ब्रह्म पुराण · अध्याय 54
स प्रविश्योदरे तस्य बालस्य मुनिसत्तमः
ददर्श पृथिवीं कृत्स्नां नानाजनपदैर् वृताम् ॥
लवणेक्षुसुरासर्पिर् दधिदुग्धजलोदधीन्
ददर्श तान् समुद्रांश् च जम्बु प्लक्षं च शाल्मलम् ॥
कुशं क्रौञ्चं च शाकं च पुष्करं च ददर्श सः
भारतादीनि वर्षाणि तथा सर्वांश् च पर्वतान् ॥
मेरुं च सर्वरत्नाढ्यं अपश्यत् कनकाचलम्
नानारत्नान्वितैः शृङ्गैर् भूषितं बहुकन्दरम् ॥
नानामुनिजनाकीर्णं नानावृक्षवनाकुलम्
नानासत्त्वसमायुक्तं नानाश्चर्यसमन्वितम् ॥
व्याघ्रैः सिंहैर् वराहैश् च चामरैर् महिषैर् गजैः
मृगैः शाखामृगैश् चान्यैर् भूषितं सुमनोहरम् ॥
शक्राद्यैर् विविधैर् देवैः सिद्धचारणपन्नगैः
मुनियक्षाप्सरोभिश् च वृतैश् चान्यैः सुरालयैः ॥
एवं सुमेरुं श्रीमन्तम् अपश्यन् मुनिसत्तमः
पर्यटन् स तदा विप्रस् तस्य बालस्य चोदरे ॥
हिमवन्तं हेमकूटं निषधं गन्धमादनम्
श्वेतं च दुर्धरं नीलं कैलासं मन्दरं गिरिम् ॥
महेन्द्रं मलयं विन्ध्यं पारियात्रं तथार्बुदम्
सह्यं च शुक्तिमन्तं च मैनाकं वक्रपर्वतम् ॥
एताश् चान्याश् च बहवो यावन्तः पृथिवीधराः
ततस् तांस् तु मुनिश्रेष्ठाः सो ऽपश्यद् रत्नभूषितान् ॥
कुरुक्षेत्रं च पाञ्चालान् मत्स्यान् मद्रान् सकेकयान्
बाह्लीकान् शूरसेनांश् च काश्मीरांस् तङ्गणान् खसान् ॥
पार्वतीयान् किरातांश् च कर्णप्रावरणान् मरून्
अन्त्यजान् अन्त्यजातींश् च सो ऽपश्यत् तस्य चोदरे ॥
मृगाञ् शाखामृगान् सिंहान् वराहान् सृमराञ् शशान्
गजांश् चान्यांस् तथा सत्त्वान् सो ऽपश्यत् तस्य चोदरे ॥
पृथिव्यां यानि तीर्थानि ग्रामाश् च नगराणि च
कृषिगोरक्षवाणिज्यं क्रयविक्रयणं तथा ॥
शक्रादीन् विबुधाञ् श्रेष्ठांस् तथान्यांश् च दिवौकसः
गन्धर्वाप्सरसो यक्षान् ऋषींश् चैव सनातनान् ॥
दैत्यदानवसंघांश् च नागांश् च मुनिसत्तमाः
सिंहिकातनयांश् चैव ये चान्ये सुरशत्रवः ॥
यत् किंचित् तेन लोके ऽस्मिन् दृष्टपूर्वं चराचरम्
अपश्यत् स तदा सर्वं तस्य कुक्षौ द्विजोत्तमाः ॥
अथवा किं बहूक्तेन कीर्तितेन पुनः पुनः
ब्रह्मादिस्तम्बपर्यन्तं यत् किंचित् सचराचरम् ॥
भूर्लोकं च भुवर्लोकं स्वर्लोकं च द्विजोत्तमाः
महर् जनस् तपः सत्यम् अतलं वितलं तथा ॥
पातालं सुतलं चैव वितलं च रसातलम्
महातलं च ब्रह्माण्डम् अपश्यत् तस्य चोदरे ॥
अव्याहता गतिस् तस्य तदाभूद् द्विजसत्तमाः
प्रसादात् तस्य देवस्य स्मृतिलोपश् च नाभवत् ॥
भ्रममाणस् तदा कुक्षौ कृत्स्नं जगद् इदं द्विजाः
नान्तं जगाम देहस्य तस्य विष्णोः कदाचन ॥
यदासौ नागतश् चान्तं तस्य देहस्य भो द्विजाः
तदा तं वरदं देवं शरणं गतवान् मुनिः ॥
ततो ऽसौ सहसा विप्रा वायुवेगेन निःसृतः
महात्मनो मुखात् तस्य विवृतात् पुरुषस्य सः ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0