भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 53

53.1

ततो गजकुलप्रख्यास् तडिन्मालाविभूषिताः
समुत्तस्थुर् महामेघा नभस्य् अद्भुतदर्शनाः ॥

53.2

केचिन् नीलोत्पलश्यामाः केचित् कुमुदसंनिभाः
केचित् किञ्जल्कसंकाशाः केचित् पीताः पयोधराः ॥

53.3

केचिद् धरितसंकाशाः काकाण्डसंनिभास् तथा
केचित् कमलपत्त्राभाः केचिद् धिङ्गुलसंनिभाः ॥

53.4

केचित् पुरवराकाराः केचिद् गिरिवरोपमाः
केचिद् अञ्जनसंकाशाः केचिन् मरकतप्रभाः ॥

53.5

विद्युन्मालापिनद्धाङ्गाः समुत्तस्थुर् महाघनाः
घोररूपा महाभागा घोरस्वननिनादिताः ॥

53.6

ततो जलधराः सर्वे समावृण्वन् नभस्तलम्
तैर् इयं पृथिवी सर्वा सपर्वतवनाकरा ॥

53.7

आपूरिता दिशः सर्वाः सलिलौघपरिप्लुताः
ततस् ते जलदा घोरा वारिणा मुनिसत्तमाः ॥

53.8

सर्वतः प्लावयाम् आसुश् चोदिताः परमेष्ठिना
वर्षमाणा महातोयं पूरयन्तो वसुंधराम् ॥

53.9

सुघोरम् अशिवं रौद्रं नाशयन्ति स्म पावकम्
ततो द्वादश वर्षाणि पयोदाः समुपप्लवे ॥

53.10

धाराभिः पूरयन्तो वै चोद्यमाना महात्मना
ततः समुद्राः स्वां वेलाम् अतिक्रामन्ति भो द्विजाः ॥

53.11

पर्वताश् च व्यशीर्यन्त मही चाप्सु निमज्जति
सर्वतः सुमहाभ्रान्तास् ते पयोदा नभस्तलम् ॥

53.12

संवेष्टयित्वा नश्यन्ति वायुवेगसमाहताः
ततस् तं मारुतं घोरं स विष्णुर् मुनिसत्तमाः ॥

53.13

आदिपद्मालयो देवः पीत्वा स्वपिति भो द्विजाः
तस्मिन्न् एकार्णवे घोरे नष्टे स्थावरजङ्गमे ॥

53.14

नष्टे देवासुरनरे यक्षराक्षसवर्जिते
ततो मुनिः स विश्रान्तो ध्यात्वा च पुरुषोत्तमम् ॥

53.15

ददर्श चक्षुर् उन्मील्य जलपूर्णां वसुंधराम्
नापश्यत् तं वटं नोर्वीं न दिगादि न भास्करम् ॥

53.16

न चन्द्रार्काग्निपवनं न देवासुरपन्नगम्
तस्मिन्न् एकार्णवे घोरे तमोभूते निराश्रये ॥

53.17

निमज्जन् स तदा विप्राः संतर्तुम् उपचक्रमे
बभ्रामासौ मुनिश् चार्त इतश् चेतश् च संप्लवन् ॥

53.18

निममज्ज तदा विप्रास् त्रातारं नाधिगच्छति
एवं तं विह्वलं दृष्ट्वा कृपया पुरुषोत्तमः
प्रोवाच मुनिशार्दूलास् तदा ध्यानेन तोषितः ॥

53.19

वत्स श्रान्तो ऽसि बालस् त्वं भक्तत्र मम सुव्रत
आगच्छागच्छ शीघ्रं त्वं मार्कण्डेय ममान्तिकम् ॥

53.20

मा त्वयैव च भेतव्यं संप्राप्तो ऽसि ममाग्रतः
मार्कण्डेय मुने धीर बालस् त्वं श्रमपीडितः ॥

53.21

तस्य तद् वचनं श्रुत्वा मुनिः परमकोपितः
उवाच स तदा विप्रा विस्मितश् चाभवन् मुहुः ॥

53.22

को ऽयं नाम्ना कीर्तयति तपः परिभवन्न् इव
बहुवर्षसहस्राख्यं धर्षयन्न् इव मे वपुः ॥

53.23

न ह्य् एष समुदाचारो देवेष्व् अपि समाहितः
मां ब्रह्मा स च देवेशो दीर्घायुर् इति भाषते ॥

53.24

कस् तपो घोरशिरसो ममाद्य त्यक्तजीवितः
मार्कण्डेयेति चोक्त्वा मन् मृत्युं गन्तुम् इहेच्छति ॥

53.25

एवम् उक्त्वा तदा विप्राश् चिन्ताविष्टो ऽभवन् मुनिः
किं स्वप्नो ऽयं मया दृष्टः किं वा मोहो ऽयम् आगतः ॥

53.26

इत्थं चिन्तयतस् तस्य उत्पन्ना दुःखहा मतिः
व्रजामि शरणं देवं भक्त्याहं पुरुषोत्तमम् ॥

53.27

स गत्वा शरणं देवं मुनिस् तद्गतमानसः
ददर्श तं वटं भूयो विशालं सलिलोपरि ॥

53.28

शाखायां तस्य सौवर्णं विस्तीर्णायां महाद्भुतम्
रुचिरं दिव्यपर्यङ्कं रचितं विश्वकर्मणा ॥

53.29

वज्रवैदूर्यरचितं मणिविद्रुमशोभितम्
पद्मरागादिभिर् जुष्टं रत्नैर् अन्यैर् अलंकृतम् ॥

53.30

नानास्तरणसंवीतं नानारत्नोपशोभितम्
नानाश्चर्यसमायुक्तं प्रभामण्डलमण्डितम् ॥

53.31

तस्योपरि स्थितं देवं कृष्णं बालवपुर्धरम्
सूर्यकोटिप्रतीकाशं दीप्यमानं सुवर्चसम् ॥

53.32

चतुर्भुजं सुन्दराङ्गं पद्मपत्त्रायतेक्षणम्
श्रीवत्सवक्षसं देवं शङ्खचक्रगदाधरम् ॥

53.33

वनमालावृतोरस्कं दिव्यकुण्डलधारिणम्
हारभारार्पितग्रीवं दिव्यरत्नविभूषितम् ॥

53.34

दृष्ट्वा तदा मुनिर् देवं विस्मयोत्फुल्ललोचनः
रोमाञ्चिततनुर् देवं प्रणिपत्येदम् अब्रवीत् ॥

53.35

अहो चैकार्णवे घोरे विनष्टे सचराचरे
कथम् एको ह्य् अयं बालस् तिष्ठत्य् अत्र सुनिर्भयः ॥

53.36

भूतं भव्यं भविष्यं च जानन्न् अपि महामुनिः
न बुबोध तदा देवं मायया तस्य मोहितः
यदा न बुबुधे चैनं तदा खेदाद् उवाच ह ॥

53.37

वृथा मे तपसो वीर्यं वृथा ज्ञानं वृथा क्रिया
वृथा मे जीवितं दीर्घं वृथा मानुष्यम् एव च ॥

53.38

यो ऽहं सुप्तं न जानामि पर्यङ्के दिव्यबालकम् ॥

53.39

एवं संचिन्तयन् विप्रः प्लवमानो विचेतनः
त्राणार्थं विह्वलश् चासौ निर्वेदं गतवांस् तदा ॥

53.40

ततो बालार्कसंकाशं स्वमहिम्ना व्यवस्थितम्
सर्वतेजोमयं विप्रा न शशाकाभिवीक्षितुम् ॥

53.41

दृष्ट्वा तं मुनिम् आयान्तं स बालः प्रहसन्न् इव
प्रोवाच मुनिशार्दूलास् तदा मेघौघनिस्वनः ॥

53.42

वत्स जानामि श्रान्तं त्वां त्राणार्थं माम् उपस्थितम्
शरीरं विश मे क्षिप्रं विश्रामस् ते मयोदितः ॥

53.43

श्रुत्वा स वचनं तस्य किंचिन् नोवाच मोहितः
विवेश वदनं तस्य विवृतं चावशो मुनिः ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc