भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 58

58.1

एवं दृष्ट्वा बलं कृष्णं सुभद्रां प्रणिपत्य च
धर्मं चार्थं च कामं च मोक्षं च लभते ध्रुवम् ॥

58.2

निष्क्रम्य देवतागारात् कृतकृत्यो भवेन् नरः
प्रणम्यायतनं पश्चाद् व्रजेत् तत्र समाहितः ॥

58.3

इन्द्रनीलमयो विष्णुर् यत्रास्ते वालुकावृतः
अन्तर्धानगतं नत्वा ततो विष्णुपुरं व्रजेत् ॥

58.4

सर्वदेवमयो यो ऽसौ हतवान् असुरोत्तमम्
स आस्ते तत्र भो विप्राः सिंहार्धकृतविग्रहः ॥

58.5

भक्त्या दृष्ट्वा तु तं देवं प्रणम्य नरकेसरीम्
मुच्यते पातकैर् मर्त्यः समस्तैर् नात्र संशयः ॥

58.6

नरसिंहस्य ये भक्ता भवन्ति भुवि मानवाः
न तेषां दुष्कृतं किंचित् फलं स्याद् यद् यद् ईप्सितम् ॥

58.7

तस्मात् सर्वप्रयत्नेन नरसिंहं समाश्रयेत्
धर्मार्थकाममोक्षाणां फलं यस्मात् प्रयच्छति ॥

58.8

माहात्म्यं नरसिंहस्य सुखदं भुवि दुर्लभम्
यथा कथयसे देव तेन नो विस्मयो महान् ॥

58.9

प्रभावं तस्य देवस्य विस्तरेण जगत्पते
श्रोतुम् इच्छामहे ब्रूहि परं कौतूहलं हि नः ॥

58.10

यथा प्रसीदेद् देवो ऽसौ नरसिंहो महाबलः
भक्तानाम् उपकाराय ब्रूहि देव नमो ऽस्तु ते ॥

58.11

प्रसादान् नरसिंहस्य या भवन्त्य् अत्र सिद्धयः
ब्रूहि ताः कुरु चास्माकं प्रसादं प्रपितामह ॥

58.12

शृणुध्वं तस्य भो विप्राः प्रभावं गदतो मम
अजितस्याप्रमेयस्य भुक्तिमुक्तिप्रदस्य च ॥

58.13

कः शक्नोति गुणान् वक्तुं समस्तांस् तस्य भो द्विजाः
सिंहार्धकृतदेहस्य प्रवक्ष्यामि समासतः ॥

58.14

याः काश्चित् सिद्धयश् चात्र श्रूयन्ते दैवमानुषाः
प्रसादात् तस्य ताः सर्वाः सिध्यन्ति नात्र संशयः ॥

58.15

स्वर्गे मर्त्ये च पाताले दिक्षु तोये पुरे नगे
प्रसादात् तस्य देवस्य भवत्य् अव्याहता गतिः ॥

58.16

असाध्यं तस्य देवस्य नास्त्य् अत्र सचराचरे
नरसिंहस्य भो विप्राः सदा भक्तानुकम्पिनः ॥

58.17

विधानं तस्य वक्ष्यामि भक्तानाम् उपकारकम्
येन प्रसीदेच् चैवासौ सिंहार्धकृतविग्रहः ॥

58.18

शृणुध्वं मुनिशार्दूलाः कल्पराजं सनातनम्
नरसिंहस्य तत्त्वं च यन् न ज्ञातं सुरासुरैः ॥

58.19

शाकयावकमूलैस् तु फलपिण्याकसक्तुकैः
पयोभक्षेण विप्रेन्द्रा वर्तयेत् साधकोत्तमः ॥

58.20

कोशकौपीनवासाश् च ध्यानयुक्तो जितेन्द्रियः
अरण्ये विजने देशे पर्वते सिन्धुसंगमे ॥

58.21

ऊषरे सिद्धक्षेत्रे च नरसिंहाश्रमे तथा
प्रतिष्ठाप्य स्वयं वापि पूजां कृत्वा विधानतः ॥

58.22

द्वादश्यां शुक्लपक्षस्य उपोष्य मुनिपुंगवाः
जपेल् लक्षाणि वै विंशन् मनसा संयतेन्द्रियः ॥

58.23

उपपातकयुक्तश् च महापातकसंयुतः
मुक्तो भवेत् ततो विप्राः साधको नात्र संशयः ॥

58.24

कृत्वा प्रदक्षिणं तत्र नरसिंहं प्रपूजयेत्
पुण्यगन्धादिभिर् धूपैः प्रणम्य शिरसा प्रभुम् ॥

58.25

कर्पूरचन्दनाक्तानि जातीपुष्पाणि मस्तके
प्रदद्यान् नरसिंहस्य ततः सिद्धिः प्रजायते ॥

58.26

भगवान् सर्वकार्येषु न क्वचित् प्रतिहन्यते
तेजः सोढुं न शक्ताः स्युर् ब्रह्मरुद्रादयः सुराः ॥

58.27

किं पुनर् दानवा लोके सिद्धगन्धर्वमानुषाः
विद्याधरा यक्षगणाः सकिंनरमहोरगाः ॥

58.28

मन्त्रं यान् आसुरान् हन्तुं जपन्त्य् एके ऽन्यसाधकाः
ते सर्वे प्रलयं यान्ति दृष्ट्वादित्याग्निवर्चसः ॥

58.29

सकृज्जप्तं तु कवचं रक्षेत् सर्वम् उपद्रवम्
द्विर्जप्तं कवचं दिव्यं रक्षते देवदानवात् ॥

58.30

गन्धर्वाः किंनरा यक्षा विद्याधरमहोरगाः
भूताः पिशाचा रक्षांसि ये चान्ये परिपन्थिनः ॥

58.31

त्रिर्जप्तं कवचं दिव्यम् अभेद्यं च सुरासुरैः
द्वादशाभ्यन्तरे चैव योजनानां द्विजोत्तमाः ॥

58.32

रक्षते भगवान् देवो नरसिंहो महाबलः
ततो गत्वा बिलद्वारम् उपोष्य रजनीत्रयम् ॥

58.33

पलाशकाष्ठैः प्रज्वाल्य भगवन्तं हुताशनम्
पलाशसमिधस् तत्र जुहुयात् त्रिमधुप्लुताः ॥

58.34

द्वे शते द्विजशार्दूला वषट्कारेण साधकः
ततो विवरद्वारं तु प्रकटं जायते क्षणात् ॥

58.35

ततो विशेत् तु निःशङ्कं कवची विवरं बुधः
गच्छतः संकटं तस्य तमोमोहश् च नश्यति ॥

58.36

राजमार्गः सुविस्तीर्णो दृश्यते भ्रमराजितः
नरसिंहं स्मरंस् तत्र पातालं विशते द्विजाः ॥

58.37

गत्वा तत्र जपेत् तत्त्वं नरसिंहाख्यम् अव्ययम्
ततः स्त्रीणां सहस्राणि वीणावादनकर्मणाम् ॥

58.38

निर्गच्छन्ति पुरो विप्राः स्वागतं ता वदन्ति च
प्रवेशयन्ति ता हस्ते गृहीत्वा साधकेश्वरम् ॥

58.39

ततो रसायनं दिव्यं पाययन्ति द्विजोत्तमाः
पीतमात्रे दिव्यदेहो जायते सुमहाबलः ॥

58.40

क्रीडते सह कन्याभिर् यावद् आभूतसंप्लवम्
भिन्नदेहो वासुदेवे लीयते नात्र संशयः ॥

58.41

यदा न रोचते वासस् तस्मान् निर्गच्छते पुनः
पट्टं शूलं च खड्गं च रोचनां च मणिं तथा ॥

58.42

रसं रसायनं चैव पादुकाञ्जनम् एव च
कृष्णाजिनं मुनिश्रेष्ठा गुटिकां च मनोहराम् ॥

58.43

कमण्डलुं चाक्षसूत्रं यष्टिं संजीवनीं तथा
सिद्धविद्यां च शास्त्राणि गृहीत्वा साधकेश्वरः ॥

58.44

ज्वलद्वह्निस्फुलिङ्गोर्मि वेष्टितं त्रिशिखं हृदि
सकृन् न्यस्तं दहेत् सर्वं वृजिनं जन्मकोटिजम् ॥

58.45

विषे न्यस्तं विषं हन्यात् कुष्ठं हन्यात् तनौ स्थितम्
स्वदेहे भ्रूणहत्यादि कृत्वा दिव्येन शुध्यति ॥

58.46

महाग्रहगृहीतेषु ज्वलमानं विचिन्तयेत्
हृदन्ते वै ततः शीघ्रं नश्येयुर् दारुणा ग्रहाः ॥

58.47

बालानां कण्ठके बद्धं रक्षा भवति नित्यशः
गण्डपिण्डकलूतानां नाशनं कुरुते ध्रुवम् ॥

58.48

व्याधिजाते समिद्भिश् च घृतक्षीरेण होमयेत्
त्रिसंध्यं मासम् एकं तु सर्वरोगान् विनाशयेत् ॥

58.49

असाध्यं तु न पश्यामि त्रैलोक्ये सचराचरे
यां यां कामयते सिद्धिं तां तां प्राप्नोति स ध्रुवम् ॥

58.50

अष्टोत्तरशतं त्व् एके पूजयित्वा मृगाधिपम्
मृत्तिकाः सप्त वल्मीके श्मशाने च चतुष्पथे ॥

58.51

रक्तचन्दनसंमिश्रा गवां क्षीरेण लोडयेत्
सिंहस्य प्रतिमां कृत्वा प्रमाणेन षडङ्गुलाम् ॥

58.52

लिम्पेत् तथा भूर्जपत्त्रे रोचनया समालिखेत्
नरसिंहस्य कण्ठे तु बद्ध्वा चैव हि मन्त्रवित् ॥

58.53

जपेत् संख्याविहीनं तु पूजयित्वा जलाशये
यावत् सप्ताहमात्रं तु जपेत् संयमितेन्द्रियः ॥

58.54

जलाकीर्णा मुहूर्तेन जायते सर्वमेदिनी
अथवा शुष्कवृक्षाग्रे नरसिंहं तु पूजयेत् ॥

58.55

जप्त्वा चाष्टशतं तत्त्वं वर्षन्तं विनिवारयेत्
तम् एवं पिञ्जके बद्ध्वा भ्रामयेत् साधकोत्तमः ॥

58.56

महावातो मुहूर्तेन आगच्छेन् नात्र संशयः
पुनश् च धारयेत् क्षिप्रं सप्तसप्तेन वारिणा ॥

58.57

अथ तां प्रतिमां द्वारि निखनेद् यस्य साधकः
गोत्रोत्सादो भवेत् तस्य उद्धृते चैव शान्तिदः ॥

58.58

तस्मात् तं मुनिशार्दूला भक्त्या संपूजयेत् सदा
मृगराजं महावीर्यं सर्वकामफलप्रदम् ॥

58.59

विमुक्तः सर्वपापेभ्यो विष्णुलोकं स गच्छति
ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातयः ॥

58.60

संपूज्य तं सुरश्रेष्ठं भक्त्या सिंहवपुर्धरम्
मुच्यन्ते चाशुभैर् दुःखैर् जन्मकोटिसमुद्भवैः ॥

58.61

संपूज्य तं सुरश्रेष्ठं प्राप्नुवन्त्य् अभिवाञ्छितम्
देवत्वम् अमरेशत्वं गन्धर्वत्वं च भो द्विजाः ॥

58.62

यक्षविद्याधरत्वं च तथान्यच् चाभिवाञ्छितम्
दृष्ट्वा स्तुत्वा नमस्कृत्वा संपूज्य नरकेसरीम् ॥

58.63

प्राप्नुवन्ति नरा राज्यं स्वर्गं मोक्षं च दुर्लभम्
नरसिंहं नरो दृष्ट्वा लभेद् अभिमतं फलम् ॥

58.64

निर्मुक्तः सर्वपापेभ्यो विष्णुलोकं स गच्छति
सकृद् दृष्ट्वा तु तं देवं भक्त्या सिंहवपुर्धरम् ॥

58.65

मुच्यते चाशुभैर् दुःखैर् जन्मकोटिसमुद्भवैः
संग्रामे संकटे दुर्गे चोरव्याघ्रादिपीडिते ॥

58.66

कान्तारे प्राणसंदेहे विषवह्निजलेषु च
राजादिभ्यः समुद्रेभ्यो ग्रहरोगादिपीडिते ॥

58.67

स्मृत्वा तं पुरुषः सर्वै राजग्रामैर् विमुच्यते
सूर्योदये यथा नाशं तमो ऽभ्येति महत्तरम् ॥

58.68

तथा संदर्शने तस्य विनाशं यान्त्य् उपद्रवाः
गुटिकाञ्जनपाताल पादुके च रसायनम् ॥

58.69

नरसिंहे प्रसन्ने तु प्राप्नोत्य् अन्यांश् च वाञ्छितान्
यान् यान् कामान् अभिध्यायन् भजते नरकेसरीम् ॥

58.70

तांस् तान् कामान् अवाप्नोति नरो नास्त्य् अत्र संशयः
दृष्ट्वा तं देवदेवेशं भक्त्यापूज्य प्रणम्य च ॥

58.71

दशानाम् अश्वमेधानां फलं दशगुणं लभेत्
पापैः सर्वैर् विनिर्मुक्तो गुणैः सर्वैर् अलंकृतः ॥

58.72

सर्वकामसमृद्धात्मा जरामरणवर्जितः
सौवर्णेन विमानेन किङ्किणीजालमालिना ॥

58.73

सर्वकामसमृद्धेन कामगेन सुवर्चसा
तरुणादित्यवर्णेन मुक्ताहारावलम्बिना ॥

58.74

दिव्यस्त्रीशतयुक्तेन दिव्यगन्धर्वनादिना
कुलैकविंशम् उद्धृत्य देववन् मुदितः सुखी ॥

58.75

स्तूयमानो ऽप्सरोभिश् च विष्णुलोकं व्रजेन् नरः
भुक्त्वा तत्र वरान् भोगान् विष्णुलोके द्विजोत्तमाः ॥

58.76

गन्धर्वैर् अप्सरैर् युक्तः कृत्वा रूपं चतुर्भुजम्
मनोह्लादकरं सौख्यं यावद् आभूतसंप्लवम् ॥

58.77

पुण्यक्षयाद् इहायातः प्रवरे योगिनां कुले
चतुर्वेदी भवेद् विप्रो वेदवेदाङ्गपारगः
वैष्णवं योगम् आस्थाय ततो मोक्षम् अवाप्नुयात् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc