ब्रह्म पुराण · अध्याय 69
बह्वाश्चर्यस् त्वया प्रोक्तो विष्णुलोको जगत्पते
नित्यानन्दकरः श्रीमान् भुक्तिमुक्तिफलप्रदः ॥
क्षेत्रं च दुर्लभं लोके कीर्तितं पुरुषोत्तमम्
त्यक्त्वा यत्र नरो देहं याति सालोक्यतां हरेः ॥
सम्यक् क्षेत्रस्य माहात्म्यं त्वया सम्यक् प्रकीर्तितम्
यत्र स्वदेहसंत्यागाद् विष्णुलोकं व्रजेन् नरः ॥
अहो मोक्षस्य मार्गो ऽयं देहत्यागस् त्वयोदितः
नराणाम् उपकाराय पुरुषाख्ये न संशयः ॥
अनायासेन देवेश देहं त्यक्त्वा नरोत्तमाः
तस्मिन् क्षेत्रे परं विष्णोः पदं यान्ति निरामयम् ॥
श्रुत्वा क्षेत्रस्य माहात्म्यं विस्मयो नो महान् अभूत्
प्रयागपुष्करादीनि क्षेत्राण्य् आयतनानि च ॥
पृथिव्यां सर्वतीर्थानि सरितश् च सरांसि च
न तथा तानि सर्वाणि प्रशंससि सुरोत्तम ॥
यथा प्रशंससि क्षेत्रं पुरुषाख्यं पुनः पुनः
ज्ञातो ऽस्माभिर् अभिप्रायस् तवेदानीं पितामह ॥
येन प्रशंससि क्षेत्रं मुक्तिदं पुरुषोत्तमम्
पुरुषाख्यसमं नूनं क्षेत्रं नास्ति महीतले
तेन त्वं विबुधश्रेष्ठ प्रशंससि पुनः पुनः ॥
सत्यं सत्यं मुनिश्रेष्ठा भवद्भिः समुदाहृतम्
पुरुषाख्यसमं क्षेत्रं नास्त्य् अत्र पृथिवीतले ॥
सन्ति यानि तु तीर्थानि पुण्यान्य् आयतनानि च
तानि श्रीपुरुषाख्यस्य कलां नार्हन्ति षोडशीम् ॥
यथा सर्वेश्वरो विष्णुः सर्वलोकोत्तमोत्तमः
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥
आदित्यानां यथा विष्णुः श्रेष्ठत्वे समुदाहृतः
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥
नक्षत्राणां यथा सोमः सरसां सागरो यथा
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥
वसूनां पावको यद्वद् रुद्राणां शंकरो यथा
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥
वर्णानां ब्राह्मणो यद्वद् वैनतेयश् च पक्षिणाम्
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥
शिखरिणां यथा मेरुः पर्वतानां हिमालयः
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥
प्रमदानां यथा लक्ष्मीः सरितां जाह्नवी यथा
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥
ऐरावतो गजेन्द्राणां महर्षीणां भृगुर् यथा
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥
सेनानीनां यथा स्कन्दः सिद्धानां कपिलो यथा
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥
उच्चैःश्रवा यथाश्वानां कवीनाम् उशना कविः
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥
मुनीनां च यथा व्यासः कुबेरो यक्षरक्षसाम्
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥
इन्द्रियाणां मनो यद्वद् भूतानाम् अवनी यथा
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥
अश्वत्थः सर्ववृक्षाणां पवनः प्लवतां यथा
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥
भूषणानां तु सर्वेषां यथा चूडामणिर् द्विजाः
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥
गन्धर्वाणां चित्ररथः शस्त्राणां कुलिशो यथा
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥
अकारः सर्ववर्णानां गायत्री छन्दसां यथा
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥
सर्वाङ्गेभ्यो यथा श्रेष्ठम् उत्तमाङ्गं द्विजोत्तमाः
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥
अरुन्धती यथा स्त्रीणां सतीनां श्रेष्ठतां गता
तथा समस्ततीर्थानां श्रेष्ठं तत् पुरुषोत्तमम् ॥
यथा समस्तविद्यानां मोक्षविद्या परा स्मृता
तथा समस्ततीर्थानां श्रेष्ठं तत् पुरुषोत्तमम् ॥
मनुष्याणां यथा राजा धेनूनाम् अपि कामधुक्
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥
सुवर्णं सर्वरत्नानां सर्पाणां वासुकिर् यथा
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥
प्रह्लादः सर्वदैत्यानां रामः शस्त्रभृतां यथा
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥
झषाणां मकरो यद्वन् मृगाणां मृगराड् यथा
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥
समुद्राणां यथा श्रेष्ठः क्षीरोदः सरितां पतिः
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥
वरुणो यादसां यद्वद् यमः संयमिनां यथा
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥
देवर्षीणां यथा श्रेष्ठो नारदो मुनिसत्तमाः
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥
धातूनां काञ्चनं यद्वत् पवित्राणां च दक्षिणा
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥
प्रजापतिर् यथा दक्ष ऋषीणां कश्यपो यथा
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥
ग्रहाणां भास्करो यद्वन् मन्त्राणां प्रणवो यथा
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥
अश्वमेधस् तु यज्ञानां यथा श्रेष्ठः प्रकीर्तितः
तथा समस्ततीर्थानां क्षेत्रं च तद् द्विजोत्तमाः ॥
ओषधीनां यथा धान्यं तृणेषु तृणराड् यथा
तथा समस्ततीर्थानाम् उत्तमं पुरुषोत्तमम् ॥
यथा समस्ततीर्थानां धर्मः संसारतारकः
तथा समस्ततीर्थानां श्रेष्ठं तत् पुरुषोत्तमम् ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0