ब्रह्म पुराण · अध्याय 59
अनन्ताख्यं वासुदेवं दृष्ट्वा भक्त्या प्रणम्य च
सर्वपापविनिर्मुक्तो नरो याति परं पदम् ॥
मया चाराधितश् चासौ शक्रेण तदनन्तरम्
विभीषणेन रामेण कस् तं नाराधयेत् पुमान् ॥
श्वेतगङ्गां नरः स्नात्वा यः पश्येच् छ्वेतमाधवम्
मत्स्याख्यं माधवं चैव श्वेतद्वीपं स गच्छति ॥
श्वेतमाधवमाहात्म्यं वक्तुम् अर्हस्य् अशेषतः
विस्तरेण जगन्नाथ प्रतिमां तस्य वै हरेः ॥
तस्मिन् क्षेत्रवरे पुण्ये विख्याते जगतीतले
श्वेताख्यं माधवं देवं कस् तं स्थापितवान् पुरा ॥
अभूत् कृतयुगे विप्राः श्वेतो नाम नृपो बली
मतिमान् धर्मविच् छूरः सत्यसंधो दृढव्रतः ॥
यस्य राज्ये तु वर्षाणां सहस्रं दश मानवाः
भवन्त्य् आयुष्मन्तो लोका बालस् तस्मिन् न सीदति ॥
वर्तमाने तदा राज्ये किंचित् काले गते द्विजाः
कपालगौतमो नाम ऋषिः परमधार्मिकः ॥
सुतो ऽस्याजातदन्तश् च मृतः कालवशाद् द्विजाः
तम् आदाय ऋषिर् धीमान् नृपस्यान्तिकम् आनयत् ॥
दृष्ट्वैवं नृपतिः सुप्तं कुमारं गतचेतसम्
प्रतिज्ञाम् अकरोद् विप्रा जीवनार्थं शिशोस् तदा ॥
यावद् बालम् अहं त्व् एनं यमस्य सदने गतम्
नानये सप्तरात्रेण चितां दीप्तां समारुहे ॥
एवम् उक्त्वासितैः पद्मैः शतैर् दशशतादिकैः
संपूज्य च महादेवं राजा विद्यां पुनर् जपेत् ॥
अतिभक्तिं तु संचिन्त्य नृपस्य जगदीश्वरः
सांनिध्यम् अगमत् तुष्टो श्मीत्य् उवाच सहोमया ॥
श्रुत्वैवं गिरम् ईशस्य विलोक्य सहसा हरम्
भस्मदिग्धं विरूपाक्षं शरत्कुन्देन्दुवर्चसम् ॥
शार्दूलचर्मवसनं शशाङ्काङ्कितमूर्धजम्
महीं निपत्य सहसा प्रणम्य स तदाब्रवीत् ॥
कारुण्यं यदि मे दृष्ट्वा प्रसन्नो ऽसि प्रभो यदि
कालस्य वशम् आपन्नो बालको द्विजपुत्रकः ॥
जीवत्व् एष पुनर् बाल इत्य् एवं व्रतम् आहितम्
अकस्माच् च मृतं बालं नियम्य भगवन् स्वयम्
यथोक्तायुष्यसंयुक्तं क्षेमं कुरु महेश्वर ॥
श्वेतस्यैतद् वचः श्रुत्वा मुदं प्राप हरस् तदा
कालम् आज्ञापयाम् आस सर्वभूतभयंकरम् ॥
नियम्य कालं दुर्धर्षं यमस्याज्ञाकरं द्विजाः
बालं संजीवयाम् आस मृत्योर् मुखगतं पुनः ॥
कृत्वा क्षेमं जगत् सर्वं मुनेः पुत्रं स तं द्विजाः
देव्या सहोमया देवस् तत्रैवान्तरधीयत ॥
एवं संजीवयाम् आस मुनेः पुत्रं नृपोत्तमः ॥
देवदेव जगन्नाथ त्रैलोक्यप्रभवाव्यय
ब्रूहि नः परमं तथ्यं श्वेताख्यस्य च सांप्रतम् ॥
शृणुध्वं मुनिशार्दूलाः सर्वसत्त्वहितावहम्
प्रवक्ष्यामि यथातथ्यं यत् पृच्छथ ममानघाः ॥
माधवस्य च माहात्म्यं सर्वपापप्रणाशनम्
यच् छ्रुत्वाभिमतान् कामान् ध्रुवं प्राप्नोति मानवः ॥
श्रुतवान् ऋषिभिः पूर्वं माधवाख्यस्य भो द्विजाः
शृणुध्वं तां कथां दिव्यां भयशोकार्तिनाशिनीम् ॥
स कृत्वा राज्यम् एकाग्र्यं वर्षाणां च सहस्रशः
विचार्य लौकिकान् धर्मान् वैदिकान् नियमांस् तथा ॥
केशवाराधने विप्रा निश्चितं व्रतम् आस्थितः
स गत्वा परमं क्षेत्रं सागरं दक्षिणाश्रयम् ॥
तटे तस्मिञ् शुभे रम्ये देशे कृष्णस्य चान्तिके
श्वेतो ऽथ कारयाम् आस प्रासादं शुभलक्षणम् ॥
धन्वन्तरशतं चैकं देवदेवस्य दक्षिणे
ततः श्वेतेन विप्रेन्द्राः श्वेतशैलमयेन च ॥
कृतः स भगवाञ् श्वेतो माधवश् चन्द्रसंनिभः
प्रतिष्ठां विधिवच् चक्रे यथोद्दिष्टां स्वयं तु सः ॥
दत्त्वा दानं द्विजातिभ्यो दीनानाथतपस्विनाम्
अथानन्तरतो राजा माधवस्य च संनिधौ ॥
महीं निपत्य सहसा ओंकारं द्वादशाक्षरम्
जपन् स मौनम् आस्थाय मासम् एकं समाधिना ॥
निराहारो महाभागः सम्यग् विष्णुपदे स्थितः
जपान्ते स तु देवेशं संस्तोतुम् उपचक्रमे ॥
ओं नमो वासुदेवाय नमः संकर्षणाय च
प्रद्युम्नायानिरुद्धाय नमो नारायणाय च ॥
नमो ऽस्तु बहुरूपाय विश्वरूपाय वेधसे
निर्गुणायाप्रतर्क्याय शुचये शुक्लकर्मणे ॥
ओं नमः पद्मनाभाय पद्मगर्भोद्भवाय च
नमो ऽस्तु पद्मवर्णाय पद्महस्ताय ते नमः ॥
ओं नमः पुष्कराक्षाय सहस्राक्षाय मीढुषे
नमः सहस्रपादाय सहस्रभुजमन्यवे ॥
ओं नमो ऽस्तु वराहाय वरदाय सुमेधसे
वरिष्ठाय वरेण्याय शरण्यायाच्युताय च ॥
ओं नमो बालरूपाय बालपद्मप्रभाय च
बालार्कसोमनेत्राय मुञ्जकेशाय धीमते ॥
केशवाय नमो नित्यं नमो नारायणाय च
माधवाय वरिष्ठाय गोविन्दाय नमो नमः ॥
ओं नमो विष्णवे नित्यं देवाय वसुरेतसे
मधुसूदनाय नमः शुद्धायांशुधराय च ॥
नमो अनन्ताय सूक्ष्माय नमः श्रीवत्सधारिणे
त्रिविक्रमाय च नमो दिव्यपीताम्बराय च ॥
सृष्टिकर्त्रे नमस् तुभ्यं गोप्त्रे धात्रे नमो नमः
नमो ऽस्तु गुणभूताय निर्गुणाय नमो नमः ॥
नमो वामनरूपाय नमो वामनकर्मणे
नमो वामननेत्राय नमो वामनवाहिने ॥
नमो रम्याय पूज्याय नमो ऽस्त्व् अव्यक्तरूपिणे
अप्रतर्क्याय शुद्धाय नमो भयहराय च ॥
संसारार्णवपोताय प्रशान्ताय स्वरूपिणे
शिवाय सौम्यरूपाय रुद्रायोत्तारणाय च ॥
भवभङ्गकृते चैव भवभोगप्रदाय च
भवसंघातरूपाय भवसृष्टिकृते नमः ॥
ओं नमो दिव्यरूपाय सोमाग्निश्वसिताय च
सोमसूर्यांशुकेशाय गोब्राह्मणहिताय च ॥
ओं नम ऋक्स्वरूपाय पदक्रमस्वरूपिणे
ऋक्स्तुताय नमस् तुभ्यं नम ऋक्साधनाय च ॥
ओं नमो यजुषां धात्रे यजूरूपधराय च
यजुर्याज्याय जुष्टाय यजुषां पतये नमः ॥
ओं नमः श्रीपते देव श्रीधराय वराय च
श्रियः कान्ताय दान्ताय योगिचिन्त्याय योगिने ॥
ओं नमः सामरूपाय सामध्वनिवराय च
ओं नमः सामसौम्याय सामयोगविदे नमः ॥
साम्ने च सामगीताय ओं नमः सामधारिणे
सामयज्ञविदे चैव नमः सामकराय च ॥
नमस् त्व् अथर्वशिरसे नमो ऽथर्वस्वरूपिणे
नमो ऽस्त्व् अथर्वपादाय नमो ऽथर्वकराय च ॥
ओं नमो वज्रशीर्षाय मधुकैटभघातिने
महोदधिजलस्थाय वेदाहरणकारिणे ॥
नमो दीप्तस्वरूपाय हृषीकेशाय वै नमः
नमो भगवते तुभ्यं वासुदेवाय ते नमः ॥
नारायण नमस् तुभ्यं नमो लोकहिताय च
ओं नमो मोहनाशाय भवभङ्गकराय च ॥
गतिप्रदाय च नमो नमो बन्धहराय च
त्रैलोक्यतेजसां कर्त्रे नमस् तेजःस्वरूपिणे ॥
योगीश्वराय शुद्धाय रामायोत्तरणाय च
सुखाय सुखनेत्राय नमः सुकृतधारिणे ॥
वासुदेवाय वन्द्याय वामदेवाय वै नमः
देहिनां देहकर्त्रे च भेदभङ्गकराय च ॥
देवैर् वन्दितदेहाय नमस् ते दिव्यमौलिने
नमो वासनिवासाय वासव्यवहराय च ॥
ओं नमो वसुकर्त्रे च वसुवासप्रदाय च
नमो यज्ञस्वरूपाय यज्ञेशाय च योगिने ॥
यतियोगकरेशाय नमो यज्ञाङ्गधारिणे
संकर्षणाय च नमः प्रलम्बमथनाय च ॥
मेघघोषस्वनोत्तीर्ण वेगलाङ्गलधारिणे
नमो ऽस्तु ज्ञानिनां ज्ञान नारायणपरायण ॥
न मे ऽस्ति त्वाम् ऋते बन्धुर् नरकोत्तारणे प्रभो
अतस् त्वां सर्वभावेन प्रणतो नतवत्सल ॥
मलं यत् कायजं वापि मानसं चैव केशव
न तस्यान्यो ऽस्ति देवेश क्षालकस् त्वाम् ऋते ऽच्युत ॥
संसर्गाणि समस्तानि विहाय त्वाम् उपस्थितः
सङ्गो मे ऽस्तु त्वया सार्धम् आत्मलाभाय केशव ॥
कष्टम् आपत् सुदुष्पारं संसारं वेद्मि केशव
तापत्रयपरिक्लिष्टस् तेन त्वां शरणं गतः ॥
एषणाभिर् जगत् सर्वं मोहितं मायया तव
आकर्षितं च लोभाद्यैर् अतस् त्वाम् अहम् आश्रितः ॥
नास्ति किंचित् सुखं विष्णो संसारस्थस्य देहिनः
यथा यथा हि यज्ञेश त्वयि चेतः प्रवर्तते ॥
तथा फलविहीनं तु सुखम् आत्यन्तिकं लभेत्
नष्टो विवेकशून्यो ऽस्मि दृश्यते जगद् आतुरम् ॥
गोविन्द त्राहि संसारान् माम् उद्धर्तुं त्वम् अर्हसि
मग्नस्य मोहसलिले निरुत्तारे भवार्णवे
उद्धर्ता पुण्डरीकाक्ष त्वाम् ऋते ऽन्यो न विद्यते ॥
इत्थं स्तुतस् ततस् तेन राज्ञा श्वेतेन भो द्विजाः
तस्मिन् क्षेत्रवरे दिव्ये विख्याते पुरुषोत्तमे ॥
भक्तिं तस्य तु संचिन्त्य देवदेवो जगद्गुरुः
आजगाम नृपस्याग्रे सर्वैर् देवैर् वृतो हरिः ॥
नीलजीमूतसंकाशः पद्मपत्त्रायतेक्षणः
दधत् सुदर्शनं धीमान् कराग्रे दीप्तमण्डलम् ॥
क्षीरोदजलसंकाशो विमलश् चन्द्रसंनिभः
रराज वामहस्ते ऽस्य पाञ्चजन्यो महाद्युतिः ॥
पक्षिराजध्वजः श्रीमान् गदाशार्ङ्गासिधृक् प्रभुः
उवाच साधु भो राजन् यस्य ते मतिर् उत्तमा
यद् इष्टं वर भद्रं ते प्रसन्नो ऽस्मि तवानघ ॥
श्रुत्वैवं देवदेवस्य वाक्यं तत् परमामृतम्
प्रणम्य शिरसोवाच श्वेतस् तद्गतमानसः ॥
यद्य् अहं भगवन् भक्तः प्रयच्छ वरम् उत्तमम्
आब्रह्मभवनाद् ऊर्ध्वं वैष्णवं पदम् अव्ययम् ॥
विमलं विरजं शुद्धं संसारासङ्गवर्जितम्
तत् पदं गन्तुम् इच्छामि त्वत्प्रसादाज् जगत्पते ॥
यत् पदं विबुधाः सर्वे मुनयः सिद्धयोगिनः
नाभिगच्छन्ति यद् रम्यं परं पदम् अनामयम् ॥
यास्यसि परमं स्थानं राज्यामृतम् उपास्य च
सर्वांल् लोकान् अतिक्रम्य मम लोकं गमिष्यसि ॥
कीर्तिस् तवात्र राजेन्द्र त्रींल् लोकांश् च गमिष्यति
सांनिध्यं मम चैवात्र सर्वदैव भविष्यति ॥
श्वेतगङ्गेति गास्यन्ति सर्वे ते देवदानवाः
कुशाग्रेणापि राजेन्द्र श्वेतगाङ्गेयम् अम्बु च ॥
स्पृष्ट्वा स्वर्गं गमिष्यन्ति मद्भक्ता ये समाहिताः
यस् त्व् इमां प्रतिमां गच्छेन् माधवाख्यां शशिप्रभाम् ॥
शङ्खगोक्षीरसंकाशाम् अशेषाघविनाशिनीम्
तां प्रणम्य सकृद् भक्त्या पुण्डरीकनिभेक्षणाम् ॥
विहाय सर्वलोकान् वै मम लोके महीयते
मन्वन्तराणि तत्रैव देवकन्याभिर् आवृतः ॥
गीयमानश् च मधुरं सिद्धगन्धर्वसेवितः
भुनक्ति विपुलान् भोगान् यथेष्टं मामकैः सह ॥
च्युतस् तस्माद् इहागत्य मनुष्यो ब्राह्मणो भवेत्
वेदवेदाङ्गविच् छ्रीमान् भोगवांश् चिरजीवितः ॥
गजाश्वरथयानाढ्यो धनधान्यावृतः शुचिः
रूपवान् बहुभाग्यश् च पुत्रपौत्रसमन्वितः ॥
पुरुषोत्तमं पुनः प्राप्य वटमूले ऽथ सागरे
त्यक्त्वा देहं हरिं स्मृत्वा ततः शान्तपदं व्रजेत् ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0