भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 64

64.1

यदा भवेन् महाज्यैष्ठी राशिनक्षत्रयोगतः
प्रयत्नेन तदा मर्त्यैर् गन्तव्यं पुरुषोत्तमम् ॥

64.2

कृष्णं दृष्ट्वा महाज्यैष्ठ्यां रामं भद्रां च भो द्विजाः
नरो द्वादशयात्रायाः फलं प्राप्नोति चाधिकम् ॥

64.3

प्रयागे च कुरुक्षेत्रे नैमिषे पुष्करे गये
गङ्गाद्वारे कुशावर्ते गङ्गासागरसंगमे ॥

64.4

कोकामुखे शूकरे च मथुरायां मरुस्थले
शालग्रामे वायुतीर्थे मन्दरे सिन्धुसागरे ॥

64.5

पिण्डारके चित्रकूटे प्रभासे कनखले द्विजाः
शङ्खोद्धारे द्वारकायां तथा बदरिकाश्रमे ॥

64.6

लोहकुण्डे चाश्वतीर्थे सर्वपापप्रमोचने
कामालये कोटितीर्थे तथा चामरकण्टके ॥

64.7

लोहार्गले जम्बुमार्गे सोमतीर्थे पृथूदके
उत्पलावर्तके चैव पृथुतुङ्गे सुकुब्जके ॥

64.8

एकाम्रके च केदारे काश्यां च विरजे द्विजाः
कालञ्जरे च गोकर्णे श्रीशैले गन्धमादने ॥

64.9

महेन्द्रे मलये विन्ध्ये पारियात्रे हिमालये
सह्ये च शुक्तिमन्ते च गोमन्ते चार्बुदे तथा ॥

64.10

गङ्गायां सर्वतीर्थेषु यामुनेषु च भो द्विजाः
सारस्वतेषु गोमत्यां ब्रह्मपुत्रेषु सप्तसु ॥

64.11

गोदावरी भीमरथी तुङ्गभद्रा च नर्मदा
तापी पयोउष्णी कावेरी शिप्रा चर्मण्वती द्विजाः ॥

64.12

वितस्ता चन्द्रभागा च शतद्रुर् बाहुदा तथा
ऋषिकुल्या कुमारी च विपाशा च दृषद्वती ॥

64.13

शरयूर् नाकगङ्गा च गण्डकी च महानदी
कौशिकी करतोया च त्रिस्रोता मधुवाहिनी ॥

64.14

महानदी वैतरणी याश् चान्या नानुकीर्तिताः
अथवा किं बहूक्तेन भाषितेन द्विजोत्तमाः ॥

64.15

पृथिव्यां सर्वतीर्थेषु सर्वेष्व् आयतनेषु च
सागरेषु च शैलेषु नदीषु च सरःसु च ॥

64.16

यत् फलं स्नानदानेन राहुग्रस्ते दिवाकरे
तत् फलं कृष्णम् आलोक्य महाज्यैष्ठ्यां लभेन् नरः ॥

64.17

तस्मात् सर्वप्रयत्नेन गन्तव्यं पुरुषोत्तमे
महाज्यैष्ठ्यां मुनिश्रेष्ठा सर्वकामफलेप्सुभिः ॥

64.18

दृष्ट्वा रामं महाज्येष्ठं कृष्णं सुभद्रया सह
विष्णुलोकं नरो याति समुद्धृत्य समं कुलम् ॥

64.19

भुक्त्वा तत्र वरान् भोगान् यावद् आभूतसंप्लवम्
पुण्यक्षयाद् इहागत्य चतुर्वेदी द्विजो भवेत् ॥

64.20

स्वधर्मनिरतः शान्तः कृष्णभक्तो जितेन्द्रियः
वैष्णवं योगम् आस्थाय ततो मोक्षम् अवाप्नुयात् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc