भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 57

57.1

अतः परं प्रवक्ष्यामि पञ्चतीर्थविधिं द्विजाः
यत् फलं स्नानदानेन देवताप्रेक्षणेन च ॥

57.2

मार्कण्डेयह्रदं गत्वा नरश् चोदङ्मुखः शुचिः
निमज्जेत् तत्र वारांस् त्रीन् इमं मन्त्रम् उदीरयेत् ॥

57.3

संसारसागरे मग्नं पापग्रस्तम् अचेतनम्
त्राहि मां भगनेत्रघ्न त्रिपुरारे नमो ऽस्तु ते ॥

57.4

नमः शिवाय शान्ताय सर्वपापहराय च
स्नानं करोमि देवेश मम नश्यतु पातकम् ॥

57.5

नाभिमात्रे जले स्नात्वा विधिवद् देवता ऋषीन्
तिलोदकेन मतिमान् पितॄंश् चान्यांश् च तर्पयेत् ॥

57.6

स्नात्वा तथैव चाचम्य ततो गच्छेच् छिवालयम्
प्रविश्य देवतागारं कृत्वा तं त्रिः प्रदक्षिणम् ॥

57.7

मूलमन्त्रेण संपूज्य मार्कण्डेयस्य चेश्वरम्
अघोरेण च भो विप्राः प्रणिपत्य प्रसादयेत् ॥

57.8

त्रिलोचन नमस् ते ऽस्तु नमस् ते शशिभूषण
त्राहि मां त्वं विरूपाक्ष महादेव नमो ऽस्तु ते ॥

57.9

मार्कण्डेयह्रदे त्व् एवं स्नात्वा दृष्ट्वा च शंकरम्
दशानाम् अश्वमेधानां फलं प्राप्नोति मानवः ॥

57.10

पापैः सर्वैर् विनिर्मुक्तः शिवलोकं स गच्छति
तत्र भुक्त्वा वरान् भोगान् यावद् आभूतसंप्लवम् ॥

57.11

इहलोकं समासाद्य भवेद् विप्रो बहुश्रुतः
शांकरं योगम् आसाद्य ततो मोक्षम् अवाप्नुयात् ॥

57.12

कल्पवृक्षं ततो गत्वा कृत्वा तं त्रिः प्रदक्षिणम्
पूजयेत् परया भक्त्या मन्त्रेणानेन तं वटम् ॥

57.13

ओं नमो व्यक्तरूपाय महाप्रलयकारिणे
महद्रसोपविष्टाय न्यग्रोधाय नमो ऽस्तु ते ॥

57.14

अमरस् त्वं सदा कल्पे हरेश् चायतनं वट
न्यग्रोध हर मे पापं कल्पवृक्ष नमो ऽस्तु ते ॥

57.15

भक्त्या प्रदक्षिणं कृत्वा नत्वा कल्पवटं नरः
सहसा मुच्यते पापाज् जीर्णत्वच इवोरगः ॥

57.16

छायां तस्य समाक्रम्य कल्पवृक्षस्य भो द्विजाः
ब्रह्महत्यां नरो जह्यात् पापेष्व् अन्येषु का कथा ॥

57.17

दृष्ट्वा कृष्णाङ्गसंभूतं ब्रह्मतेजोमयं परम्
न्यग्रोधाकृतिकं विष्णुं प्रणिपत्य च भो द्विजाः ॥

57.18

राजसूयाश्वमेधाभ्यां फलं प्राप्नोति चाधिकम्
तथा स्ववंशम् उद्धृत्य विष्णुलोकं स गच्छति ॥

57.19

वैनतेयं नमस्कृत्य कृष्णस्य पुरतः स्थितम्
सर्वपापविनिर्मुक्तस् ततो विष्णुपुरं व्रजेत् ॥

57.20

दृष्ट्वा वटं वैनतेयं यः पश्येत् पुरुषोत्तमम्
संकर्षणं सुभद्रां च स याति परमां गतिम् ॥

57.21

प्रविश्यायतनं विष्णोः कृत्वा तं त्रिः प्रदक्षिणम्
संकर्षणं स्वमन्त्रेण भक्त्यापूज्य प्रसादयेत् ॥

57.22

नमस् ते हलधृग् राम नमस् ते मुशलायुध
नमस् ते रेवतीकान्त नमस् ते भक्तवत्सल ॥

57.23

नमस् ते बलिनां श्रेष्ठ नमस् ते धरणीधर
प्रलम्बारे नमस् ते ऽस्तु त्राहि मां कृष्णपूर्वज ॥

57.24

एवं प्रसाद्य चानन्तम् अजेयं त्रिदशार्चितम्
कैलासशिखराकारं चन्द्रात् कान्ततराननम् ॥

57.25

नीलवस्त्रधरं देवं फणाविकटमस्तकम्
महाबलं हलधरं कुण्डलैकविभूषितम् ॥

57.26

रौहिणेयं नरो भक्त्या लभेद् अभिमतं फलम्
सर्वपापैर् विनिर्मुक्तो विष्णुलोकं स गच्छति ॥

57.27

आभूतसंप्लवं यावद् भुक्त्वा तत्र सुखं नरः
पुण्यक्षयाद् इहागत्य प्रवरे योगिनां कुले ॥

57.28

ब्राह्मणप्रवरो भूत्वा सर्वशास्त्रार्थपारगः
ज्ञानं तत्र समासाद्य मुक्तिं प्राप्नोति दुर्लभाम् ॥

57.29

एवम् अभ्यर्च्य हलिनं ततः कृष्णं विचक्षणः
द्वादशाक्षरमन्त्रेण पूजयेत् सुसमाहितः ॥

57.30

द्विषट्कवर्णमन्त्रेण भक्त्या ये पुरुषोत्तमम्
पूजयन्ति सदा धीरास् ते मोक्षं प्राप्नुवन्ति वै ॥

57.31

न तां गतिं सुरा यान्ति योगिनो नैव सोमपाः
यां गतिं यान्ति भो विप्रा द्वादशाक्षरतत्पराः ॥

57.32

तस्मात् तेनैव मन्त्रेण भक्त्या कृष्णं जगद्गुरुम्
संपूज्य गन्धपुष्पाद्यैः प्रणिपत्य प्रसादयेत् ॥

57.33

जय कृष्ण जगन्नाथ जय सर्वाघनाशन
जय चाणूरकेशिघ्न जय कंसनिषूदन ॥

57.34

जय पद्मपलाशाक्ष जय चक्रगदाधर
जय नीलाम्बुदश्याम जय सर्वसुखप्रद ॥

57.35

जय देव जगत्पूज्य जय संसारनाशन
जय लोकपते नाथ जय वाञ्छाफलप्रद ॥

57.36

संसारसागरे घोरे निःसारे दुःखफेनिले
क्रोधग्राहाकुले रौद्रे विषयोदकसंप्लवे ॥

57.37

नानारोगोर्मिकलिले मोहावर्तसुदुस्तरे
निमग्नो ऽहं सुरश्रेष्ठ त्राहि मां पुरुषोत्तम ॥

57.38

एवं प्रसाद्य देवेशं वरदं भक्तवत्सलम्
सर्वपापहरं देवं सर्वकामफलप्रदम् ॥

57.39

पीनांसं द्विभुजं कृष्णं पद्मपत्त्रायतेक्षणम्
महोरस्कं महाबाहुं पीतवस्त्रं शुभाननम् ॥

57.40

शङ्खचक्रगदापाणिं मुकुटाङ्गदभूषणम्
सर्वलक्षणसंयुक्तं वनमालाविभूषितम् ॥

57.41

दृष्ट्वा नरो ऽञ्जलिं कृत्वा दण्डवत् प्रणिपत्य च
अश्वमेधसहस्राणां फलं प्राप्नोति वै द्विजाः ॥

57.42

यत् फलं सर्वतीर्थेषु स्नाने दाने प्रकीर्तितम्
नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥

57.43

यत् फलं सर्वरत्नाद्यैर् इष्टे बहुसुवर्णके
नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥

57.44

यत् फलं सर्ववेदेषु सर्वयज्ञेषु यत् फलम्
तत् फलं समवाप्नोति नरः कृष्णं प्रणम्य च ॥

57.45

यत् फलं सर्वदानेन व्रतेन नियमेन च
नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥

57.46

तपोभिर् विविधैर् उग्रैर् यत् फलं समुदाहृतम्
नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥

57.47

यत् फलं ब्रह्मचर्येण सम्यक् चीर्णेन तत्कृतम्
नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥

57.48

यत् फलं च गृहस्थस्य यथोक्ताचारवर्तिनः
नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥

57.49

यत् फलं वनवासेन वानप्रस्थस्य कीर्तितम्
नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥

57.50

संन्यासेन यथोक्तेन यत् फलं समुदाहृतम्
नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥

57.51

किं चात्र बहुनोक्तेन माहात्म्ये तस्य भो द्विजाः
दृष्ट्वा कृष्णं नरो भक्त्या मोक्षं प्राप्नोति दुर्लभम् ॥

57.52

पापैर् विमुक्तः शुद्धात्मा कल्पकोटिसमुद्भवैः
श्रिया परमया युक्तः सर्वैः समुदितो गुणैः ॥

57.53

सर्वकामसमृद्धेन विमानेन सुवर्चसा
त्रिसप्तकुलम् उद्धृत्य नरो विष्णुपुरं व्रजेत् ॥

57.54

तत्र कल्पशतं यावद् भुक्त्वा भोगान् मनोरमान्
गन्धर्वाप्सरसैः सार्धं यथा विष्णुश् चतुर्भुजः ॥

57.55

च्युतस् तस्माद् इहायातो विप्राणां प्रवरे कुले
सर्वज्ञः सर्ववेदी च जायते गतमत्सरः ॥

57.56

स्वधर्मनिरतः शान्तो दाता भूतहिते रतः
आसाद्य वैष्णवं ज्ञानं ततो मुक्तिम् अवाप्नुयात् ॥

57.57

ततः संपूज्य मन्त्रेण सुभद्रां भक्तवत्सलाम्
प्रसादयेत् ततो विप्राः प्रणिपत्य कृताञ्जलिः ॥

57.58

नमस् ते सर्वगे देवि नमस् ते शुभसौख्यदे
त्राहि मां पद्मपत्त्राक्षि कात्यायनि नमो ऽस्तु ते ॥

57.59

एवं प्रसाद्य तां देवीं जगद्धात्रीं जगद्धिताम्
बलदेवस्य भगिनीं सुभद्रां वरदां शिवाम् ॥

57.60

कामगेन विमानेन नरो विष्णुपुरं व्रजेत्
आभूतसंप्लवं यावत् क्रीडित्वा तत्र देववत् ॥

57.61

इह मानुषतां प्राप्तो ब्राह्मणो वेदविद् भवेत्
प्राप्य योगं हरेस् तत्र मोक्षं च लभते ध्रुवम् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc