भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 67

67.1

एकैकस्यास् तु यात्रायाः फलं ब्रूहि पृथक् पृथक्
यत् प्राप्नोति नरः कृत्वा नारी वा तत्र संयता ॥

67.2

प्रतियात्राफलं विप्राः शृणुध्वं गदतो मम
यत् प्राप्नोति नरः कृत्वा तस्मिन् क्षेत्रे सुसंयतः ॥

67.3

गुडिवायां तथोत्थाने फाल्गुन्यां विषुवे तथा
यात्रां कृत्वा विधानेन दृष्ट्वा कृष्णं प्रणम्य च ॥

67.4

संकर्षणं सुभद्रां च लभेत् सर्वत्र वै फलम्
नरो गच्छेद् विष्णुलोके यावद् इन्द्राश् चतुर्दश ॥

67.5

यावद् यात्रां ज्येष्ठमासे करोति विधिवन् नरः
तावत् कल्पं विष्णुलोके सुखं भुङ्क्ते न संशयः ॥

67.6

तस्मिन् क्षेत्रवरे पुण्ये रम्ये श्रीपुरुषोत्तमे
भुक्तिमुक्तिप्रदे नॄणां सर्वसत्त्वसुखावहे ॥

67.7

ज्येष्ठे यात्रां नरः कृत्वा नारी वा संयतेन्द्रियः
यथोक्तेन विधानेन दश द्वे च समाहितः ॥

67.8

प्रतिष्ठां कुरुते यस् तु शाठ्यदम्भविवर्जितः
स भुक्त्वा विविधान् भोगान् मोक्षं चान्ते लभेद् ध्रुवम् ॥

67.9

श्रोतुम् इच्छामहे देव प्रतिष्ठां वदतस् तव
विधानं चार्चनं दानं फलं तत्र जगत्पतेः ॥

67.10

शृणुध्वं मुनिशार्दूलाः प्रतिष्ठां विधिचोदिताम्
यां कृत्वा तु नरो भक्त्या नारी वा लभते फलम् ॥

67.11

यात्रा द्वादश संपूर्णा यदा स्यात् तु द्विजोत्तमाः
तदा कुर्वीत विधिवत् प्रतिष्ठां पापनाशिनीम् ॥

67.12

ज्येष्ठे मासि सिते पक्षे त्व् एकादश्यां समाहितः
गत्वा जलाशयं पुण्यम् आचम्य प्रयतः शुचिः ॥

67.13

आवाह्य सर्वतीर्थानि ध्यात्वा नारायणं तथा
ततः स्नानं प्रकुर्वीत विधिवत् सुसमाहितः ॥

67.14

यस्य यो विधिर् उद्दिष्ट ऋषिभिः स्नानकर्मणि
तेनैव तु विधानेन स्नानं तस्य विधीयते ॥

67.15

स्नात्वा सम्यग् विधानेन ततो देवान् ऋषीन् पितॄन्
संतर्पयेत् तथान्यांश् च नामगोत्रविधानवित् ॥

67.16

उत्तीर्य वाससी धौते निर्मले परिधाय वै
उपस्पृश्य विधानेन भास्कराभिमुखस् ततः ॥

67.17

गायत्रीं पावनीं देवीं मनसा वेदमातरम्
सर्वपापहरां पुण्यां जपेद् अष्टोत्तरं शतम् ॥

67.18

पुण्यांश् च सौरमन्त्रांश् च श्रद्धया सुसमाहितः
त्रिः प्रदक्षिणम् आवृत्य भास्करं प्रणमेत् ततः ॥

67.19

वेदोक्तं त्रिषु वर्णेषु स्नानं जाप्यम् उदाहृतम्
स्त्रीशूद्रयोः स्नानजाप्यं वेदोक्तविधिवर्जितम् ॥

67.20

ततो गच्छेद् गृहं मौनी पूजयेत् पुरुषोत्तमम्
प्रक्षाल्य हस्तौ पादौ च उपस्पृश्य यथाविधि ॥

67.21

घृतेन स्नापयेद् देवं क्षीरेण तदनन्तरम्
मधुगन्धोदकेनैव तीर्थचन्दनवारिणा ॥

67.22

ततो वस्त्रयुगं श्रेष्ठं भक्त्या तं परिधापयेत्
चन्दनागरुकर्पूरैः कुङ्कुमेन विलेपयेत् ॥

67.23

पूजयेत् परया भक्त्या पद्मैश् च पुरुषोत्तमम्
अन्यैश् च वैष्णवैः पुष्पैर् अर्चयेन् मल्लिकादिभिः ॥

67.24

संपूज्यैवं जगन्नाथं भुक्तिमुक्तिप्रदं हरिम्
धूपं चागुरुसंयुक्तं दहेद् देवस्य चाग्रतः ॥

67.25

गुग्गुलं च मुनिश्रेष्ठा दहेद् गन्धसमन्वितम्
दीपं प्रज्वालयेद् भक्त्या यथाशक्त्या घृतेन वै ॥

67.26

अन्यांश् च दीपकान् दद्याद् द्वादशैव समाहितः
घृतेन च मुनिश्रेष्ठास् तिलतैलेन वा पुनः ॥

67.27

नैवेद्ये पायसापूप शष्कुलीवटकं तथा
मोदकं फाणितं वाल्पं फलानि च निवेदयेत् ॥

67.28

एवं पञ्चोपचारेण संपूज्य पुरुषोत्तमम्
नमः पुरुषोत्तमायेति जपेद् अष्टोत्तरं शतम् ॥

67.29

ततः प्रसादयेद् देवं भक्त्या तं पुरुषोत्तमम्
नमस् ते सर्वलोकेश भक्तानाम् अभयप्रद ॥

67.30

संसारसागरे मग्नं त्राहि मां पुरुषोत्तम
यास् ते मया कृता यात्रा द्वादशैव जगत्पते ॥

67.31

प्रसादात् तव गोविन्द संपूर्णास् ता भवन्तु मे
एवं प्रसाद्य तं देवं दण्डवत् प्रणिपत्य च ॥

67.32

ततो ऽर्चयेद् गुरुं भक्त्या पुष्पवस्त्रानुलेपनैः
नानयोर् अन्तरं यस्माद् विद्यते मुनिसत्तमाः ॥

67.33

देवस्योपरि कुर्वीत श्रद्धया सुसमाहितः
नानापुष्पैर् मुनिश्रेष्ठा विचित्रं पुष्पमण्डपम् ॥

67.34

कृत्वावधारणं पश्चाज् जागरं कारयेन् निशि
कथां च वासुदेवस्य गीतिकां चापि कारयेत् ॥

67.35

ध्यायन् पठन् स्तुवन् देवं प्रणयेद् रजनीं बुधः
ततः प्रभाते विमले द्वादश्यां द्वादशैव तु ॥

67.36

निमन्त्रयेद् व्रतस्नातान् ब्राह्मणान् वेदपारगान्
इतिहासपुराणज्ञाञ् श्रोत्रियान् संयतेन्द्रियान् ॥

67.37

स्नात्वा सम्यग् विधानेन धौतवासा जितेन्द्रियः
स्नापयेत् पूर्ववत् तत्र पूजयेत् पुरुषोत्तमम् ॥

67.38

गन्धैः पुष्पैर् उपहारैर् नैवेद्यैर् दीपकैस् तथा
उपचारैर् बहुविधैः प्रणिपातैः प्रदक्षिणैः ॥

67.39

जाप्यैः स्तुतिनमस्कारैर् गीतवाद्यैर् मनोहरैः
संपूज्यैवं जगन्नाथं ब्राह्मणान् पूजयेत् ततः ॥

67.40

द्वादशैव तु गास् तेभ्यो दत्त्वा कनकम् एव च
छत्त्रोपानद्युगं चैव श्रद्धाभक्तिसमन्वितः ॥

67.41

भक्त्या तु सधनं तेभ्यो दद्याद् वस्त्रादिकं द्विजाः
सद्भावेन तु गोविन्दस् तोष्यते पूजितो यतः ॥

67.42

आचार्याय ततो दद्याद् गोवस्त्रं कनकं तथा
छत्त्रोपानद्युगं चान्यत् कांस्यपात्रं च भक्तितः ॥

67.43

ततस् तान् भोजयेद् विप्रान् भोज्यं पायसपूर्वकम्
पक्वान्नं भक्ष्यभोज्यं च गुडसर्पिःसमन्वितम् ॥

67.44

ततस् तान् अन्नतृप्तांश् च ब्राह्मणान् स्वस्थमानसान्
द्वादशैवोदकुम्भांश् च दद्यात् तेभ्यः समोदकान् ॥

67.45

दक्षिणां च यथाशक्त्या दद्यात् तेभ्यो विमत्सरः
कुम्भं च दक्षिणां चैव आचार्याय निवेदयेत् ॥

67.46

एवं संपूज्य तान् विप्रान् गुरुं ज्ञानप्रदायकम्
पूजयेत् परया भक्त्या विष्णुतुल्यं द्विजोत्तमाः ॥

67.47

सुवर्णवस्त्रगोधान्यैर् द्रव्यैश् चान्यैर् वरैर् बुधः
संपूज्य तं नमस्कृत्य इमं मन्त्रम् उदीरयेत् ॥

67.48

सर्वव्यापी जगन्नाथः शङ्खचक्रगदाधरः
अनादिनिधनो देवः प्रीयतां पुरुषोत्तमः ॥

67.49

इत्य् उच्चार्य ततो विप्रांस् त्रिः कृत्वा च प्रदक्षिणाम्
प्रणम्य शिरसा भक्त्या आचार्यं तु विसर्जयेत् ॥

67.50

ततस् तान् ब्राह्मणान् भक्त्या चासीमान्तम् अनुव्रजेत्
अनुव्रज्य तु तान् सर्वान् नमस्कृत्य निवर्तयेत् ॥

67.51

बान्धवैः स्वजनैर् युक्तस् ततो भुञ्जीत वाग्यतः
अन्यैश् चोपासकैर् दीनैर् भिक्षुकैश् चान्नकाङ्क्षिभिः ॥

67.52

एवं कृत्वा नरः सम्यङ् नारी वा लभते फलम्
अश्वमेधसहस्राणां राजसूयशतस्य च ॥

67.53

अतीतं शतम् आदाय पुरुषाणां नरोत्तमाः
भविष्यं च शतं विप्राः स्वर्गत्या दिव्यरूपधृक् ॥

67.54

सर्वलक्षणसंपन्नः सर्वालंकारभूषितः
सर्वकामसमृद्धात्मा देववद् विगतज्वरः ॥

67.55

रूपयौवनसंपन्नो गुणैः सर्वैर् अलंकृतः
स्तूयमानो ऽप्सरोभिश् च गन्धर्वैः समलंकृतः ॥

67.56

विमानेनार्कवर्णेन कामगेन स्थिरेण च
पताकाध्वजयुक्तेन सर्वरत्नैर् अलंकृतः ॥

67.57

उद्योतयन् दिशः सर्वा आकाशे विगतक्लमः
युवा महाबलो धीमान् विष्णुलोकं स गच्छति ॥

67.58

तत्र कल्पशतं यावद् भुङ्क्ते भोगान् यथेप्सितान्
सिद्धाप्सरोभिर् गन्धर्वैः सुरविद्याधरोरगैः ॥

67.59

स्तूयमानो मुनिवरैस् तिष्ठते विगतज्वरः
यथा देवो जगन्नाथः शङ्खचक्रगदाधरः ॥

67.60

तथासौ मुदितो विप्राः कृत्वा रूपं चतुर्भुजम्
भुक्त्वा तत्र वरान् भोगान् क्रीडां कृत्वा सुरैः सह ॥

67.61

तदन्ते ब्रह्मसदनम् आयाति सर्वकामदम्
सिद्धविद्याधरैश् चापि शोभितं सुरकिंनरैः ॥

67.62

कालं नवतिकल्पं तु तत्र भुक्त्वा सुखं नरः
तस्माद् आयाति विप्रेन्द्राः सर्वकामफलप्रदम् ॥

67.63

रुद्रलोकं सुरगणैः सेवितं सुखमोक्षदम्
अनेकशतसाहस्रैर् विमानैः समलंकृतम् ॥

67.64

सिद्धविद्याधरैर् यक्षैर् भूषितं दैत्यदानवैः
अशीतिकल्पकालं तु तत्र भुक्त्वा सुखं नरः ॥

67.65

तदन्ते याति गोलोकं सर्वभोगसमन्वितम्
सुरसिद्धाप्सरोभिश् च शोभितं सुमनोहरम् ॥

67.66

तत्र सप्ततिकल्पांस् तु भुक्त्वा भोगम् अनुत्तमम्
दुर्लभं त्रिषु लोकेषु स्वस्थचित्तो यथामरः ॥

67.67

तस्माद् आगच्छते लोकं प्राजापत्यम् अनुत्तमम्
गन्धर्वाप्सरसैः सिद्धैर् मुनिविद्याधरैर् वृतः ॥

67.68

षष्टिकल्पान् सुखं तत्र भुक्त्वा नानाविधं मुदा
तदन्ते शक्रभवनं नानाश्चर्यसमन्वितम् ॥

67.69

गन्धर्वैः किंनरैः सिद्धैः सुरविद्याधरोरगैः
गुह्यकाप्सरसैः साध्यैर् वृतैश् चान्यैः सुरोत्तमैः ॥

67.70

आगत्य तत्र पञ्चाशत् कल्पान् भुक्त्वा सुखं नरः
सुरलोकं ततो गत्वा विमानैः समलंकृतः ॥

67.71

चत्वारिंशत् तु कल्पांस् तु भुक्त्वा भोगान् सुदुर्लभान्
आगच्छते ततो लोकं नक्षत्राख्यं सुदुर्लभम् ॥

67.72

ततो भोगान् वरान् भुङ्क्ते त्रिंशत् कल्पान् यथेप्सितान्
तस्माद् आगच्छते लोकं शशाङ्कस्य द्विजोत्तमाः ॥

67.73

यत्रासौ तिष्ठते सोमः सर्वैर् देवैर् अलंकृतः
तत्र विंशतिकल्पांस् तु भुक्त्वा भोगं सुदुर्लभम् ॥

67.74

आदित्यस्य ततो लोकम् आयाति सुरपूजितम्
नानाश्चर्यमयं पुण्यं गन्धर्वाप्सरःसेवितम् ॥

67.75

तत्र भुक्त्वा शुभान् भोगान् दश कल्पान् द्विजोत्तमाः
तस्माद् आयाति भुवनं गन्धर्वाणां सुदुर्लभम् ॥

67.76

तत्र भोगान् समस्तांश् च कल्पम् एकं यथासुखम्
भुक्त्वा चायाति मेदिन्यां राजा भवति धार्मिकः ॥

67.77

चक्रवर्ती महावीर्यो गुणैः सर्वैर् अलंकृतः
कृत्वा राज्यं स्वधर्मेण यज्ञैर् इष्ट्वा सुदक्षिणैः ॥

67.78

तदन्ते योगिनां लोकं गत्वा मोक्षप्रदं शिवम्
तत्र भुक्त्वा वरान् भोगान् यावद् आभूतसंप्लवम् ॥

67.79

तस्माद् आगच्छते चात्र जायते योगिनां कुले
प्रवरे वैष्णवे विप्रा दुर्लभे साधुसंमते ॥

67.80

चतुर्वेदी विप्रवरो यज्ञैर् इष्ट्वाप्तदक्षिणैः
वैष्णवं योगम् आस्थाय ततो मोक्षम् अवाप्नुयात् ॥

67.81

एवं यात्राफलं विप्रा मया सम्यग् उदाहृतम्
भुक्तिमुक्तिप्रदं नॄणां किम् अन्यच् छ्रोतुम् इच्छथ ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc