ब्रह्म पुराण · अध्याय 72
हिमवत्पर्वते श्रेष्ठे नानारत्नविचित्रिते
नानावृक्षलताकीर्णे नानाद्विजनिषेविते ॥
नदीनदसरःकूप तडागादिभिर् आवृते
देवगन्धर्वयक्षादि सिद्धचारणसेविते ॥
शुभमारुतसंपन्ने हर्षोत्कर्षैककारणे
मेरुमन्दरकैलास मैनाकादिनगैर् वृते ॥
वसिष्ठागस्त्यपौलस्त्य लोमशादिभिर् आवृते
महोत्सवे वर्तमाने विवाहः समजायत ॥
तत्र वेदी रत्नमयी शोभिता स्वर्णभूषिता
वज्रमाणिक्यवैदूर्य तन्मयस्तम्भशोभिता ॥
जयालक्ष्मीशुभाक्षान्ति कीर्तिपुष्ट्यादिसंवृता
मेरुमन्दरकैलास रैवतैः परिशोभितैः ॥
पूजितो लोकनाथेन विष्णुना प्रभविष्णुना
मैनाकः पर्वतश्रेष्ठो रेजे ऽतीव हिरण्मयः ॥
ऋषयो लोकपालाश् च आदित्याः समरुद्गणाः
विवाहे वेदिकां चक्रुर् देवदेवस्य शूलिनः ॥
विश्वकर्मा स्वयं त्वष्टा वेदीं चक्रे सतोरणाम्
सुरभी नन्दिनी नन्दा सुनन्दा कामदोहिनी ॥
आभिस् तु शोभितेशान्या विवाहः समजायत
समुद्राः सरितो नागा ओषध्यो लोकमातरः ॥
सवनस्पतिबीजाश् च सर्वे तत्र समाययुः
भुवः कर्म इला चक्रे ओषध्यस् त्व् अन्नकर्म च ॥
वरुणः पानकर्माणि दानकर्म धनाधिपः
अग्निश् चकार तत्रान्नं यच् चेष्टं लोकनाथयोः ॥
तत्र तत्र पृथक् पूजां चक्रे विष्णुः सनातनः
वेदाश् च सरहस्या वै गायन्ति च हसन्ति च ॥
नृत्यन्त्य् अप्सरसः सर्वा जगुर् गन्धर्वकिंनराः
लाजाधृक् चापि मैनाको बभूव मुनिसत्तम ॥
पुण्याहवाचनं वृत्तम् अन्तर्वेश्मनि नारद
वेदिकायाम् उपाविष्टौ दंपती सुरसत्तमौ ॥
प्रतिष्ठाप्याग्निं विधिवद् अश्मानं चापि पुत्रक
हुत्वा लाजांश् च विधिवत् प्रदक्षिणम् अथाकरोत् ॥
अश्मनः स्पर्शहेतोश् च देव्यङ्गुष्ठं करे ऽस्पृशत्
विष्णुना प्रेरितः शंभुर् दक्षिणस्य पदस्य च ॥
ताम् अदर्शम् अहं तत्र होमं कुर्वन् हरान्तिके
दृष्टे ऽङ्गुष्ठे दुष्टबुद्ध्या वीर्यं सुस्राव मे तदा ॥
लज्जया कलुषीभूतः स्कन्नं वीर्यम् अचूर्णयम्
मद्वीर्याच् चूर्णितात् सूक्ष्माद् वालखिल्यास् तु जज्ञिरे ॥
ततो महान् अभूत् तत्र हाहाकारः सुरोदितः
लज्जया परिभूतो ऽहं निर्गतस् तु तदासनात् ॥
पश्यत्सु देवसंघेषु तूष्णींभूतेषु नारद
गच्छन्तं मां महादेवो दृष्ट्वा नन्दिनम् अब्रवीत् ॥
ब्रह्माणम् आह्वयस्वेह गतपापं करोम्य् अहम्
कृतापराधे ऽपि जने सन्तः सकृपमानसाः
मोहयन्त्य् अपि विद्वांसं विषयाणाम् इयं स्थितिः ॥
एवम् उक्त्वा स भगवान् उमया सहितः शिवः
ममानुकम्पया चैव लोकानां हितकाम्यया ॥
एतच् चकार लोकेशः शृणु नारद यत्नतः
पापिनां पापमोक्षाय भूमिर् आपो भविष्यति ॥
तयोश् च सारसर्वस्वम् आहरिष्यामि पावनम्
एवं निश्चित्य भगवांस् तयोः सारं समाहरत् ॥
भूमिं कमण्डलुं कृत्वा तत्रापः संनिवेश्य च
पावमान्यादिभिः सूक्तैर् अभिमन्त्र्य च यत्नतः ॥
त्रिजगत्पावनीं शक्तिं तत्र सस्मार पापहा
माम् उवाच स लोकेशो गृहाणेमं कमण्डलुम् ॥
आपो वै मातरो देव्यो भूमिर् माता तथापरा
स्थित्युत्पत्तिविनाशानां हेतुत्वम् उभयोः स्थितम् ॥
अत्र प्रतिष्ठितो धर्मो ह्य् अत्र यज्ञः सनातनः
अत्र भुक्तिश् च मुक्तिश् च स्थावरं जङ्गमं तथा ॥
स्मरणान् मानसं पापं वचनाद् वाचिकं तथा
स्नानपानाभिषेकाच् च प्रणश्यत्य् अपि कायिकम् ॥
एतद् एवामृतं लोके नैतस्मात् पावनं परम्
मयाभिमन्त्रितं ब्रह्मन् गृहाणेमं कमण्डलुम् ॥
अत्रत्यं वारि यः कश्चित् स्मरेद् अपि पठेद् अपि
स सर्वकामान् आप्नोति गृहाणेमं कमण्डलुम् ॥
भूतेभ्यश् चापि पञ्चभ्य आपो भूतं महोदितम्
तासाम् उत्कृष्टम् एतस्माद् गृहाणेमं कमण्डलुम् ॥
अत्र यद् वारि शोभिष्ठं पुण्यं पावनम् एव च
स्पृष्ट्वा स्मृत्वा च दृष्ट्वा च ब्रह्मन् पापाद् विमोक्ष्यसे ॥
एवम् उक्त्वा महादेवः प्रादान् मम कमण्डलुम्
ततः सुरगणाः सर्वे भक्त्या प्रोचुः सुरेश्वरम्
आह्लादश् च महांस् तत्र जयशब्दो व्यवर्तत ॥
देवोत्सवे मातुर् अजः पदाग्रं समीक्ष्य पापात् पतितत्वम् आप
प्रादात् कृपालुः स्मरणात् पवित्रां गङ्गां पिता पुण्यकमण्डलुस्थाम्
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0