ब्रह्म पुराण · अध्याय 68
श्रोतुम् इच्छामहे देव विष्णुलोकम् अनामयम्
लोकानन्दकरं कान्तं सर्वाश्चर्यसमन्वितम् ॥
प्रमाणं तस्य लोकस्य भोगं कान्तिं बलं प्रभो
कर्मणा केन गच्छन्ति तत्र धर्मपरायणाः ॥
दर्शनात् स्पर्शनाद् वापि तीर्थस्नानादिनापि वा
विस्तराद् ब्रूहि तत्त्वेन परं कौतूहलं हि नः ॥
शृणुध्वं मुनयः सर्वे यत् परं परमं पदम्
भक्तानाम् ईहितं धन्यं पुण्यं संसारनाशनम् ॥
प्रवरं सर्वलोकानां विष्ण्वाख्यं वदतो मम
सर्वाश्चर्यमयं पुण्यं स्थानं त्रैलोक्यपूजितम् ॥
अशोकैः पारिजातैश् च मन्दारैश् चम्पकद्रुमैः
मालतीमल्लिकाकुन्दैर् बकुलैर् नागकेसरैः ॥
पुंनागैर् अतिमुक्तैश् च प्रियङ्गुतगरार्जुनैः
पाटलाचूतखदिरैः कर्णिकारवनोज्ज्वलैः ॥
नारङ्गैः पनसैर् लोध्रैर् निम्बदाडिमसर्जकैः
द्राक्षालकुचखर्जूरैर् मधुकेन्द्रफलैर् द्रुमैः ॥
कपित्थैर् नारिकेरैश् च तालैः श्रीफलसंभवैः
कल्पवृक्षैर् असंख्यैश् च वन्यैर् अन्यैः सुशोभनैः ॥
सरलैश् चन्दनैर् नीपैर् देवदारुशुभाञ्जनैः
जातीलवङ्गकङ्कोलैः कर्पूरामोदवासिभिः ॥
ताम्बूलपत्त्रनिचयैस् तथा पूगीफलद्रुमैः
अन्यैश् च विविधैर् वृक्षैः सर्वर्तुफलशोभितैः ॥
पुष्पैर् नानाविधैश् चैव लतागुच्छसमुद्भवैः
नानाजलाशयैः पुण्यैर् नानापक्षिरुतैर् वरैः ॥
दीर्घिकाशतसंघातैस् तोयपूर्णैर् मनोहरैः
कुमुदैः शतपत्त्रैश् च पुष्पैः कोकनदैर् वरैः ॥
रक्तनीलोत्पलैः कान्तैः कह्लारैश् च सुगन्धिभिः
अन्यैश् च जलजैः पुष्पैर् नानावर्णैः सुशोभनैः ॥
हंसकारण्डवाकीर्णैश् चक्रवाकोपशोभितैः
कोयष्टिकैश् च दात्यूहैः कारण्डवरवाकुलैः ॥
चातकैः प्रियपुत्रैश् च जीवंजीवकजातिभिः
अन्यैर् दिव्यैर् जलचरैर् विहारमधुरस्वनैः ॥
एवं नानाविधैर् दिव्यैर् नानाश्चर्यसमन्वितैः
वृक्षैर् जलाशयैः पुण्यैर् भूषितं सुमनोहरैः ॥
तत्र दिव्यैर् विमानैश् च नानारत्नविभूषितैः
कामगैः काञ्चनैः शुभ्रैर् दिव्यगन्धर्वनादितैः ॥
तरुणादित्यसंकाशैर् अप्सरोभिर् अलंकृतैः
हेमशय्यासनयुतैर् नानाभोगसमन्वितैः ॥
खेचरैः सपताकैश् च मुक्ताहारावलम्बिभिः
नानावर्णैर् असंख्यातैर् जातरूपपरिच्छदैः ॥
नानाकुसुमगन्धाढ्यैश् चन्दनागुरुभूषितैः
सुखप्रचारबहुलैर् नानावादित्रनिःस्वनैः ॥
मनोमारुततुल्यैश् च किङ्किणीस्तबकाकुलैः
विहरन्ति पुरे तस्मिन् वैष्णवे लोकपूजिते ॥
नानाङ्गनाभिः सततं गन्धर्वाप्सरसादिभिः
चन्द्राननाभिः कान्ताभिर् योषिद्भिः सुमनोहरैः ॥
पीनोन्नतकुचाग्राभिः सुमध्याभिः समन्ततः
श्यामावदातवर्णाभिर् मत्तमातङ्गगामिभिः ॥
परिवार्य नरश्रेष्ठं वीजयन्ति स्म ताः स्त्रियः
चामरै रुक्मदण्डैश् च नानारत्नविभूषितैः ॥
गीतनृत्यैस् तथा वाद्यैर् मोदमानैर् मदालसैः
यक्षविद्याधरैः सिद्धैर् गन्धर्वैर् अप्सरोगणैः ॥
सुरसंघैश् च ऋषिभिः शुशुभे भुवनोत्तमम्
तत्र प्राप्य महाभोगान् प्राप्नुवन्ति मनीषिणः ॥
वटराजसमीपे तु दक्षिणस्योदधेस् तटे
दृष्टो यैर् भगवान् कृष्णः पुष्कराक्षो जगत्पतिः ॥
क्रीडन्त्य् अप्सरसैः सार्धं यावद् द्यौश् चन्द्रतारकम्
प्रतप्तहेमसंकाशा जरामरणवर्जिताः ॥
सर्वदुःखविहीनाश् च तृष्णाग्लानिविवर्जिताः
चतुर्भुजा महावीर्या वनमालाविभूषिताः ॥
श्रीवत्सलाञ्छनैर् युक्ताः शङ्खचक्रगदाधराः
केचिन् नीलोत्पलश्यामाः केचित् काञ्चनसंनिभाः ॥
केचिन् मरकतप्रख्याः केचिद् वैदूर्यसंनिभाः
श्यामवर्णाः कुण्डलिनस् तथान्ये वज्रसंनिभाः ॥
न तादृक् सर्वदेवानां भान्ति लोका द्विजोत्तमाः
यादृग् भाति हरेर् लोकः सर्वाश्चर्यसमन्वितः ॥
न तत्र पुनरावृत्तिर् गमनाज् जायते द्विजाः
प्रभावात् तस्य देवस्य यावद् आभूतसंप्लवम् ॥
विचरन्ति पुरे दिव्ये रूपयौवनगर्विताः
कृष्णं रामं सुभद्रां च पश्यन्ति पुरुषोत्तमे ॥
प्रतप्तहेमसंकाशं तरुणादित्यसंनिभम्
पुरमध्ये हरेर् भाति मन्दिरं रत्नभूषितम् ॥
अनेकशतसाहस्रैः पताकैः समलंकृतम्
योजनायुतविस्तीर्णं हेमप्राकारवेष्टितम् ॥
नानावर्णैर् ध्वजैश् चित्रैः कल्पितैः सुमनोहरैः
विभाति शारदो यद्वन् नक्षत्रैः सह चन्द्रमाः ॥
चतुर्द्वारं सुविस्तीर्णं कञ्चुकिभिः सुरक्षितम्
पुरसप्तकसंयुक्तं महोत्सेकं मनोहरम् ॥
प्रथमं काञ्चनं तत्र द्वितीयं मरकतैर् युतम्
इन्द्रनीलं तृतीयं तु महानीलं ततः परम् ॥
पुरं तु पञ्चमं दीप्तं पद्मरागमयं पुरम्
षष्ठं वज्रमयं विप्रा वैदूर्यं सप्तमं पुरम् ॥
नानारत्नमयैर् हेम प्रवालाङ्कुरभूषितैः
स्तम्भैर् अद्भुतसंकाशैर् भाति तद् भवनं महत् ॥
दृश्यन्ते तत्र सिद्धाश् च भासयन्ति दिशो दश
पौर्णमास्यां सनक्षत्रो यथा भाति निशाकरः ॥
आरूढस् तत्र भगवान् सलक्ष्मीको जनार्दनः
पीताम्बरधरः श्यामः श्रीवत्सलक्ष्मसंयुतः ॥
ज्वलत् सुदर्शनं चक्रं घोरं सर्वास्त्रनायकम्
दधार दक्षिणे हस्ते सर्वतेजोमयं हरिः ॥
कुन्देन्दुरजतप्रख्यं हारगोक्षीरसंनिभम्
आदाय तं मुनिश्रेष्ठाः सव्यहस्तेन केशवः ॥
यस्य शब्देन सकलं संक्षोभं जायते जगत्
विश्रुतं पाञ्चजन्येति सहस्रावर्तभूषितम् ॥
दुष्कृतान्तकरीं रौद्रां दैत्यदानवनाशिनीम्
ज्वलद्वह्निशिखाकारां दुःसहां त्रिदशैर् अपि ॥
कौमोदकीं गदां चासौ धृतवान् दक्षिणे करे
वामे विस्फुरति ह्य् अस्य शार्ङ्गं सूर्यसमप्रभम् ॥
शरैर् आदित्यसंकाशैर् ज्वालामालाकुलैर् वरैः
यो ऽसौ संहरते देवस् त्रैलोक्यं सचराचरम् ॥
सर्वानन्दकरः श्रीमान् सर्वशास्त्रविशारदः
सर्वलोकगुरुर् देवः सर्वैर् देवैर् नमस्कृतः ॥
सहस्रमूर्धा देवेशः सहस्रचरणेक्षणः
सहस्राख्यः सहस्राङ्गः सहस्रभुजवान् प्रभुः ॥
सिंहासनगतो देवः पद्मपत्त्रायतेक्षणः
विद्युद्विस्पष्टसंकाशो जगन्नाथो जगद्गुरुः ॥
परीतः सुरसिद्धैश् च गन्धर्वाप्सरसां गणैः
यक्षविद्याधरैर् नागैर् मुनिसिद्धैः सचारणैः ॥
सुपर्णैर् दानवैर् दैत्यै राक्षसैर् गुह्यकिंनरैः
अन्यैर् देवगणैर् दिव्यैः स्तूयमानो विराजते ॥
तत्रस्था सततं कीर्तिः प्रज्ञा मेधा सरस्वती
बुद्धिर् मतिस् तथा क्षान्तिः सिद्धिमूर्तिस् तथा द्युतिः ॥
गायत्री चैव सावित्री मङ्गला सर्वमङ्गला
प्रभा मतिस् तथा कान्तिस् तत्र नारायणी स्थिता ॥
श्रद्धा च कौशिकी देवी विद्युत् सौदामिनी तथा
निद्रा रात्रिस् तथा माया तथान्यामरयोषितः ॥
वासुदेवस्य सर्वास् ता भवने संप्रतिष्ठिताः
अथ किं बहुनोक्तेन सर्वं तत्र प्रतिष्ठितम् ॥
घृताची मेनका रम्भा सहजन्या तिलोत्तमा
उर्वशी चैव निम्लोचा तथान्या वामना परा ॥
मन्दोदरी च सुभगा विश्वाची विपुलानना
भद्राङ्गी चित्रसेना च प्रम्लोचा सुमनोहरा ॥
मुनिसंमोहिनी रामा चन्द्रमध्या शुभानना
सुकेशी नीलकेशा च तथा मन्मथदीपिनी ॥
अलम्बुषा मिश्रकेशी तथान्या मुञ्जिकस्थला
क्रतुस्थला वराङ्गी च पूर्वचित्तिस् तथा परा ॥
परावती महारूपा शशिलेखा शुभानना
हंसलीलानुगामिन्यो मत्तवारणगामिनी ॥
बिम्बौष्ठी नवगर्भा च विख्याताः सुरयोषितः
एताश् चान्या अप्सरसो रूपयौवनगर्विताः ॥
सुमध्याश् चारुवदनाः सर्वालंकारभूषिताः
गीतमाधुर्यसंयुक्ताः सर्वलक्षणसंयुताः ॥
गीतवाद्ये च कुशलाः सुरगन्धर्वयोषितः
नृत्यन्त्य् अनुदिनं तत्र यत्रासौ पुरुषोत्तमः ॥
न तत्र रोगो नो ग्लानिर् न मृत्युर् न हिमातपौ
न क्षुत् पिपासा न जरा न वैरूप्यं न चासुखम् ॥
परमानन्दजननं सर्वकामफलप्रदम्
विष्णुलोकात् परं लोकं नात्र पश्यामि भो द्विजाः ॥
ये लोकाः स्वर्गलोके तु श्रूयन्ते पुण्यकर्मणाम्
विष्णुलोकस्य ते विप्राः कलां नार्हन्ति षोडशीम् ॥
एवं हरेः पुरस्थानं सर्वभोगगुणान्वितम्
सर्वसौख्यकरं पुण्यं सर्वाश्चर्यमयं द्विजाः ॥
न तत्र नास्तिका यान्ति पुरुषा विषयात्मकाः
न कृतघ्ना न पिशुना नो स्तेना नाजितेन्द्रियाः ॥
ये ऽर्चयन्ति सदा भक्त्या वासुदेवं जगद्गुरुम्
ते तत्र वैष्णवा यान्ति विष्णुलोकं न संशयः ॥
दक्षिणस्योदधेस् तीरे क्षेत्रे परमदुर्लभे
दृष्ट्वा कृष्णं च रामं च सुभद्रां च द्विजोत्तमाः ॥
कल्पवृक्षसमीपे तु ये त्यजन्ति कलेवरम्
ते तत्र मनुजा यान्ति मृता ये पुरुषोत्तमे ॥
वटसागरयोर् मध्ये यः स्मरेत् पुरुषोत्तमम्
ते ऽपि तत्र नरा यान्ति ये मृताः पुरुषोत्तमे ॥
ते ऽपि तत्र परं स्थानं यान्ति नास्त्य् अत्र संशयः
एवं मया मुनिश्रेष्ठा विष्णुलोकः सनातनः
सर्वानन्दकरः प्रोक्तो भुक्तिमुक्तिफलप्रदः ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0