भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 65

65.1

कस्मिन् काले भवेत् स्नानं कृष्णस्य कमलोद्भव
विधिना केन तद् ब्रूहि ततो विधिविदां वर ॥

65.2

शृणुध्वं मुनयः स्नानं कृष्णस्य वदतो मम
रामस्य च सुभद्रायाः पुण्यं सर्वाघनाशनम् ॥

65.3

मासि ज्येष्ठे च संप्राप्ते नक्षत्रे चन्द्रदैवते
पौर्णमास्यां तदा स्नानं सर्वकालं हरेर् द्विजाः ॥

65.4

सर्वतीर्थमयः कूपस् तत्रास्ते निर्मलः शुचिः
तदा भोगवती तत्र प्रत्यक्षा भवति द्विजाः ॥

65.5

तस्माज् ज्यैष्ठ्यां समुद्धृत्य हैमाढ्यैः कलशैर् जलम्
कृष्णरामाभिषेकार्थं सुभद्रायाश् च भो द्विजाः ॥

65.6

कृत्वा सुशोभनं मञ्चं पताकाभिर् अलंकृतम्
सुदृढं सुखसंचारं वस्त्रैः पुष्पैर् अलंकृतम् ॥

65.7

विस्तीर्णं धूपितं धूपैः स्नानार्थं रामकृष्णयोः
सितवस्त्रपरिच्छन्नं मुक्ताहारावलम्बितम् ॥

65.8

तत्र नानाविधैर् वाद्यैः कृष्णं नीलाम्बरं द्विजाः
मध्ये सुभद्रां चास्थाप्य जयमङ्गलनिस्वनैः ॥

65.9

ब्राह्मणैः क्षत्रियैर् वैश्यैः शूद्रैश् चान्यैश् च जातिभिः
अनेकशतसाहस्रैर् वृतं स्त्रीपुरुषैर् द्विजाः ॥

65.10

गृहस्थाः स्नातकाश् चैव यतयो ब्रह्मचारिणः
स्नापयन्ति तदा कृष्णं मञ्चस्थं सहलायुधम् ॥

65.11

तथा समस्ततीर्थानि पूर्वोक्तानि द्विजोत्तमाः
स्वोदकैः पुष्पमिश्रैश् च स्नापयन्ति पृथक् पृथक् ॥

65.12

पश्चात् पटहशङ्खाद्यैर् भेरीमुरजनिस्वनैः
काहलैस् तालशब्दैश् च मृदङ्गैर् झर्झरैस् तथा ॥

65.13

अन्यैश् च विविधैर् वाद्यैर् घण्टास्वनविभूषितैः
स्त्रीणां मङ्गलशब्दैश् च स्तुतिशब्दैर् मनोहरैः ॥

65.14

जयशब्दैस् तथा स्तोत्रैर् वीणावेणुनिनादितैः
श्रूयते सुमहाञ् शब्दः सागरस्येव गर्जतः ॥

65.15

मुनीनां वेदशब्देन मन्त्रशब्दैस् तथापरैः
नानास्तोत्ररवैः पुण्यैः सामशब्दोपबृंहितैः ॥

65.16

यतिभिः स्नातकैश् चैव गृहस्थैर् ब्रह्मचारिभिः
स्नानकाले सुरश्रेष्ठ स्तुवन्ति परया मुदा ॥

65.17

श्यामैर् वेश्याजनैश् चैव कुचभारावनामिभिः
पीतरक्ताम्बराभिश् च माल्यदामावनामिभिः ॥

65.18

सरत्नकुण्डलैर् दिव्यैः सुवर्णस्तबकान्वितैः
चामरै रत्नदण्डैश् च वीज्येते रामकेशवौ ॥

65.19

यक्षविद्याधरैः सिद्धैः किंनरैश् चाप्सरोगणैः
परिवार्याम्बरगतैर् देवगन्धर्वचारणैः ॥

65.20

आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः
लोकपालास् तथा चान्ये स्तुवन्ति पुरुषोत्तमम् ॥

65.21

नमस् ते देवदेवेश पुराण पुरुषोत्तम
सर्गस्थित्यन्तकृद् देव लोकनाथ जगत्पते ॥

65.22

त्रैलोक्यधारिणं देवं ब्रह्मण्यं मोक्षकारणम्
तं नमस्यामहे भक्त्या सर्वकामफलप्रदम् ॥

65.23

स्तुत्वैवं विबुधाः कृष्णं रामं चैव महाबलम्
सुभद्रां च मुनिश्रेष्ठास् तदाकाशे व्यवस्थिताः ॥

65.24

गायन्ति देवगन्धर्वा नृत्यन्त्य् अप्सरसस् तथा
देवतूर्याण्य् अवाद्यन्त वाता वान्ति सुशीतलाः ॥

65.25

पुष्पमिश्रं तदा मेघा वर्षन्त्य् आकाशगोचराः
जयशब्दं च कुर्वन्ति मुनयः सिद्धचारणाः ॥

65.26

शक्राद्या विबुधाः सर्व ऋषयः पितरस् तथा
प्रजानां पतयो नागा ये चान्ये स्वर्गवासिनः ॥

65.27

ततो मङ्गलसंभारैर् विधिमन्त्रपुरस्कृतम्
आभिषेचनिकं द्रव्यं गृहीत्वा देवतागणाः ॥

65.28

इन्द्रो विष्णुर् महावीर्यः सूर्याचन्द्रमसौ तथा
धाता चैव विधाता च तथा चैवानिलानलौ ॥

65.29

पूषा भगो ऽर्यमा त्वष्टा अंशुनैव विवस्वता
पत्नीभ्यां सहितो धीमान् मित्रेण वरुणेन च ॥

65.30

रुद्रैर् वसुभिर् आदित्यैर् अश्विभ्यां च वृतः प्रभुः
विश्वैर् देवैर् मरुद्भिश् च साध्यैश् च पितृभिः सह ॥

65.31

गन्धर्वैर् अप्सरोभिश् च यक्षराक्षसपन्नगैः
देवर्षिभिर् असंख्येयैस् तथा ब्रह्मर्षिभिर् वरैः ॥

65.32

वैखानसैर् वालखिल्यैर् वाय्वाहारैर् मरीचिपैः
भृगुभिश् चाङ्गिरोभिश् च सर्वविद्यासुनिष्ठितैः ॥

65.33

सर्वविद्याधरैः पुण्यैर् योगसिद्धिभिर् आवृतः
पितामहः पुलस्त्यश् च पुलहश् च महातपाः ॥

65.34

अङ्गिराः कश्यपो ऽत्रिश् च मरीचिर् भृगुर् एव च
क्रतुर् हरः प्रचेताश् च मनुर् दक्षस् तथैव च ॥

65.35

ऋतवश् च ग्रहाश् चैव ज्योतींषि च द्विजोत्तमाः
मूर्तिमत्यश् च सरितो देवाश् चैव सनातनाः ॥

65.36

समुद्राश् च ह्रदाश् चैव तीर्थानि विविधानि च
पृथिवी द्यौर् दिशश् चैव पादपाश् च द्विजोत्तमाः ॥

65.37

अदितिर् देवमाता च ह्रीः श्रीः स्वाहा सरस्वती
उमा शची सिनीवाली तथा चानुमतिः कुहूः ॥

65.38

राका च धिषणा चैव पत्न्यश् चान्या दिवौकसाम्
हिमवांश् चैव विन्ध्यश् च मेरुश् चानेकशृङ्गवान् ॥

65.39

ऐरावतः सानुचरः कलाकाष्ठास् तथैव च
मासार्धं मास-ऋतवस् तथा रात्र्यहनी समाः ॥

65.40

उच्चैःश्रवा हयश्रेष्ठो नागराजश् च वामनः
अरुणो गरुडश् चैव वृक्षाश् चौषधिभिः सह ॥

65.41

धर्मश् च भगवान् देवः समाजग्मुर् हि संगताः
कालो यमश् च मृत्युश् च यमस्यानुचराश् च ये ॥

65.42

बहुलत्वाच् च नोक्ता ये विविधा देवतागणाः
ते देवस्याभिषेकार्थं समायान्ति ततस् ततः ॥

65.43

गृहीत्वा ते तदा विप्राः सर्वे देवा दिवौकसः
आभिषेचनिकं द्रव्यं मङ्गलानि च सर्वशः ॥

65.44

दिव्यसंभारसंयुक्तैः कलशैः काञ्चनैर् द्विजाः
सारस्वतीभिः पुण्याभिर् दिव्यतोयाभिर् एव च ॥

65.45

तोयेनाकाशगङ्गायाः कृष्णं रामेण संगतम्
सपुष्पैः काञ्चनैः कुम्भैः स्नापयन्त्य् अवनिस्थिताः ॥

65.46

संचरन्ति विमानानि देवानाम् अम्बरे तथा
उच्चावचानि दिव्यानि कामगानि स्थिराणि च ॥

65.47

दिव्यरत्नविचित्राणि सेवितान्य् अप्सरोगणैः
गीतैर् वाद्यैः पताकाभिः शोभितानि समन्ततः ॥

65.48

एवं तदा मुनिश्रेष्ठाः कृष्णं रामेण संगतम्
स्नापयित्वा सुभद्रां च संस्तुवन्ति मुदान्विताः ॥

65.50

जय कृष्ण जगन्नाथ जय संकर्षणानुज
जय पद्मपलाशाक्ष जय वाञ्छाफलप्रद ॥

65.51

जय मालावृतोरस्क जय चक्रगदाधर
जय पद्मालयाकान्त जय विष्णो नमो ऽस्तु ते ॥

65.52

एवं स्तुत्वा तदा देवाः शक्राद्या हृष्टमानसाः
सिद्धचारणसंघाश् च ये चान्ये स्वर्गवासिनः ॥

65.53

मुनयो वालखिल्याश् च कृष्णं रामेण संगतम्
सुभद्रां च मुनिश्रेष्ठाः प्रणिपत्याम्बरे स्थिताः ॥

65.54

दृष्ट्वा स्तुत्वा नमस्कृत्वा तदा ते त्रिदिवौकसः
कृष्णं रामं सुभद्रां च यान्ति स्वं स्वं निवेशनम् ॥

65.55

संचरन्ति विमानानि देवानाम् अम्बरे तदा
उच्चावचानि दिव्यानि कामगानि स्थिराणि च ॥

65.56

दिव्यरत्नविचित्राणि सेवितान्य् अप्सरोगणैः
गीतैर् वाद्यैः पताकाभिः शोभितानि समन्ततः ॥

65.57

तस्मिन् काले तु ये मर्त्याः पश्यन्ति पुरुषोत्तमम्
बलभद्रं सुभद्रां च ते यान्ति पदम् अव्ययम् ॥

65.58

सुभद्रारामसहितं मञ्चस्थं पुरुषोत्तमम्
दृष्ट्वा निरामयं स्थानं यान्ति नास्त्य् अत्र संशयः ॥

65.59

कपिलाशतदानेन यत् फलं पुष्करे स्मृतम्
तत् फलं कृष्णम् आलोक्य मञ्चस्थं सहलायुधम्
सुभद्रां च मुनिश्रेष्ठाः प्राप्नोति शुभकृन् नरः ॥

65.60

कन्याशतप्रदानेन यत् फलं समुदाहृतम्
तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः ॥

65.61

सुवर्णशतनिष्काणां दानेन यत् फलं स्मृतम्
तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः ॥

65.62

गोसहस्रप्रदानेन यत् फलं परिकीर्तितम्
तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः ॥

65.63

भूमिदानेन विधिवद् यत् फलं समुदाहृतम्
तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः ॥

65.64

यत् फलं चान्नदानेन अर्घातिथ्येन कीर्तितम्
तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः ॥

65.65

वृषोत्सर्गेण विधिवद् यत् फलं समुदाहृतम्
तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः ॥

65.66

यत् फलं तोयदानेन ग्रीष्मे वान्यत्र कीर्तितम्
तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः ॥

65.67

तिलधेनुप्रदानेन यत् फलं संप्रकीर्तितम्
तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः ॥

65.68

गजाश्वरथदानेन यत् फलं समुदाहृतम्
तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः ॥

65.69

सुवर्णशृङ्गीदानेन यत् फलं समुदाहृतम्
तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः ॥

65.70

जलधेनुप्रदानेन यत् फलं समुदाहृतम्
तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः ॥

65.71

दानेन घृतधेन्वाश् च फलं यत् समुदाहृतम्
तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः ॥

65.72

चान्द्रायणेन चीर्णेन यत् फलं समुदाहृतम्
तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः ॥

65.73

मासोपवासैर् विधिवद् यत् फलं समुदाहृतम्
तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः ॥

65.74

अथ किं बहुनोक्तेन भाषितेन पुनः पुनः
तस्य देवस्य माहात्म्यं मञ्चस्थस्य द्विजोत्तमाः ॥

65.75

यत् फलं सर्वतीर्थेषु व्रतैर् दानैश् च कीर्तितम्
तत् फलं कृष्णम् आलोक्य मञ्चस्थं सहलायुधम् ॥

65.76

सुभद्रां च मुनिश्रेष्ठाः प्राप्नोति शुभकृन् नरः
तस्मान् नरो ऽथवा नारी पश्येत् तं पुरुषोत्तमम् ॥

65.77

ततः समस्ततीर्थानां लभेत् स्नानादिकं फलम्
स्नानशेषेण कृष्णस्य तोयेनात्माभिषिच्यते ॥

65.78

वन्ध्या मृतप्रजा या तु दुर्भगा ग्रहपीडिता
राक्षसाद्यैर् गृहीता वा तथा रोगैश् च संहताः ॥

65.79

सद्यस् ताः स्नानशेषेण उदकेनाभिषेचिताः
प्राप्नुवन्तीप्सितान् कामान् यान् यान् वाञ्छन्ति चेप्सितान् ॥

65.80

पुत्रार्थिनी लभेत् पुत्रान् सौभाग्यं च सुखार्थिनी
रोगार्ता मुच्यते रोगाद् धनं च धनकाङ्क्षिणी ॥

65.81

पुण्यानि यानि तोयानि तिष्ठन्ति धरणीतले
तानि स्नानावशेषस्य कलां नार्हन्ति षोडशीम् ॥

65.82

तस्मात् स्नानावशेषं यत् कृष्णस्य सलिलं द्विजाः
तेनाभिषिञ्चेद् गात्राणि सर्वकामप्रदं हि तत् ॥

65.83

स्नातं पश्यन्ति ये कृष्णं व्रजन्तं दक्षिणामुखम्
ब्रह्महत्यादिभिः पापैर् मुच्यन्ते ते न संशयः ॥

65.84

शास्त्रेषु यत् फलं प्रोक्तं पृथिव्-यस् त्रिप्रदक्षिणैः
दृष्ट्वा नरो लभेत् कृष्णं व्रजन्तं दक्षिणामुखम् ॥

65.85

तीर्थयात्राफलं यत् तु पृथिव्यां समुदाहृतम्
दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥

65.86

बदर्यां यत् फलं प्रोक्तं दृष्ट्वा नारायणं नरम्
दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥

65.87

गङ्गाद्वारे कुरुक्षेत्रे स्नानदानेन यत् फलम्
दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥

65.88

प्रयागे च महामाघ्यां यत् फलं समुदाहृतम्
दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥

65.89

शालग्रामे महाचैत्र्यां स्नानदानेन यत् फलम्
दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥

65.90

महाभिधानकार्त्तिक्यां पुष्करे यत् फलं स्मृतम्
दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥

65.91

यत् फलं स्नानदानेन गङ्गासागरसंगमे
दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥

65.92

ग्रस्ते सूर्ये कुरुक्षेत्रे स्नानदानेन यत् फलम्
दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥

65.93

गङ्गायां सर्वतीर्थेषु यामुनेषु च भो द्विजाः
सारस्वतेषु तीर्थेषु तथान्येषु सरःसु च ॥

65.94

यत् फलं स्नानदानेन विधिवत् समुदाहृतम्
दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥

65.95

पुष्करे चाथ तीर्थेषु गये चामरकण्टके
नैमिषादिषु तीर्थेषु क्षेत्रेष्व् आयतनेषु च ॥

65.96

यत् फलं स्नानदानेन राहुग्रस्ते दिवाकरे
दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम् ॥

65.97

अथ किं पुनर् उक्तेन भाषितेन पुनः पुनः
यत् किंचित् कथितं चात्र फलं पुण्यस्य कर्मणः ॥

65.98

वेदशास्त्रे पुराणे च भारते च द्विजोत्तमाः
धर्मशास्त्रेषु सर्वेषु तथान्यत्र मनीषिभिः ॥

65.99

दृष्ट्वा नरो लभेत् कृष्णं तत् फलं सहलायुधम्
सकलं भद्रया सार्धं व्रजन्तं दक्षिणामुखम् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc