विप्राः शशादो मृगयां गतः
इक्ष्वाकुणा परित्यक्तो वसिष्ठवचनात् प्रभुः ॥

7.51

इक्ष्वाकौ संस्थिते विप्राः शशादस् तु नृपो ऽभवत्
शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान् ॥

7.52

अनेनास् तु ककुत्स्थस्य पृथुश् चानेनसः स्मृतः
विष्टराश्वः पृथोः पुत्रस् तस्माद् आर्द्रस् त्व् अजायत ॥

7.53

आर्द्रस् तु युवनाश्वस् तु श्रावस्तस् तत्सुतो द्विजाः
जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता ॥

7.54

श्रावस्तस्य तु दायादो बृहदश्वो महीपतिः
कुवलाश्वः सुतस् तस्य राजा परमधार्मिकः ॥

7.55

यः स धुन्धुवधाद् राजा धुन्धुमारत्वम् आगतः ॥

7.56

धुन्धोर् वधं महाप्राज्ञ श्रोतुम् इच्छाम तत्त्वतः
यद्वधात् कुवलाश्वो ऽसौ धुन्धुमारत्वम् आगतः ॥

7.57

कुवलाश्वस्य पुत्राणां शतम् उत्तमधन्विनाम्
सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः ॥

7.58

बभूवुर् धार्मिकाः सर्वे यज्वानो भूरिदक्षिणाः
कुवलाश्वं पिता राज्ये बृहदश्वो न्ययोजयत् ॥

7.59

पुत्रसंक्रामितश्रीस् तु वनं राजा विवेश ह
तम् उत्तङ्को ऽथ विप्रर्षिः प्रयान्तं प्रत्यवारयत् ॥

7.60

भवता रक्षणं कार्यं तच् च कर्तुं त्वम् अर्हसि
निरुद्विग्नस् तपश् चर्तुं नहि शक्नोमि पार्थिव ॥

7.61

ममाश्रमसमीपे वै समेषु मरुधन्वसु
समुद्रो वालुकापूर्ण उद्दालक इति स्मृतः ॥

7.62

देवतानाम् अवध्यश् च महाकायो महाबलः
अन्तर्भूमिगतस् तत्र वालुकान्तर्हितो महान् ॥

7.63

राक्षसस्य मधोः पुत्रो धुन्धुर् नाम महासुरः
शेते लोकविनाशाय तप आस्थाय दारुणम् ॥

7.64

संवत्सरस्य पर्यन्ते स निश्वासं विमुञ्चति
यदा तदा मही तत्र चलति स्म नराधिप ॥

7.65

तस्य निःश्वासवातेन रज उद्धूयते महत्
आदित्यपथम् आवृत्य सप्ताहं भूमिकम्पनम् ॥

7.66

सविस्फुलिङ्गं साङ्गारं सधूमम् अतिदारुणम्
तेन तात न शक्नोमि तस्मिन् स्थातुं स्व आश्रमे ॥

7.67

तं मारय महाकायं लोकानां हितकाम्यया
लोकाः स्वस्था भवन्त्य् अद्य तस्मिन् विनिहते त्वया ॥

7.68

त्वं हि तस्य वधायैकः समर्थः पृथिवीपते
विष्णुना च वरो दत्तो मह्यं पूर्वयुगे नृप ॥

7.69

यस् तं महासुरं रौद्रं हनिष्यति महाबलम्
तस्य त्वं वरदानेन तेजश् चाख्यापयिष्यसि ॥

7.70

नहि धुन्धुर् महातेजास् तेजसाल्पेन शक्यते
निर्दग्धुं पृथिवीपाल चिरं युगशतैर् अपि ॥

7.71

वीर्यं च सुमहत् तस्य देवैर् अपि दुरासदम्
स एवम् उक्तो राजर्षिर् उत्तङ्केन महात्मना
कुवलाश्वं सुतं प्रादात् तस्मै धुन्धुनिबर्हणे ॥

7.72

भगवन् न्यस्तशस्त्रो ऽहम् अयं तु तनयो मम
भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः ॥

7.73

स तं व्यादिश्य तनयं राजर्षिर् धुन्धुमारणे
जगाम पर्वतायैव नृपतिः संशितव्रतः ॥

7.74

कुवलाश्वस् तु पुत्राणां शतेन सह भो द्विजाः
प्रायाद् उत्तङ्कसहितो धुन्धोस् तस्य निबर्हणे ॥

7.75

तम् आविशत् तदा विष्णुस् तेजसा भगवान् प्रभुः
उत्तङ्कस्य नियोगाद् वै लोकानां हितकाम्यया ॥

7.76

तस्मिन् प्रयाते दुर्धर्षे दिवि शब्दो महान् अभूत्
एष श्रीमान् अवध्यो ऽद्य धुन्धुमारो भविष्यति ॥

7.77

दिव्यैर् गन्धैश् च माल्यैश् च तं देवाः समवाकिरन्
देवदुन्दुभयश् चैव प्रणेदुर् द्विजसत्तमाः ॥

7.78

स गत्वा जयतां श्रेष्ठस् तनयैः सह वीर्यवान्
समुद्रं खानयाम् आस वालुकान्तरम् अव्ययम् ॥

7.79

तस्य पुत्रैः खनद्भिश् च वालुकान्तर्हितस् तदा
धुन्धुर् आसादितो विप्रा दिशम् आवृत्य पश्चिमाम् ॥

7.80

मुखजेनाग्निना क्रोधाल् लोकान् उद्वर्तयन्न् इव
वारि सुस्राव वेगेन महोदधिर् इवोदये ॥

7.81

सौमस्य मुनिशार्दूला वरोर्मिकलिलो महान्
तस्य पुत्रशतं दग्धं त्रिभिर् ऊनं तु रक्षसा ॥

7.82

ततः स राजा द्युतिमान् राक्षसं तं महाबलम्
आससाद महातेजा धुन्धुं धुन्धुविनाशनः ॥

7.83

तस्य वारिमयं वेगम् आपीय स नराधिपः
योगी योगेन वह्निं च शमयाम् आस वारिणा ॥

7.84

निहत्य तं महाकायं बलेनोदकराक्षसम्
उत्तङ्कं दर्शयाम् आस कृतकर्मा नराधिपः ॥

7.85

उत्तङ्कस् तु वरं प्रादात् तस्मै राज्ञे महात्मने
ददौ तस्याक्षयं वित्तं शत्रुभिश् चापराजितम् ॥

7.86

धर्मे रतिं च सततं स्वर्गे वासं तथाक्षयम्
पुत्राणां चाक्षयांल् लोकान् स्वर्गे ये रक्षसा हताः ॥

7.87

तस्य पुत्रास् त्रयः शिष्टा दृढाश्वो ज्येष्ठ उच्यते
चन्द्राश्वकपिलाश्वौ तु कनीयांसौ कुमारकौ ॥

7.88

धौन्धुमारेर् दृढाश्वस्य हर्यश्वश् चात्मजः स्मृतः
हर्यश्वस्य निकुम्भो ऽभूत् क्षत्रधर्मरतः सदा ॥

7.89

संहताश्वो निकुम्भस्य सुतो रणविशारदः
अकृशाश्वकृशाश्वौ तु संहताश्वसुतौ द्विजाः ॥

7.90

तस्य हैमवती कन्या सतां मता दृषद्वती
विख्याता त्रिषु लोकेषु पुत्रश् चास्याः प्रसेनजित् ॥

7.91

लेभे प्रसेनजिद् भार्यां गौरीं नाम पतिव्रताम्
अभिशस्ता तु सा भर्त्रा नदी वै बाहुदाभवत् ॥

7.92

तस्य पुत्रो महान् आसीद् युवनाश्वो नराधिपः
मान्धाता युवनाश्वस्य त्रिलोकविजयी सुतः ॥

7.93

तस्य चैत्ररथी भार्या शशबिन्दोः सुताभवत्
साध्वी बिन्दुमती नाम रूपेणासदृशी भुवि ॥

7.94

पतिव्रता च ज्येष्ठा च भ्रातॄणाम् अयुतस्य वै
तस्याम् उत्पादयाम् आस मान्धाता द्वौ सुतौ द्विजाः ॥

7.95

पुरुकुत्सं च धर्मज्ञं मुचुकुन्दं च पार्थिवम्
पुरुकुत्ससुतस् त्व् आसीत् त्रसदस्युर् महीपतिः ॥

7.96

नर्मदायाम् अथोत्पन्नः संभूतस् तस्य चात्मजः
संभूतस्य तु दायादस् त्रिधन्वा रिपुमर्दनः ॥

7.97

राज्ञस् त्रिधन्वनस् त्व् आसीद् विद्वांस् त्रय्यारुणः प्रभुः
तस्य सत्यव्रतो नाम कुमारो ऽभून् महाबलः ॥

7.98

परिग्रहणमन्त्राणां विघ्नं चक्रे सुदुर्मतिः
येन भार्या कृतोद्वाहा हृता चैव परस्य ह ॥

7.99

बाल्यात् कामाच् च मोहाच् च साहसाच् चापलेन च
जहार कन्यां कामार्तः कस्यचित् पुरवासिनः ॥

7.100

अधर्मशङ्कुना तेन तं स त्रय्यारुणो ऽत्यजत्
अपध्वंसेति बहुशो वदन् क्रोधसमन्वितः ॥

7.101

सो ऽब्रवीत् पितरं त्यक्तः क्व गच्छामीति वै मुहुः
पिता च तम् अथोवाच श्वपाकैः सह वर्तय ॥

7.102

नाहं पुत्रेण पुत्रार्थी त्वयाद्य कुलपांसन
इत्य् उक्तः स निराक्रामन् नगराद् वचनात् पितुः ॥

7.103

न च तं वारयाम् आस वसिष्ठो भगवान् ऋषिः
स तु सत्यव्रतो विप्राः श्वपाकावसथान्तिके ॥

7.104

पित्रा त्यक्तो ऽवसद् वीरः पिताप्य् अस्य वनं ययौ
ततस् तस्मिंस् तु विषये नावर्षत् पाकशासनः ॥

7.105

समा द्वादश भो विप्रास् तेनाधर्मेण वै तदा
दारांस् तु तस्य विषये विश्वामित्रो महातपाः ॥

7.106

संन्यस्य सागरान्ते तु चकार विपुलं तपः
तस्य पत्नी गले बद्ध्वा मध्यमं पुत्रम् औरसम् ॥

7.107

शेषस्य भरणार्थाय व्यक्रीणाद् गोशतेन वै
तं च बद्धं गले दृष्ट्वा विक्रयार्थं नृपात्मजः ॥

7.108

महर्षिपुत्रं धर्मात्मा मोक्षयाम् आस भो द्विजाः
सत्यव्रतो महाबाहुर् भरणं तस्य चाकरोत् ॥

7.109

विश्वामित्रस्य तुष्ट्यर्थम् अनुकम्पार्थम् एव च
सो ऽभवद् गालवो नाम गले बन्धान् महातपाः
महर्षिः कौशिको धीमांस् तेन वीरेण मोक्षितः ॥

7.3

गङ्गाद्वारे प्रयागे च तथा सागरसंगमे
एतेषु पुण्यदा पुंसां मुक्तिदा सा भगीरथी ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc