भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 73

73.1

कमण्डलुस्थिता देवी तव पुण्यविवर्धिनी
यथा मर्त्यं गता नाथ तन् मे विस्तरतो वद ॥

73.2

बलिर् नाम महादैत्यो देवारिर् अपराजितः
धर्मेण यशसा चैव प्रजासंरक्षणेन च ॥

73.3

गुरुभक्त्या च सत्येन वीर्येण च बलेन च
त्यागेन क्षमया चैव त्रैलोक्ये नोपमीयते ॥

73.4

तस्यर्द्धिम् उन्नतां दृष्ट्वा देवाश् चिन्तापरायणाः
मिथः समूचुर् अमरा जेष्यामो वै कथं बलिम् ॥

73.5

तस्मिञ् शासति राज्यं तु त्रैलोक्यं हतकण्टकम्
नारयो व्याधयो वापि नाधयो वा कथंचन ॥

73.6

अनावृष्टिर् अधर्मो वा नास्तिशब्दो न दुर्जनः
स्वप्ने ऽपि नैव दृश्येत बलौ राज्यं प्रशासति ॥

73.7

तस्योन्नतिशरैर् भग्नाः कीर्तिखड्गद्विधाकृताः
तस्याज्ञाशक्तिभिन्नाङ्गा देवाः शर्म न लेभिरे ॥

73.8

ततः संमन्त्रयाम् आसुः कृत्वा मात्सर्यम् अग्रतः
तद्यशोग्निप्रदीप्ताङ्गा विष्णुं जग्मुः सुविह्वलाः ॥

73.9

आर्ताः स्म गतसत्त्वाः स्म शङ्खचक्रगदाधर
अस्मदर्थे भवान् नित्यम् आयुधानि बिभर्ति च ॥

73.10

त्वयि नाथे जगन्नाथ अस्माकं दुःखम् ईदृशम्
त्वां तु प्रणमती वाणी कथं दैत्यं नमस्यति ॥

73.11

मनसा कर्मणा वाचा त्वाम् एव शरणं गताः
त्वदङ्घ्रिशरणाः सन्तः कथं दैत्यं नमेमहि ॥

73.12

यजामस् त्वां महायज्ञैर् वदामो वाग्भिर् अच्युत
त्वदेकशरणाः सन्तः कथं दैत्यं नमेमहि ॥

73.13

त्वद्वीर्यम् आश्रिता नित्यं देवाः सेन्द्रपुरोगमाः
त्वया दत्तं पदं प्राप्य कथं दैत्यं नमेमहि ॥

73.14

स्रष्टा त्वं ब्रह्ममूर्त्या तु विष्णुर् भूत्वा तु रक्षसि
संहर्ता रुद्रशक्त्या त्वं कथं दैत्यं नमेमहि ॥

73.15

ऐश्वर्यं कारणं लोके विनैश्वर्यं तु किं फलम्
हतैश्वर्याः सुरेशान कथं दैत्यं नमेमहि ॥

73.16

अनादिस् त्वं जगद्धातर् अनन्तस् त्वं जगद्गुरुः
अन्तवन्तम् अमुं शत्रुं कथं दैत्यं नमेमहि ॥

73.17

तवैश्वर्येण पुष्टाङ्गा जित्वा त्रैलोक्यम् ओजसा
स्थिराः स्यामः सुरेशान कथं दैत्यं नमेमहि ॥

73.18

इत्य् एतद् एव वचनं श्रुत्वा दैतेयसूदनः
उवाच सर्वान् अमरान् देवानां कार्यसिद्धये ॥

73.19

मद्भक्तो ऽसौ बलिर् दैत्यो ह्य् अवध्यो ऽसौ सुरासुरैः
यथा भवन्तो मत्पोष्यास् तथा पोष्यो बलिर् मम ॥

73.20

विना तु संगरं देवा हत्वा राज्यं त्रिविष्टपे
बलिं निबध्य मन्त्रोक्त्या राज्यं वः प्रददाम्य् अहम् ॥

73.21

तथेत्य् उक्त्वा सुरगणाः संजग्मुर् दिवम् एव हि
भगवान् अपि देवेशो ह्य् अदित्या गर्भम् आविशत् ॥

73.22

तस्मिन्न् उत्पद्यमाने तु उत्सवाश् च बभूविरे
जातो ऽसौ वामनो ब्रह्मन् यज्ञेशो यज्ञपूरुषः ॥

73.23

एतस्मिन्न् अन्तरे ब्रह्मन् हयमेधाय दीक्षितः
बलिर् बलवतां श्रेष्ठ ऋषिमुख्यैः समाहितः ॥

73.24

पुरोधसा च शुक्रेण वेदवेदाङ्गवेदिना
मखे तस्मिन् वर्तमाने यजमाने बलौ तथा ॥

73.25

आर्त्विज्य ऋषिमुख्ये तु शुक्रे तत्र पुरोधसि
हविर्भागार्थम् आसन्न देवगन्धर्वपन्नगे ॥

73.26

दीयतां भुज्यतां पूजा क्रियतां च पृथक् पृथक्
परिपूर्णं पुनः पूर्णम् एवं वाक्ये प्रवर्तति ॥

73.27

शनैस् तद्देशम् अभ्यागाद् वामनः सामगायनः
यज्ञवाटम् अनुप्राप्तो वामनश् चित्रकुण्डलः ॥

73.28

प्रशंसमानस् तं यज्ञं वामनं प्रेक्ष्य भार्गवः
ब्रह्मरूपधरं देवं वामनं दैत्यसूदनम् ॥

73.29

दातारं यज्ञतपसां फलं हन्तारं रक्षसाम्
ज्ञात्वा त्वरन्न् अथोवाच राजानं भूरितेजसम् ॥

73.30

जेतारं क्षत्रधर्मेण दातारं भक्तितो धनम्
बलिं बलवतां श्रेष्ठं सभार्यं दीक्षितं मखे ॥

73.31

ध्यायन्तं यज्ञपुरुषम् उत्सृजन्तं हविः पृथक्
तम् आह भृगुशार्दूलः शुक्रः परमबुद्धिमान् ॥

73.32

यो ऽसौ तव मखं प्राप्तो ब्राह्मणो वामनाकृतिः
नासौ विप्रो बले सत्यं यज्ञेशो यज्ञवाहनः ॥

73.33

शिशुस् त्वां याचितुं प्राप्तो नूनं देवहिताय हि
मया च सह संमन्त्र्य पश्चाद् देयं त्वया प्रभो ॥

73.34

बलिस् तु भार्गवं प्राह पुरोधसम् अरिंदमः ॥

73.35

धन्यो ऽहं मम यज्ञेशो गृहम् आयाति मूर्तिमान्
आगत्य याचते किंचित् किं मन्त्र्यम् अवशिष्यते ॥

73.36

एवम् उक्त्वा सभार्यो ऽसौ शुक्रेण च पुरोधसा
जगाम यत्र विप्रेन्द्रो वामनो ऽदितिनन्दनः ॥

73.37

कृताञ्जलिपुटो भूत्वा केनार्थित्वं तद् उच्यताम्
वामनो ऽपि तदा प्राह पदत्रयमितां भुवम् ॥

73.38

देहि राजेन्द्र नान्येन कार्यम् अस्ति धनेन किम्
तथेत्य् उक्त्वा तु कलशान् नानारत्नविभूषितात् ॥

73.39

वारिधारां पुरस्कृत्य वामनाय भुवं ददौ
पश्यत्सु ऋषिमुख्येषु शुक्रे चैव पुरोधसि ॥

73.40

पश्यत्सु लोकनाथेषु वामनाय भुवं ददौ
पश्यत्सु दैत्यसंघेषु जयशब्दे प्रवर्तति ॥

73.41

शनैस् तु वामनः प्राह स्वस्ति राजन् सुखी भव
देहि मे संमितां भूमिं त्रिपदाम् आशु गम्यते ॥

73.42

तथेत्य् उवाच दैत्येशो यावत् पश्यति वामनम्
यज्ञेशो यज्ञपुरुषश् चन्द्रादित्यौ स्तनान्तरे ॥

73.43

यथा स्यातां सुरा मूर्ध्नि ववृधे विक्रमाकृतिः
अनन्तश् चाच्युतो देवो विक्रान्तो विक्रमाकृतिः
तं दृष्ट्वा दैत्यराट् प्राह सभार्यो विनयान्वितः ॥

73.44

क्रमस्व विष्णो लोकेश यावच्छक्त्या जगन्मय
जितं मया सुरेशान सर्वभावेन विश्वकृत् ॥

73.45

तद्वाक्यसमकालं तु विष्णुः प्राह महाक्रतुः ॥

73.46

दैत्येश्वर महाबाहो क्रमिष्ये पश्य दैत्यराट् ॥

73.47

एवं वदन्तं स प्राह क्रम विष्णो पुनः पुनः ॥

73.48

कूर्मपृष्ठे पदं न्यस्य बलियज्ञे पदं न्यसत्
द्वितीयं तु पदं प्राप ब्रह्मलोकं सनातनम् ॥

73.49

तृतीयस्य पदस्यात्र स्थानं नास्त्य् असुरेश्वर
क्व क्रमिष्ये भुवं देहि बलिं तं हरिर् अब्रवीत्
विहस्य बलिर् अप्य् आह सभार्यः स कृताञ्जलिः ॥

73.50

त्वया सृष्टं जगत् सर्वं न स्रष्टाहं सुरेश्वर
त्वद्दोषाद् अल्पम् अभवत् किं करोमि जगन्मय ॥

73.51

तथापि नानृतपूर्वं कदाचिद् वच्मि केशव
सत्यवाक्यं च मां कुर्वन् मत्पृष्ठे हि पदं न्यस ॥

73.52

ततः प्रसन्नो भगवांस् त्रयीमूर्तिः सुरार्चितः ॥

73.53

वरं वृणीष्व भद्रं ते भक्त्या प्रीतो ऽस्मि दैत्यराट् ॥

73.54

स तु प्राह जगन्नाथं न याचे त्वां त्रिविक्रमम्
स तु प्रादात् स्वयं विष्णुः प्रीतः सन् मनसेप्सितम् ॥

73.55

रसातलपतित्वं च भावि चेन्द्रपदं पुनः
आत्माधिपत्यं च हरिर् अविनाशि यशो विभुः ॥

73.56

एवं दत्त्वा बलेः सर्वं ससुतं भार्ययान्वितम्
रसातले हरिः स्थाप्य बलिं त्व् अमरवैरिणम् ॥

73.57

शतक्रतोस् तथा प्रादात् सुरराज्यं यथाभवम्
एतस्मिन्न् अन्तरे तत्र पदं प्रागात् सुरार्चितम् ॥

73.58

द्वितीयं तत् पदं विष्णोः पितुर् मम महामते
यत् पदं समनुप्राप्तं गृहं दृष्ट्वाप्य् अचिन्तयम् ॥

73.59

किं कृत्यं यच् छुभं मे स्यात् पदे विष्णोः समागते
सर्वस्वं च समालोक्य श्रेष्ठो मे स्यात् कमण्डलुः ॥

73.60

तद् वारि यत् पुण्यतमं दत्तं च त्रिपुरारिणा
वरं वरेण्यं वरदं वरं शान्तिकरं परम् ॥

73.61

शुभं च शुभदं नित्यं भुक्तिमुक्तिप्रदायकम्
मातृस्वरूपं लोकानाम् अमृतं भेषजं शुचि ॥

73.62

पवित्रं पावनं पूज्यं ज्येष्ठं श्रेष्ठं गुणान्वितम्
स्मरणाद् एव लोकानां पावनं किं नु दर्शनात् ॥

73.63

तादृग् वारि शुचिर् भूत्वा कल्पये ऽर्घाय मे पितुः
इति संचिन्त्य तद् वारि गृहीत्वार्घाय कल्पितम् ॥

73.64

विष्णोः पादे तु पतितम् अर्घवारि सुमन्त्रितम्
तद् वारि पतितं मेरौ चतुर्धा व्यगमद् भुवम् ॥

73.65

पूर्वे तु दक्षिणे चैव पश्चिमे चोत्तरे तथा
दक्षिणे यत् तु पतितं जटाभिः शंकरो मुने ॥

73.66

जग्राह पश्चिमे यत् तु पुनः प्रायात् कमण्डलुम्
उत्तरे पतितं यत् तु विष्णुर् जग्राह तज् जलम् ॥

73.67

पूर्वस्मिन्न् ऋषयो देवा पितरो लोकपालकाः
जगृहुः शुभदं वारि तस्माच् छ्रेष्ठं तद् उच्यते ॥

73.68

या दक्षिणां दिशं प्राप्ता आपो वै लोकमातरः
विष्णुपादप्रसूतास् ता ब्रह्मण्या लोकमातरः ॥

73.69

महेश्वरजटासंस्थाः पर्वजातशुभोदयाः
तासां प्रभावस्मरणात् सर्वकामान् अवाप्नुयात् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc