भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 61

61.1

देवान् पितॄंस् तथा चान्यान् संतर्प्याचम्य वाग्यतः
हस्तमात्रं चतुष्कोणं चतुर्द्वारं सुशोभनम् ॥

61.2

पुरं विलिख्य भो विप्रास् तीरे तस्य महोदधेः
मध्ये तत्र लिखेत् पद्मम् अष्टपत्त्रं सकर्णिकम् ॥

61.3

एवं मण्डलम् आलिख्य पूजयेत् तत्र भो द्विजाः
अष्टाक्षरविधानेन नारायणम् अजं विभुम् ॥

61.4

अतः परं प्रवक्ष्यामि कायशोधनम् उत्तमम्
अकारं हृदये ध्यात्वा चक्ररेखासमन्वितम् ॥

61.5

ज्वलन्तं त्रिशिखं चैव दहन्तं पापनाशनम्
चन्द्रमण्डलमध्यस्थं राकारं मूर्ध्नि चिन्तयेत् ॥

61.6

शुक्लवर्णं प्रवर्षन्तम् अमृतं प्लावयन् महीम्
एवं निर्धूतपापस् तु दिव्यदेहस् ततो भवेत् ॥

61.7

अष्टाक्षरं ततो मन्त्रं न्यसेद् एवात्मनो बुधः
वामपादं समारभ्य क्रमशश् चैव विन्यसेत् ॥

61.8

पञ्चाङ्गं वैष्णवं चैव चतुर्व्यूहं तथैव च
करशुद्धिं प्रकुर्वीत मूलमन्त्रेण साधकः ॥

61.9

एकैकं चैव वर्णं तु अङ्गुलीषु पृथक् पृथक्
ओंकारं पृथिवीं शुक्लां वामपादे तु विन्यसेत् ॥

61.10

नकारः शांभवः श्यामो दक्षिणे तु व्यवस्थितः
मोकारं कालम् एवाहुर् वामकट्यां निधापयेत् ॥

61.11

नाकारः सर्वबीजं तु दक्षिणस्यां व्यवस्थितः
राकारस् तेज इत्य् आहुर् नाभिदेशे व्यवस्थितः ॥

61.12

वायव्यो ऽयं यकारस् तु वामस्कन्धे समाश्रितः
णाकारः सर्वगो ज्ञेयो दक्षिणांसे व्यवस्थितः
यकारो ऽयं शिरस्थश् च यत्र लोकाः प्रतिष्ठिताः ॥

61.14

ममाग्रे ऽवस्थितो विष्णुः पृष्ठतश् चापि केशवः
गोविन्दो दक्षिणे पार्श्वे वामे तु मधुसूदनः ॥

61.15

उपरिष्टात् तु वैकुण्ठो वाराहः पृथिवीतले
अवान्तरदिशो यास् तु तासु सर्वासु माधवः ॥

61.16

गच्छतस् तिष्ठतो वापि जाग्रतः स्वपतो ऽपि वा
नरसिंहकृता गुप्तिर् वासुदेवमयो ह्य् अहम् ॥

61.17

एवं विष्णुमयो भूत्वा ततः कर्म समारभेत्
यथा देहे तथा देवे सर्वतत्त्वानि योजयेत् ॥

61.18

ततश् चैव प्रकुर्वीत प्रोक्षणं प्रणवेन तु
फट्कारान्तं समुद्दिष्टं सर्वविघ्नहरं शुभम् ॥

61.19

तत्रार्कचन्द्रवह्नीनां मण्डलानि विचिन्तयेत्
पद्ममध्ये न्यसेद् विष्णुं पवनस्याम्बरस्य च ॥

61.20

ततो विचिन्त्य हृदय ओंकारं ज्योतीरूपिणम्
कर्णिकायां समासीनं ज्योतीरूपं सनातनम् ॥

61.21

अष्टाक्षरं ततो मन्त्रं विन्यसेच् च यथाक्रमम्
तेन व्यस्तसमस्तेन पूजनं परमं स्मृतम् ॥

61.22

द्वादशाक्षरमन्त्रेण यजेद् देवं सनातनम्
ततो ऽवधार्य हृदये कर्णिकायां बहिर् न्यसेत् ॥

61.23

चतुर्भुजं महासत्त्वं सूर्यकोटिसमप्रभम्
चिन्तयित्वा महायोगं ज्योतीरूपं सनातनम्
ततश् चावाहयेन् मन्त्रं क्रमेणाचिन्त्य मानसे ॥

61.25

कर्णिकायां सुपीठे ऽत्र पद्मकल्पितम् आसनम्
सर्वसत्त्वहितार्थाय तिष्ठ त्वं मधुसूदन ॥

61.27

ओं पाद्यं पादयोर् देव पद्मनाभ सनातन
विष्णो कमलपत्त्राक्ष गृहाण मधुसूदन ॥

61.28

मधुपर्कं महादेव ब्रह्माद्यैः कल्पितं तव
मया निवेदितं भक्त्या गृहाण पुरुषोत्तम ॥

61.29

मन्दाकिन्याः सितं वारि सर्वपापहरं शिवम्
गृहाणाचमनीयं त्वं मया भक्त्या निवेदितम् ॥

61.30

त्वम् आपः पृथिवी चैव ज्योतिस् त्वं वायुर् एव च
लोकेश वृत्तिमात्रेण वारिणा स्नापयाम्य् अहम् ॥

61.31

देवतत्त्वसमायुक्त यज्ञवर्णसमन्वित
स्वर्णवर्णप्रभे देव वाससी तव केशव ॥

61.32

शरीरं ते न जानामि चेष्टां चैव च केशव
मया निवेदितो गन्धः प्रतिगृह्य विलिप्यताम् ॥

61.33

ऋग्यजुःसाममन्त्रेण त्रिवृतं पद्मयोनिना
सावित्रीग्रन्थिसंयुक्तम् उपवीतं तवार्पये ॥

61.34

दिव्यरत्नसमायुक्त वह्निभानुसमप्रभ
गात्राणि तव शोभन्तु सालंकाराणि माधव ॥

61.35

ओं नम इति प्रत्यक्षरं समस्तेन मूलमन्त्रेण वा पूजयेत् ॥

61.36

वनस्पतिरसो दिव्यो गन्धाढ्यः सुरभिश् च ते
मया निवेदितो भक्त्या धूपो ऽयं प्रतिगृह्यताम् ॥

61.37

सूर्यचन्द्रसमो ज्योतिर् विद्युदग्न्योस् तथैव च
त्वम् एव ज्योतिषां देव दीपो ऽयं प्रतिगृह्यताम् ॥

61.38

अन्नं चतुर्विधं चैव रसैः षड्भिः समन्वितम्
मया निवेदितं भक्त्या नैवेद्यं तव केशव ॥

61.39

पूर्वे दले वासुदेवं याम्ये संकर्षणं न्यसेत्
प्रद्युम्नं पश्चिमे कुर्याद् अनिरुद्धं तथोत्तरे ॥

61.40

वाराहं च तथाग्नेये नरसिंहं च नैरृते
वायव्ये माधवं चैव तथैशाने त्रिविक्रमम् ॥

61.41

तथाष्टाक्षरदेवस्य गरुडं पुरतो न्यसेत्
वामपार्श्वे तथा चक्रं शङ्खं दक्षिणतो न्यसेत् ॥

61.42

तथा महागदां चैव न्यसेद् देवस्य दक्षिणे
ततः शार्ङ्गं धनुर् विद्वान् न्यसेद् देवस्य वामतः ॥

61.43

दक्षिणेनेषुधी दिव्ये खड्गं वामे च विन्यसेत्
श्रियं दक्षिणतः स्थाप्य पुष्टिम् उत्तरतो न्यसेत् ॥

61.44

वनमालां च पुरतस् ततः श्रीवत्सकौस्तुभौ
विन्यसेद् धृदयादीनि पूर्वादिषु चतुर्दिशम् ॥

61.45

ततो ऽस्त्रं देवदेवस्य कोणे चैव तु विन्यसेत्
इन्द्रम् अग्निं यमं चैव नैरृतं वरुणं तथा ॥

61.46

वायुं धनदम् ईशानम् अनन्तं ब्रह्मणा सह
पूजयेत् तान्त्रिकैर् मन्त्रैर् अधश् चोर्ध्वं तथैव च ॥

61.47

एवं संपूज्य देवेशं मण्डलस्थं जनार्दनम्
लभेद् अभिमतान् कामान् नरो नास्त्य् अत्र संशयः ॥

61.48

अनेनैव विधानेन मण्डलस्थं जनार्दनम्
पूजितं यः संपश्येत स विशेद् विष्णुम् अव्ययम् ॥

61.49

सकृद् अप्य् अर्चितो येन विधिनानेन केशवः
जन्ममृत्युजरां तीर्त्वा स विष्णोः पदम् आप्नुयात् ॥

61.50

यः स्मरेत् सततं भक्त्या नारायणम् अतन्द्रितः
अन्वहं तस्य वासाय श्वेतद्वीपः प्रकल्पितः ॥

61.51

ओंकारादिसमायुक्तं नमःकारान्तदीपितम्
तन्नाम सर्वतत्त्वानां मन्त्र इत्य् अभिधीयते ॥

61.52

अनेनैव विधानेन गन्धपुष्पं निवेदयेत्
एकैकस्य प्रकुर्वीत यथोद्दिष्टं क्रमेण तु ॥

61.53

मुद्रास् ततो निबध्नीयाद् यथोक्तक्रमचोदिताः
जपं चैव प्रकुर्वीत मूलमन्त्रेण मन्त्रवित् ॥

61.54

अष्टाविंशतिम् अष्टौ वा शतम् अष्टोत्तरं तथा
कामेषु च यथाप्रोक्तं यथाशक्ति समाहितः ॥

61.55

पद्मं शङ्खश् च श्रीवत्सो गदा गरुड एव च
चक्रं खड्गश् च शार्ङ्गं च अष्टौ मुद्राः प्रकीर्तिताः ॥

61.56

गच्छ गच्छ परं स्थानं पुराणपुरुषोत्तम
यत्र ब्रह्मादयो देवा विन्दन्ति परमं पदम् ॥

61.57

अर्चनं ये न जानन्ति हरेर् मन्त्रैर् यथोदितम्
ते तत्र मूलमन्त्रेण पूजयन्त्व् अच्युतं सदा ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc