ब्रह्म पुराण · अध्याय 63
ततो गच्छेद् द्विजश्रेष्ठास् तीर्थं यज्ञाङ्गसंभवम्
इन्द्रद्युम्नसरो नाम यत्रास्ते पावनं शुभम् ॥
गत्वा तत्र शुचिर् धीमान् आचम्य मनसा हरिम्
ध्यात्वोपस्थाय च जलम् इमं मन्त्रम् उदीरयेत् ॥
अश्वमेधाङ्गसंभूत तीर्थ सर्वाघनाशन
स्नानं त्वयि करोम्य् अद्य पापं हर नमो ऽस्तु ते ॥
एवम् उच्चार्य विधिवत् स्नात्वा देवान् ऋषीन् पितॄन्
तिलोदकेन चान्यांश् च संतर्प्याचम्य वाग्यतः ॥
दत्त्वा पितॄणां पिण्डांश् च संपूज्य पुरुषोत्तमम्
दशाश्वमेधिकं सम्यक् फलं प्राप्नोति मानवः ॥
सप्तावरान् सप्त परान् वंशान् उद्धृत्य देववत्
कामगेन विमानेन विष्णुलोकं स गच्छति ॥
भुक्त्वा तत्र सुखान् भोगान् यावच् चन्द्रार्कतारकम्
च्युतस् तस्माद् इहायातो मोक्षं च लभते ध्रुवम् ॥
एवं कृत्वा पञ्चतीर्थीम् एकादश्याम् उपोषितः
ज्येष्ठशुक्लपञ्चदश्यां यः पश्येत् पुरुषोत्तमम् ॥
स पूर्वोक्तं फलं प्राप्य क्रीडित्वा वाच्युतालये
प्रयाति परमं स्थानं यस्मान् नावर्तते पुनः ॥
मासान् अन्यान् परित्यज्य माघादीन् प्रपितामह
प्रशंससि कथं ज्येष्ठं ब्रूहि तत्कारणं प्रभो ॥
शृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः
ज्येष्ठं मासं यथा तेभ्यः प्रशंसामि पुनः पुनः ॥
पृथिव्यां यानि तीर्थानि सरितश् च सरांसि च
पुष्करिण्यस् तडागानि वाप्यः कूपास् तथा ह्रदाः ॥
नानानद्यः समुद्राश् च सप्ताहं पुरुषोत्तमे
ज्येष्ठशुक्लदशम्यादि प्रत्यक्षं यान्ति सर्वदा ॥
स्नानदानादिकं तस्माद् देवताप्रेक्षणं द्विजाः
यत् किंचित् क्रियते तत्र तस्मिन् काले ऽक्षयं भवेत् ॥
शुक्लपक्षस्य दशमी ज्येष्ठे मासि द्विजोत्तमाः
हरते दश पापानि तस्माद् दशहरा स्मृता ॥
यस् तस्यां हलिनं कृष्णं पश्येद् भद्रां सुसंयतः
सर्वपापविनिर्मुक्तो विष्णुलोकं व्रजेन् नरः ॥
उत्तरे दक्षिणे विप्रास् त्व् अयने पुरुषोत्तमम्
दृष्ट्वा रामं सुभद्रां च विष्णुलोकं व्रजेन् नरः ॥
नरो दोलागतं दृष्ट्वा गोविन्दं पुरुषोत्तमम्
फाल्गुन्यां प्रयतो भूत्वा गोविन्दस्य पुरं व्रजेत् ॥
विषुवद्दिवसे प्राप्ते पञ्चतीर्थीं विधानतः
कृत्वा संकर्षणं कृष्णं दृष्ट्वा भद्रां च भो द्विजाः ॥
नरः समस्तयज्ञानां फलं प्राप्नोति दुर्लभम्
विमुक्तः सर्वपापेभ्यो विष्णुलोकं च गच्छति ॥
यः पश्यति तृतीयायां कृष्णं चन्दनरूषितम्
वैशाखस्यासिते पक्षे स यात्य् अच्युतमन्दिरम् ॥
ज्यैष्ठ्यां ज्येष्ठर्क्षयुक्तायां यः पश्येत् पुरुषोत्तमम्
कुलैकविंशम् उद्धृत्य विष्णुलोकं स गच्छति ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0