भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 62

62.1

एवं संपूज्य विधिवद् भक्त्या तं पुरुषोत्तमम्
प्रणम्य शिरसा पश्चात् सागरं च प्रसादयेत् ॥

62.2

प्राणस् त्वं सर्वभूतानां योनिश् च सरितां पते
तीर्थराज नमस् ते ऽस्तु त्राहि माम् अच्युतप्रिय ॥

62.3

स्नात्वैवं सागरे सम्यक् तस्मिन् क्षेत्रवरे द्विजाः
तीरे चाभ्यर्च्य विधिवन् नारायणम् अनामयम् ॥

62.4

रामं कृष्णं सुभद्रां च प्रणिपत्य च सागरम्
शतानाम् अश्वमेधानां फलं प्राप्नोति मानवः ॥

62.5

सर्वपापविनिर्मुक्तः सर्वदुःखविवर्जितः
वृन्दारक इव श्रीमान् रूपयौवनगर्वितः ॥

62.6

विमानेनार्कवर्णेन दिव्यगन्धर्वनादिना
कुलैकविंशम् उद्धृत्य विष्णुलोकं स गच्छति ॥

62.7

भुक्त्वा तत्र वरान् भोगान् क्रीडित्वा चाप्सरैः सह
मन्वन्तरशतं साग्रं जरामृत्युविवर्जितः ॥

62.8

पुण्यक्षयाद् इहायातः कुले सर्वगुणान्विते
रूपवान् सुभगः श्रीमान् सत्यवादी जितेन्द्रियः ॥

62.9

वेदशास्त्रार्थविद् विप्रो भवेद् यज्वा तु वैष्णवः
योगं च वैष्णवं प्राप्य ततो मोक्षम् अवाप्नुयात् ॥

62.10

ग्रहोपरागे संक्रान्त्याम् अयने विषुवे तथा
युगादिषु षडशीत्यां व्यतीपाते दिनक्षये ॥

62.11

आषाढ्यां चैव कार्त्तिक्यां माघ्यां वान्ये शुभे तिथौ
ये तत्र दानं विप्रेभ्यः प्रयच्छन्ति सुमेधसः ॥

62.12

फलं सहस्रगुणितम् अन्यतीर्थाल् लभन्ति ते
पितॄणां ये प्रयच्छन्ति पिण्डं तत्र विधानतः ॥

62.13

अक्षयां पितरस् तेषां तृप्तिं संप्राप्नुवन्ति वै
एवं स्नानफलं सम्यक् सागरस्य मयोदितम् ॥

62.14

दानस्य च फलं विप्राः पिण्डदानस्य चैव हि
धर्मार्थमोक्षफलदम् आयुष्कीर्तियशस्करम् ॥

62.15

भुक्तिमुक्तिफलं नॄणां धन्यं दुःस्वप्ननाशनम्
सर्वपापहरं पुण्यं सर्वकामफलप्रदम् ॥

62.16

नास्तिकाय न वक्तव्यं पुराणं च द्विजोत्तमाः
तावद् गर्जन्ति तीर्थानि माहात्म्यैः स्वैः पृथक् पृथक् ॥

62.17

यावन् न तीर्थराजस्य माहात्म्यं वर्ण्यते द्विजाः
पुष्करादीनि तीर्थानि प्रयच्छन्ति स्वकं फलम् ॥

62.18

तीर्थराजस् तु स पुनः सर्वतीर्थफलप्रदः
भूतले यानि तीर्थानि सरितश् च सरांसि च ॥

62.19

विशन्ति सागरे तानि तेनासौ श्रेष्ठतां गतः
राजा समस्ततीर्थानां सागरः सरितां पतिः ॥

62.20

तस्मात् समस्ततीर्थेभ्यः श्रेष्ठो ऽसौ सर्वकामदः
तमो नाशं यथाभ्येति भास्करे ऽभ्युदिते द्विजाः ॥

62.21

स्नानेन तीर्थराजस्य तथा पापस्य संक्षयः
तीर्थराजसमं तीर्थं न भूतं न भविष्यति ॥

62.22

अधिष्ठानं यदा यत्र प्रभोर् नारायणस्य वै
कः शक्नोति गुणान् वक्तुं तीर्थराजस्य भो द्विजाः ॥

62.23

कोट्यो नवनवत्यस् तु यत्र तीर्थानि सन्ति वै
तस्मात् स्नानं च दानं च होमं जप्यं सुरार्चनम्
यत् किंचित् क्रियते तत्र चाक्षयं क्रियते द्विजाः ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc