ब्रह्म पुराण · अध्याय 71
त्रिदैवत्यं तु यत् तीर्थं सर्वेभ्यो ह्य् उक्तम् उत्तमम्
तस्य स्वरूपभेदं च विस्तरेण ब्रवीतु मे ॥
तावद् अन्यानि तीर्थानि तावत् ताः पुण्यभूमयः
तावद् यज्ञादयो यावत् त्रिदैवत्यं न दृश्यते ॥
गङ्गेयं सरितां श्रेष्ठा सर्वकामप्रदायिनी
त्रिदैवत्या मुनिश्रेष्ठ तदुत्पत्तिम् अतः शृणु ॥
वर्षाणाम् अयुतात् पूर्वं देवकार्य उपस्थिते
तारको बलवान् आसीन् मद्वराद् अतिगर्वितः ॥
देवानां परमैश्वर्यं हृतं तेन बलीयसा
ततस् ते शरणं जग्मुर् देवाः सेन्द्रपुरोगमाः ॥
क्षीरोदशायिनं देवं जगतां प्रपितामहम्
कृताञ्जलिपुटा देवा विष्णुम् ऊचुर् अनन्यगाः ॥
त्वं त्राता जगतां नाथ देवानां कीर्तिवर्धन
सर्वेश्वर जगद्योने त्रयीमूर्ते नमो ऽस्तु ते ॥
लोकस्रष्टासुरान् हन्ता त्वम् एव जगतां पतिः
स्थित्युत्पत्तिविनाशानां कारणं त्वं जगन्मय ॥
त्राता न कोप्य् अस्ति जगत्त्रये ऽपि शरीरिणां सर्वविपद्गतानाम्
त्वया विना वारिजपत्त्रनेत्र तापत्रयाणां शरणं न चान्यत्
पिता च माता जगतो ऽखिलस्य त्वम् एव सेवासुलभो ऽसि विष्णो
प्रसीद पाहीश महाभयेभ्यो श्मदार्तिहन्ता वद कस् त्वदन्यः
आदिकर्ता वराहस् त्वं मत्स्यः कूर्मस् तथैव च
इत्यादिरूपभेदैर् नो रक्षसे भय आगते ॥
हृतस्वाम्यान् सुरगणान् हृतदारान् गतापदः
कस्मान् न रक्षसे देव अनन्यशरणान् हरे ॥
ततः प्रोवाच भगवाञ् शेषशायी जगत्पतिः
कस्माच् च भयम् आपन्नं तद् ब्रुवन्तु गतज्वराः
ततः श्रियः पतिं प्राहुस् तं तारकवधं प्रति ॥
तारकाद् भयम् आपन्नं भीषणं रोमहर्षणम्
न युद्धैस् तपसा शापैर् हन्तुं नैव क्षमा वयम् ॥
अर्वाग्दशाहाद् यो बालस् तस्मान् मृत्युम् अवाप्स्यति
तस्माद् देव न चान्येभ्यस् तत्र नीतिर् विधीयताम् ॥
पुनर् नारायणः प्राह नाहं बलोत्कटः सुराः
न मत्तो मदपत्याच् च न देवेभ्यो वधो भवेत् ॥
ईश्वराद् यदि जायेत अपत्यं बहुशक्तिकम्
तस्माद् वधम् अवाप्नोति तारको लोकदारुणः ॥
तद् गच्छामः सुराः सर्वे यतितुम् ऋषिभिः सह
भार्यार्थं प्रथमो यत्नः कर्तव्यः प्रभविष्णुभिः ॥
तथेत्य् उक्त्वा सुरगणा जग्मुस् ते च नगोत्तमम्
हिमवन्तं रत्नमयं मेनां च हिमवत्प्रियाम् ॥
इदम् ऊचुः सर्व एव सभार्यं तुहिनं गिरिम् ॥
दाक्षायणी लोकमाता या शक्तिः संस्थिता गिरौ
बुद्धिः प्रज्ञा धृतिर् मेधा लज्जा पुष्टिः सरस्वती ॥
एवं त्व् अनेकधा लोके या स्थिता लोकपावनी
देवानां कार्यसिद्ध्यर्थं युवयोर् गर्भम् आविशत् ॥
समुत्पन्ना जगन्माता शंभोः पत्नी भविष्यति
अस्माकं भवतां चापि पालनी च भविष्यति ॥
हिमवान् अपि तद् वाक्यं सुराणाम् अभिनन्द्य च
मेना चापि महोत्साहा अस्त्व् इत्य् एवं वचो ऽब्रवीत् ॥
तदोत्पन्ना जगद्धात्री गौरी हिमवतो गृहे
शिवध्यानरता नित्यं तन्निष्ठा तन्मनोगता ॥
तां वै प्रोचुः सुरगणा ईशार्थे तप आविश
तथा हिमवतः पृष्ठे गौरी तेपे तपो महत् ॥
पुनः संमन्त्रयाम् आसुर् ईशो ध्यायति तां शिवाम्
आत्मानं वा तथान्यद् वा न जानीमः कथं भवः ॥
मेनकायाः सुतायां तु चित्तं दध्यात् सुरेश्वरः
तत्र नीतिर् विधातव्या ततः श्रैष्ठ्यम् अवाप्स्यथ
ततः प्राह महाबुद्धिर् वाचस्पतिर् उदारधीः ॥
यस् त्व् अयं मदनो धीमान् कन्दर्पः पुष्पचापधृक्
स विध्यतु शिवं शान्तं बाणैः पुष्पमयैः शुभैः ॥
तेन विद्धस् त्रिनेत्रो ऽपि ईशायां बुद्धिम् आदधेत्
परिणेष्यत्य् असौ नूनं तदा तां गिरिजां हरः ॥
जयिनः पञ्चबाणस्य न बाणाः क्वापि कुण्ठिताः
तथोढायां जगद्धात्र्यां शंभोः पुत्रो भविष्यति ॥
जातः पुत्रस् त्रिनेत्रस्य तारकं स हनिष्यति
वसन्तं च सहायार्थं शोभिष्ठं कुसुमाकरम् ॥
आह्लादनं च मनसा कामायैनं प्रयच्छथ ॥
तथेत्य् उक्त्वा सुरगणा मदनं कुसुमाकरम्
प्रेषयाम् आसुर् अव्यग्राः शिवान्तिकम् अरिंदमाः ॥
स जगाम त्वरा कामो धृतचापो समाधवः
रत्या च सहितः कामः कर्तुं कर्म सुदुष्करम् ॥
गृहीत्वा सशरं चापम् इदं तस्य मनो ऽभवत्
मया वेध्यस् त्व् अवेध्यो वै शंभुर् लोकगुरुः प्रभुः ॥
त्रैलोक्यजयिनो बाणाः शंभौ मे किं दृढा न वा
तेनासौ चाग्निनेत्रेण भस्मशेषस् तदा कृतः ॥
तद् एव कर्म सुदृढम् ईक्षितुं सुरसत्तमाः
आजग्मुस् तत्र यद् वृत्तं शृणु विस्मयकारकम् ॥
शंभुं दृष्ट्वा सुरगणा यावत् पश्यन्ति मन्मथम्
तावच् च भस्मसाद्भूतं कामं दृष्ट्वा भयातुराः
तुष्टुवुस् त्रिदशेशानं कृताञ्जलिपुटाः सुराः ॥
तारकाद् भयम् आपन्नं कुरु पत्नीं गिरेः सुताम् ॥
विद्धचित्तो हरो ऽप्य् आशु मेने वाक्यं सुरोदितम्
अरुन्धतीं वसिष्ठं च मां तु चक्रधरं तथा ॥
प्रेषयाम् आसुर् अमरा विवाहाय परस्परम्
संबन्धो ऽपि तथाप्य् आसीद् धिमवल्लोकनाथयोः ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0