भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 70

70.1

सर्वेषां चैव तीर्थानां क्षेत्राणां च द्विजोत्तमाः
जपहोमव्रतानां च तपोदानफलानि च ॥

70.2

न तत् पश्यामि भो विप्रा यत् तेन सदृशं भुवि
किं चात्र बहुनोक्तेन भाषितेन पुनः पुनः ॥

70.3

सत्यं सत्यं पुनः सत्यं क्षेत्रं तत् परमं महत्
पुरुषाख्यं सकृद् दृष्ट्वा सागराम्भःसमाप्लुतम् ॥

70.4

ब्रह्मविद्यां सकृज् ज्ञात्वा गर्भवासो न विद्यते
हरेः संनिहिते स्थान उत्तमे पुरुषोत्तमे ॥

70.5

संवत्सरम् उपासीत मासमात्रम् अथापि वा
तेन जप्तं हुतं तेन तेन तप्तं तपो महत् ॥

70.6

स याति परमं स्थानं यत्र योगेश्वरो हरिः
भुक्त्वा भोगान् विचित्रांश् च देवयोषित्समन्वितः ॥

70.7

कल्पान्ते पुनर् आगत्य मर्त्यलोके नरोत्तमः
जायते योगिनां विप्रा ज्ञानज्ञेयोद्यतो गृहे ॥

70.8

संप्राप्य वैष्णवं योगं हरेः स्वच्छन्दतां व्रजेत्
कल्पवृक्षस्य रामस्य कृष्णस्य भद्रया सह ॥

70.9

मार्कण्डेयेन्द्रद्युम्नस्य माहात्म्यं माधवस्य च
स्वर्गद्वारस्य माहात्म्यं सागरस्य विधिः क्रमात् ॥

70.10

मार्जनस्य यथाकाले भागीरथ्याः समागमम्
सर्वम् एतन् मया ख्यातं यत् परं श्रोतुम् इच्छथ ॥

70.11

इन्द्रद्युम्नस्य माहात्म्यम् एतच् च कथितं मया
सर्वाश्चर्यं समाख्यातं रहस्यं पुरुषोत्तमम्
पुराणं परमं गुह्यं धन्यं संसारमोचनम् ॥

70.12

नहि नस् तृप्तिर् अस्तीह शृण्वतां तीर्थविस्तरम्
पुनर् एव परं गुह्यं वक्तुम् अर्हस्य् अशेषतः
परं तीर्थस्य माहात्म्यं सर्वतीर्थोत्तमोत्तमम् ॥

70.13

इमम् एव पुरा प्रश्नं पृष्टो ऽस्मि द्विजसत्तमाः
नारदेन प्रयत्नेन तदा तं प्रोक्तवान् अहम् ॥

70.14

तपसो यज्ञदानानां तीर्थानां पावनं स्मृतम्
सर्वं श्रुतं मया त्वत्तो जगद्योने जगत्पते ॥

70.15

कियन्ति सन्ति तीर्थानि स्वर्गमर्त्यरसातले
सर्वेषाम् एव तीर्थानां सर्वदा किं विशिष्यते ॥

70.16

चतुर्विधानि तीर्थानि स्वर्गे मर्त्ये रसातले
दैवानि मुनिशार्दूल आसुराण्य् आरुषाणि च ॥

70.17

मानुषाणि त्रिलोकेषु विख्यातानि सुरादिभिः
मानुषेभ्यश् च तीर्थेभ्य आर्षं तीर्थम् अनुत्तमम् ॥

70.18

आर्षेभ्यश् चैव तीर्थेभ्य आसुरं बहुपुण्यदम्
आसुरेभ्यस् तथा पुण्यं दैवं तत् सार्वकामिकम् ॥

70.19

ब्रह्मविष्णुशिवैश् चैव निर्मितं दैवम् उच्यते
त्रिभ्यो यद् एकं जायेत तस्मान् नातः परं विदुः ॥

70.20

त्रयाणाम् अपि लोकानां तीर्थं मेध्यम् उदाहृतम्
तत्रापि जाम्बवं द्वीपं तीर्थं बहुगुणोदयम् ॥

70.21

जाम्बवे भारतं वर्षं तीर्थं त्रैलोक्यविश्रुतम्
कर्मभूमिर् यतः पुत्र तस्मात् तीर्थं तद् उच्यते ॥

70.22

तत्रैव यानि तीर्थानि यान्य् उक्तानि मया तव
हिमवद्विन्ध्ययोर् मध्ये षण्नद्यो देवसंभवाः ॥

70.23

तथैव देवजा ब्रह्मन् दक्षिणार्णवविन्ध्ययोः
एता द्वादश नद्यस् तु प्राधान्येन प्रकीर्तिताः ॥

70.24

अभिसंपूजितं यस्माद् भारतं बहुपुण्यदम्
कर्मभूमिर् अतो देवैर् वर्षं तस्मात् प्रकीर्तितम् ॥

70.25

आर्षाणि चैव तीर्थानि देवजानि क्वचित् क्वचित्
आसुरैर् आवृतान्य् आसंस् तद् एवासुरम् उच्यते ॥

70.26

दैवेष्व् एव प्रदेशेषु तपस् तप्त्वा महर्षयः
दैवप्रभावात् तपस आर्षाण्य् अपि च तान्य् अपि ॥

70.27

आत्मनः श्रेयसे मुक्त्यै पूजायै भूतये ऽथवा
आत्मनः फलभूत्यर्थं यशसो ऽवाप्तये पुनः ॥

70.28

मानुषैः कारितान्य् आहुर् मानुषाणीति नारद
एवं चतुर्विधो भेदस् तीर्थानां मुनिसत्तम ॥

70.29

भेदं न कश्चिज् जानाति श्रोतुं युक्तो ऽसि नारद
बहवः पण्डितंमन्याः शृण्वन्ति कथयन्ति च
सुकृती को ऽपि जानाति वक्तुं श्रोतुं निजैर् गुणैः ॥

70.30

तेषां स्वरूपं भेदं च श्रोतुम् इच्छामि तत्त्वतः
यच् छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥

70.31

ब्रह्मन् कृतयुगादौ तु उपायो ऽन्यो न विद्यते
तीर्थसेवां विना स्वल्पा यासेनाभीष्टदायिनीम् ॥

70.32

न त्वया सदृशो धातर् वक्ता ज्ञाताथवा क्वचित्
त्वं नाभिकमले विष्णोः संजातो ऽखिलपूर्वजः ॥

70.33

गोदावरी भीमरथी तुङ्गभद्रा च वेणिका
तापी पयोउष्णी विन्ध्यस्य दक्षिणे तु प्रकीर्तिताः ॥

70.34

भागीरथी नर्मदा तु यमुना च सरस्वती
विशोका च वितस्ता च हिमवत्पर्वताश्रिताः ॥

70.35

एता नद्यः पुण्यतमा देवतीर्थान्य् उदाहृताः
गयः कोल्लासुरो वृत्रस् त्रिपुरो ह्य् अन्धकस् तथा ॥

70.36

हयमूर्धा च लवणो नमुचिः शृङ्गकस् तथा
यमः पातालकेतुश् च मयः पुष्कर एव च ॥

70.37

एतैर् आवृततीर्थानि आसुराणि शुभानि च
प्रभासो भार्गवो ऽगस्तिर् नरनारायणौ तथा ॥

70.38

वसिष्ठश् च भरद्वाजो गोतमः कश्यपो मनुः
इत्यादिमुनिजुष्टानि ऋषितीर्थानि नारद ॥

70.39

अम्बरीषो हरिश्चन्द्रो मान्धाता मनुर् एव च
कुरुः कनखलश् चैव भद्राश्वः सगरस् तथा ॥

70.40

अश्वयूपो नाचिकेता वृषाकपिर् अरिंदमः
इत्यादिमानुषैर् विप्र निर्मितानि शुभानि च ॥

70.41

यशसः फलभूत्यर्थं निर्मितानीह नारद
स्वतोउद्भूतानि दैवानि यत्र क्वापि जगत्त्रये
पुण्यतीर्थानि तान्य् आहुस् तीर्थभेदो मयोदितः ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc